॥ श्रीगणेशाय नमः ॥
प्रल्हाद उवाच ।
शृणु गृत्समद त्वं मे वचनं दीनपालक ।
कोऽसौ भ्रुशुण्डिनामा वै मुनिर्मे ब्रूहि साम्प्रतम् ॥ १ ॥
तपसा केन तस्याऽपि भूशुण्डा निःसृता प्रभो ।
कीदृशी मानसी पूजा कृता मां वद विस्तरात् ॥ २ ॥
आश्चर्यं परमं प्राप्तः श्रुत्वा मुनिवरस्य च ।
महिमानं महाभाग धन्यो भूमण्डलेऽभवत् ॥ ३ ॥
गणेशभजने सक्ता नरास्ते ब्रह्मरूपिणः ।
तेषां कथा प्रवक्तारं श्रोतारं प्रपुनाति च ॥ ४ ॥
मुद्गल उवाच ।
एवं पृष्टो गृत्समदो महायोगी तमब्रवीत् ।
प्रह्लादं भक्तिपात्रं वै दृष्ट्वा हर्षसमन्वितः ॥ ५ ॥
गृत्समद उवाच ।
शृणु प्रह्लाद भावेन कथां लोकैकपावनीम् ।
भ्रुशुण्डिसंश्रितां पुण्यां ब्रह्मभूतपदप्रदाम् ॥ ६ ॥
नन्दुरे त्ववसद् ग्रामे नामा कैवर्तकः पुरा ।
नाम्ना पापी सुविख्यातो महापापपरायणः ॥ ७ ॥
धृत्वा ग्रामेषु शस्त्रादीन् वनेषु विचचार ह ।
जीवहिंसां सदा तत्र चकार कामवर्जितः ॥ ८ ॥
मार्गस्थांश्च जनान् वीक्ष्याऽमारयद्धनलिप्सया ।
सङ्गृह्य मिलितं ग्रामे जगाम प्रत्यहं खलः ॥ ९ ॥
द्रव्यवस्त्रादिहीनांस्तान् दृष्ट्वा मारयताप्यहो ।
जीवं दृष्ट्वा क्रूरकर्मा न मुमोच वधप्रियः ॥ १० ॥
धनं तेषां गृहीत्वाऽसौ धनवान् प्रबभूव ह ।
द्रव्यसञ्चयभावेन न तुतोष कदाचन ॥ ११ ॥
न सङ्ख्यां कर्तुमत्यन्तं तस्य पापस्य वै भवेत् ।
ब्रह्मा समर्थः शेषश्च पापानां भागिनौ भयात् ॥ १२ ॥
स्त्रीगोबालद्विजादीनां हत्याऽपारा कृता पुरा ।
तेन तस्य च भारेण पीडिता भूरभूत्ततः ॥ १३ ॥
एकदा वनमध्येऽसौ कञ्चित्पुरुषमुत्तमम् ।
दृष्ट्वा वधार्थमानन्दादधावच्छस्त्रसंयुतः ॥ १४ ॥
तमागतं समालोक्य दुष्टं दूरे पलाय्य सः ।
गव्यूतिमात्रमासाद्य ग्रामं तत्र जगाम ह ॥ १५ ॥
नामा प्रह्लाद मार्गे स पतितोऽधावनाऽऽकुलः ।
जातश्च दुःखितोऽत्यन्तं विरराम वधात्तदा ॥ १६ ॥
मन्दगत्या चचालाऽसौ मार्गे कुण्डं ददर्श ह ।
तत्र श्रमापनोदार्थं स्नानं चक्रे महाखलः ॥ १७ ॥
तदेव गणराजस्य तीर्थं पुण्यप्रदं महत् ।
तस्य प्रभावयोगेन पापं संशिथिलं त्वभूत् ॥ १८ ॥
[[१२३]]
स पापशिथिलो नामा विचारमकरोद् हृदि ।
अहो मया च पापानि कृतानि कति नाऽविदम् ॥ १९ ॥
मृतोऽहं नरके घोरे पतिष्यामि न संशयः ।
कल्पान् दुःखमनेकांश्च सहिष्यामि कथं परम् ॥ २० ॥
मुद्गल उवाच ।
एवं ब्रुवन्तमानन्ददायकं मुनिसत्तमम् ।
प्रह्लादो वै गृत्समदं पप्रच्छ विनयान्वितः ॥ २१ ॥
प्रल्हाद उवाच ।
कीदृशं कुण्डरूपं च केन वा चरितं तपः ।
तत्र येन गणेशस्य स्थानं कुण्डात्मकं ह्यभूत् ॥ २२ ॥
ततो गृत्समदः प्राह प्रह्लादं सर्वमञ्जसा ।
आह्लादेन समायुक्तो गाणपत्यो महायशाः ॥ २३ ॥
गृत्समद उवाच ।
अत्र ते कथयिष्यामि चेतिहासं पुरातनम् ।
सूर्यस्य यमराजस्य संवादं पापनाशनम् ॥ २४ ॥
सूर्याय प्रददौ कन्यां विश्वकर्मा महाद्भुताम् ।
सञ्ज्ञां कर्ममयीं देवीं मायारूपां महाद्युतिः ॥ २५ ॥
तपसा शतवर्षैस्तां प्रसन्नां स चकार ह ।
ययाचे विश्वकर्मा तां पुत्री मे भव मानदे ॥ २६ ॥
साऽऽदिमाया वरात्तस्य पुत्री जाता सुरेश्वर ।
तां गृहीत्वा गृहं देव सविता प्रजगाम ह ॥ २७ ॥
तया रेमे महातेजाश्चिरकालं विभावसुः ।
तस्यां पुत्रौ च पुत्रीं वै जनयामास वीर्यतः ॥ २८ ॥
वैवस्वतो मनुर्ज्येष्ठो यमश्च यमुना नदी ।
सर्वे स्वधर्मशीलास्ते महाभागा बभूविरे ॥ २९ ॥
तीक्ष्णेन तेजसा तप्ता सञ्ज्ञा सूर्यस्य नित्यदा ।
निर्ममे मायया छायां स्वस्याकृतिधरां ततः ॥ ३० ॥
तस्यै सर्वं निवेद्यैव पुत्रीं पुत्रौ गृहादिकम् ।
उवाच रविणा पृष्टा मा वद त्वं स्वचेष्टितम् ॥ ३१ ॥
तां छाया प्रत्युवाचेदं यदि मां धर्षयिष्यति ।
सविता चेन् महाभागे वदिष्यामि न संशयः ॥ ३२ ॥
गच्छ देवि यथा चित्ते निश्चयस्तादृशं कुरु ।
अहं सर्वं त्वदीयं यत् कार्यं संसाधयामि तत् ॥ ३३ ॥
ततः सञ्ज्ञा ययौ गेहं पितुस्तेन तिरस्कृता ।
भर्तारं त्यज मैवं त्वं स्वगृहं गच्छ मा कुरु ॥ ३४ ॥
ततः सा वनवासाय जगामाश्वस्वरूपिणी ।
भूत्वा तताप सा ध्यात्वा तपो गणपतिं प्रभुम् ॥ ३५ ॥
मालामन्त्रेण विघ्नेशं तोषयामास सा सती ।
पूर्णे वर्षशते तत्राजगाम गणनायकः ॥ ३६ ॥
तया सम्पूजितो देवः स्तुतश्चैव विशेषतः ।
वरं ददौ महाराज मनसीप्सितमादरात् ॥ ३७ ॥
देव्यर्यमा सौम्यतेजा भविष्यति न संशयः ।
त्वं मायाबन्धहीना वै मद्भक्तिनिरता भव ॥ ३८ ॥
यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ।
कोपहीनः स्वयं भानुस्त्वामत्रागत्य नेष्यति ॥ ३९ ॥
एवमुक्त्वा गणाधीशोन्तर्धानं प्रचकार ह ।
सा तत्र गणपं देवं ध्यायन्ती संस्थिताऽभवत् ॥ ४० ॥
छायायां सविता तद्वत् पुत्रौ पुत्रीं महायशाः ।
अथ सञ्जनयामास धर्मयुक्तान् महौजसः ॥ ४१ ॥
सावर्णिश्च मनुर्ज्येष्ठः सम्भूतश्च शनैश्चरः ।
तापी नाम्नी नदी कन्या त्रयस्ते प्रथिता भुवि ॥ ४२ ॥
छाया स्वपुत्रवात्सल्यात् सञ्ज्ञा पुत्रांश्च भेदतः ।
सततं न्यूनभावेनाऽवर्तयत् साधुसत्तम ॥ ४३ ॥
[[१२४]]
मनुश्च सेहे तं मातुरपराधं विचक्षणः ।
धर्मराजः स तां तत्र निषिषेध मुहुर्मुहुः ॥ ४४ ॥
सा स्वभावं स्वकीयं तं न तत्याज कदाचन ।
कुपितो धर्मराजस्तां पदा हन्तुं प्रचक्रमे ॥ ४५ ॥
तं चाविनयसंयुक्तं शशाप जननी सुतम् ।
पादस्ते क्लेद्यतां प्राप्य पतिष्यति धरातले ॥ ४६ ॥
धर्म: क्रोधं समागृह्य सवितारं जगाम ह ।
भयभीतश्च शापेन वृत्तान्तं तं जगाद सः ॥ ४७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते यमशापवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायः ॥