॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
द्वितीये दिवसे तत्र धर्मदत्तो महामुनिः ।
स्वगृहे तं मुनेः पुत्रमानयामास यत्नतः ॥ १ ॥
मार्गे दैत्यौ हतौ तेन खरवेषधरावुभौ ।
कामक्रोधासुरौ पश्चाद्गजवेषधरौ हतौ ॥ २ ॥
ततो मुनिः सुभावेनापूजयत्तं विनायकम् ।
कन्ये स्वे प्रददौ तस्मै सिद्धिबुद्धी सुलक्षणे ॥ ३ ॥
ततस्तत्राऽऽययौ जृम्भा राक्षसी घोररूपिणी ।
रूपं धृत्वा मनुष्यस्य सुप्रसन्नाननाम्बुजा ॥ ४ ॥
विषयुक्तेन तैलेन सा ममर्द विनायकम् ।
विज्ञाता देवदेवेन हता मृत्युमवाप च ॥ ५ ॥
चतुर्थे दिवसे तत्र सम्प्राप्ता दैत्यपुङ्गवाः ।
ज्वालामुखोऽथ व्याघ्रास्यो दारुणश्च महाबलः ॥ ६ ॥
तान् हत्वा योगभावेन काश्यपो लीलयाऽरमत् ।
बालमध्ये यथाऽन्यो वै प्राकृतो माययाऽसुर ॥ ७ ॥
ब्रह्मविष्णुमुखास्तत्र द्रष्टुमाश्चर्यमुत्कटम् ।
बालक्रीडनसम्भूतं संस्थिताश्च व्यलोकयन् ॥ ८ ॥
[[१२०]]
तत्र तं पञ्चमे देवं दिवसे मुनिनन्दनम् ।
प्रणम्य काशिराजः स भोजनार्थममन्त्रयत् ॥ ९ ॥
चतुर्थ्यां शुक्लपक्षस्य प्रातःकाले महामुनिः ।
भ्रुशुण्डी चापूजयत्तं मानस्या पूजया प्रभुम् ॥ १० ॥
पूजां दृष्ट्वा स्वयं राजा प्रातस्तत्र सुविस्मितः ।
उवाच तं कृता केन पूजेयं वद मे प्रभो ॥ ११ ॥
ततस्तं कथयामास भ्रुशुण्डी मेऽतिवल्लभः ।
महाभक्तः करोतीमां पूजां पश्य नराधिप ॥ १२ ॥
एकनिष्ठतया विप्रो भजते मां विशेषतः ।
मद्विनान्यन्न जानाति देवतीर्थादिकं कदा ॥ १३ ॥
श्रुत्वा तस्य वचो रम्यं जगाद नृपसत्तमः ।
विनायकं प्रणम्यैव तं प्रदर्शय योगिनम् ॥ १४ ॥
काशिराजवचः श्रुत्वा प्रेषयामास तं ततः ।
जवनाश्वसमारूढो राजा तस्याश्रमं ययौ ॥ १५ ॥
दृष्ट्वा तं शुण्डया युक्तं स नत्वा विस्मितो नृपः ।
प्रार्थयामास योगीशं काश्यां नेतुं सुभक्तितः ॥ १६ ॥
काशिराज उवाच ।
विनायकाज्ञया स्वामिन्नागतस्तेऽहमाश्रमे ।
त्वामाह्वयति देवोऽसौ मद्गृहे संस्थितः स्वयम् ॥ १७ ॥
चतुर्थ्यामद्य योगीन्द्र मानस्या पूजया त्वया ।
पूजितस्तां महापूजां दर्शयामास मां विभुः ॥ १८ ॥
कश्यपस्य गृहे सोऽपि विनायक इति स्मृतः ।
तपसाऽऽराधितस्तेन पुत्रोऽभूद्गणनायकः ॥ १९ ॥
अहं तस्य तथा दासो यजमानो महामते ।
विवाहार्थं तु पुत्रस्याऽऽनीतोऽसौ मद्गृहे मया ॥ २० ॥
विनायकेन कथितमानयस्व महामुनिम् ।
याचे ह्यतोऽहं योगीन्द्राऽऽगच्छ काशीं महापुरीम् ॥ २१ ॥
तस्य तद्वचनं श्रुत्वा विस्मितो मुनिसत्तमः ।
उवाच तं स गाणेशः काशिराजं महामतिम् ॥ २२ ॥
भ्रुशुण्ड्युवाच ।
शृणु राजन् महाभाग वेदान्तागोचरो विभुः ।
यदि भक्त्या समायातस्त्वद्गृहे कश्यपात्मजः ॥ २३ ॥
तथापि शुण्डया हीनं नमामि न कदाचन ।
कलांशादिसमायुक्तं जानीहि नृपसत्तम ॥ २४ ॥
कलात्मकास्तस्य सर्वे देवा विष्णुशिवादयः ।
ते सर्वे मां नमन्त्येव शुण्डाभक्तियुतं परम् ॥ २५ ॥
गजाननं परित्यज्याऽहं नमामि न कञ्चन ।
अतस्त्वं गच्छ काश्यां वै तं नयामि विनायकम् ॥ २६ ॥
तस्य तद्वचनं श्रुत्वा ह्येकभक्तिसमन्वितम् ।
उवाच तं प्रणम्यैव काशिराजः प्रतापवान् ॥ २७ ॥
काशिराज उवाच ।
मुने शृणु वचो मेऽद्य नाऽहं शक्तो भवामि च ।
काश्यां गन्तुं महाभागाऽपराह्णे श्रान्तवाहनः ॥ २८ ॥
ततो मुनिर्नृपं प्राह लोचनामीलनं कुरु ।
तथाभूतं नृपश्रेष्ठं प्रेषयामास तां पुरीम् ॥ २९ ॥
पुनरुन्मील्य नेत्रे स्वेऽपश्यद्गेहं महानृपः ।
स्वां पुरीं विस्मितो भूत्वा प्रणनाम विनायकम् ॥ ३० ॥
वृत्तं संश्रुत्य भूपेशात् पुनस्तं गणनायकः ।
मायया स मुनेस्तस्याश्रमस्थमकरोत्ततः ॥ ३१ ॥
पुनः समागतं वीक्ष्य नृपं प्राह महामुनिः ।
किमर्थमागतो राजन्नद्यैव वद मे गृहे ॥ ३२ ॥
ततस्तं राजशार्दूलो जगाद कथितं च यत् ।
विनायकेन भोः स्वामिंस्त्वामाह्वयति विघ्नपः ॥ ३३ ॥
[[१२१]]
तेनाऽहं प्रेषितो नूनं शुण्डादण्डधरेण च ।
चल शीघ्रं मया सार्धं द्रष्टुं पूर्णं गजाननम् ॥ ३४ ॥
श्रुत्वा तस्य वचो रम्यं भक्त्याऽत्यन्तं लुलोठ च ।
रोमाञ्चितशरीरोऽसौ साश्रुनेत्रो महामुनिः ॥ ३५ ॥
तं दृष्ट्वा विस्मितोऽत्यन्तं काशिराजो महामनाः ।
अहो भक्तिरियं साक्षाद् दृश्यते देहधारिणी ॥ ३६ ॥
देहभावं समासाद्य यात्रार्थं तेन भूभुजा ।
भ्रुशुण्डी चलितश्चैव स्वाश्रमात् प्रजगाम सः ॥ ३७ ॥
देहश्रमेण यात्रा वै कर्तव्या गणपस्य च ।
विचार्यैवं ययौ पद्भ्यामविमुक्तं महामुनिः ॥ ३८ ॥
ज्ञात्वा तस्य हृदिस्थं सा निश्चयं धरणी मुनिम् ।
प्रापयामास काश्यां तं क्षणेन नृपसंयुतम् ॥ ३९ ॥
नृपेण नगरी दृष्टा तमुवाच ततः परम् ।
स्वामिन् समागता काशी प्रभावात्तपसश्च ते ॥ ४० ॥
ततस्तं स्वगृहे नीत्वाऽपूजयन् नृपसत्तमः ।
विनायकः समायातं भक्तं पश्यति साश्रुकः ॥ ४१ ॥
तस्य भावं विदित्वाऽसौ शुण्डां धृत्वा विनायकः ।
मूषकोपरि संस्थाय प्रजगाम महामुनिम् ॥ ४२ ॥
चतुर्भुजधरं विप्रो महोदरविराजितम् ।
शेषनाभिं त्वेकदन्तं दृष्ट्वा तं प्रणनाम च ॥ ४३ ॥
अपूजयत् भ्रुशुण्डी तं भक्तिभावसमन्वितः ।
पुनः प्रणम्य तुष्टाव नानास्तोत्रैः प्रसन्नधीः ॥ ४४ ॥
उवाच विस्खलद्वाक्यो भक्ते रसपरिप्लुतः ।
गजाननं निजं नाथं कृतकृत्यो महासुर ॥ ४५ ॥
भ्रुशुण्ड्युवाच ।
तव दर्शनमात्रेण कृतकृत्यो गजानन ।
महता भाग्ययोगेन दृष्टं ते चरणं विभो ॥ ४६ ॥
अधुना मे वरं देहि तेन तुष्टो भवाम्यहम् ।
तव विस्मरणं नाथ न भवेन् मे तथा कुरु ॥ ४७ ॥
अनेनैव स्वरूपेण मत्स्थाने संस्थितो भव ।
आशापूरकनाम्ना त्वं ख्यातो भव गजानन ॥ ४८ ॥
तत्रैवानन्यभक्त्या त्वां भजामि रसयुक्तया ।
मुद्गलेन समं मां त्वं पूर्णं भक्तं कुरु प्रभो ॥ ४९ ॥
अथवा मुद्गलाच्चैवाधिकं मां कुरु विघ्नप ।
गुरोरतिक्रमाच्छिष्यः पुत्रो वा तस्य नाल्पकः ॥ ५० ॥
एवं प्रार्थयमानं तं तथेति गणनायकः ।
जगाद स पुनर्बालो भूत्वाऽखेलत्तु सादरम् ॥ ५१ ॥
तं प्रणम्य ययौ स्थानं स्वकीयं मुनिसत्तमः ।
भ्रुशुण्डी च ततः काशिराजः संविस्मितोऽभवत् ॥ ५२ ॥
हृदि राजा विचार्यासावेकनिष्ठो बभूव ह ।
गणेशभजने दृष्ट्वा भ्रुशुण्डीचरितं महत् ॥ ५३ ॥
अहो मुनिवरो धन्यो नानारूपात्मिकां पराम् ।
मायां त्यक्त्वा स योगेन भजते गणनायकम् ॥ ५४ ॥
सर्वेषां ब्रह्मणां योगो गणेशे भवति प्रभो ।
अतस्तमेकभावेन भजतेऽसौ महामुनिः ॥ ५५ ॥
एकनिष्ठा समा भक्तिर्न भूता न भविष्यति ।
कोट्यंशेन समा नान्या तत् भजेत् योगिसत्तमः ॥ ५६ ॥
सर्वत्र गणराजोऽयं वसत्यत्र न संशयः ।
कलांशेन ततोऽन्येषां भजने च फलं लभेत् ॥ ५७ ॥
गणेशभजनं ह्येकं चेत् पूर्णं भजनं भवेत् ।
सर्वेषां च गणेशस्य भ्रुशुण्डी तत् समाश्रितः ॥ ५८ ॥
अहो भ्रुशुण्डिना तुल्यो दृश्यते न कदाचन ।
प्रत्यक्षो गणराजोऽयं शुण्डावान्नात्र संशयः ॥ ५९ ॥
[[१२२]]
काश्यां मुक्तिस्वरूपायामागतोऽसौ महामुनिः ।
मणिकर्णीं च विश्वेशं सस्मार मनसाऽपि न ॥ ६० ॥
गणेशार्थं समायातस्तं प्रणम्य महामुनिः ।
स्वाश्रमं पुनरेवासौ जगाम सुखदायकम् ॥ ६१ ॥
एवं विस्मयभावेन काशिराजस्तथाऽभजत् ।
गणेशं साधुभावज्ञः सोऽपि तत्समतां ययौ ॥ ६२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते भ्रुशुण्डीभक्तिवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥