॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
प्रह्लादेन श्रुतं पूर्णं मदासुरचरित्रकम् ।
पुनः किं च कृतं योगिंस्तद्वद त्वं महामते ॥ १ ॥
श्रुत्वा कथामृतं पूर्णं हर्षश्चेतसि मुद्गल ।
जायते नाऽत्र सन्देहो न तृप्तोऽहं भवाम्यतः ॥ २ ॥
सूत उवाच ।
दक्षस्य वचनं श्रुत्वा मुद्गलो हर्षितोऽभवत् ।
उवाच तं महाभागं तत्त्वं शृणु च शौनक ॥ ३ ॥
मुद्गल उवाच ।
धन्योऽसि दक्ष सारज्ञ गणेशस्य कथामृतम् ।
श्रुत्वा हृष्यसि ते पुण्यं कथयामि कथानकम् ॥ ४ ॥
मदासुरस्य संशान्तिं श्रुत्वा पप्रच्छ दैत्यपः ।
प्रह्लादस्तं गृत्समदं विनयावनतः कथाम् ॥ ५ ॥
प्रल्हाद उवाच ।
महद्भाग्यं मुने मे यद्येन संश्रावितं त्वया ।
एकदन्तस्य माहात्म्यं परमानन्ददायकम् ॥ ६ ॥
तथापि न सुतृप्तोऽहं श्रुत्वा ज्ञानप्रदायकम् ।
चरितं च पुनस्त्वं मे गणेशस्य कथां वद ॥ ७ ॥
कश्यपस्य गृहे देवः कथं पुत्रत्वमागतः ।
कथं दैत्यौ हतौ योगिन् विस्तरेण वदस्व माम् ॥ ८ ॥
कथं स शिवपुत्रोऽभूत् कथं दुर्मतिकं प्रभुः ।
अहनत्तं वदस्व त्वं सर्वज्ञोऽसि कृपानिधे ॥ ९ ॥
कथं गणासुरं दैत्यं कापिलो हतवान् पुरा ।
एतत् सर्वं वद स्वामिन्नेकदन्तचरित्रकम् ॥ १० ॥
भवादृशा महाभागा नौकारूपेण संस्थिताः ।
संसाराब्धौ नराणां वै मज्जतां तरणाय तु ॥ ११ ॥
मुद्गल उवाच ।
एवं पृष्टो महायोगी तमुवाच सुहर्षितः ।
गुणैर्युक्तं गृत्समदः प्रह्लादं भावधारकम् ॥ १२ ॥
गृत्समद उवाच ।
शृणु प्रह्लाद यत् पृष्टं तत्सर्वं कथयामि ते ।
सुखदं च समासेन एकदन्तचरित्रकम् ॥ १३ ॥
पुरा कृतयुगे दैत्य गौडदेशे बभूव ह ।
नगरे गौडसञ्ज्ञे च रौद्रकेतुस्तपोधनः ॥ १४ ॥
तस्य पत्नी महाभागा शारदा रूपशालिनी ।
गर्भयुक्ता कदाचित् सा बभूवे हर्षिताऽभवत् ॥ १५ ॥
समये सुषुवे पुत्रौ यमलौ लोकभीतिदौ ।
नाम्ना चक्रे द्विजातिः स देवान्तकनरान्तकौ ॥ १६ ॥
कदाचिन्नारदेनाऽपि गत्वा तत्र शिवस्य च ।
पञ्चाक्षरेणोपदिष्टौ चेरतुः परमं तपः ॥ १७ ॥
दिव्यवर्षसहस्रैस्तु सन्तुष्टः स सदाशिवः ।
अभयं गुणरूपेभ्यो प्रददौ दैत्ययोः परम् ॥ १८ ॥
वरगर्वेण दैत्येन्द्रौ जित्वा सर्वं चराचरम् ।
ततस्तु कर्मनाशं तौ चक्रतुः पृथिवीतले ॥ १९ ॥
न स्वाहा न स्वधा कुत्र न वषट्कार एव च ।
अभवन्नमराः सर्वे क्षुधितास्तृषितास्ततः ॥ २० ॥
तैः सर्वैः प्रार्थितो देव एकदन्तः प्रतापवान् ।
तपसोग्रेण सन्तुष्टो बभूव प्रददौ वरम् ॥ २१ ॥
कश्यपस्य च पुत्रोऽहं भविष्यामि प्रसिद्धये ।
दैत्येन्द्रयोर्वधस्यैवमुक्त्वा गणपतिययौ ॥ २२ ॥
अथ देवजनित्री सा कदाचित् कश्यपं मुनिम् ।
जगाद हास्यसंयुक्ता ह्यदितिः कृतसम्पुटा ॥ २३ ॥
इन्द्रो विष्णुश्च सूर्यश्च देवाः पुत्राश्च मेऽभवन् ।
स्वामिन् ब्रह्म कथं पुत्रः सम्भविष्यति मे परम् ॥ २४ ॥
तदा मे निश्चलं चेतो भवेच्चैव न संशयः ।
तस्य सेवां कर्तुमीहे तत्रोपायं वद प्रभो ॥ २५ ॥
[[११८]]
तस्यास्तद्वचनं श्रुत्वा गणेशस्य मनुं ददौ ।
अष्टाक्षरं तया तेनाराधितो ह्येकदन्तकः ॥ २६ ॥
सहस्रवर्षपूर्तौ तां वरदः स समाययौ ।
तया पुत्रो भव स्वामिन् याचितः स तथाऽकरोत् ॥ २७ ॥
अदित्यां कश्यपाच्चैव सम्भूतः पुत्रतां गतः ।
मायामास्थाय विघ्नेशश्चिक्रीड प्राकृतो यथा ॥ २८ ॥
एकदा राक्षसी घोरा विरजास्तं जगाल ह ।
विदार्य जठरं तस्या बहिर्यातो ममार सा ॥ २९ ॥
उद्धतौ धुन्धुरत्युग्रौ शुकरूपौ समागतौ ।
धृत्वा तौ स्फालितौ शैले मृतौ दैत्यौ तथाऽकरोत् ॥ ३० ॥
कदाचित् सहिता तेन स्नानार्थमदितिर्ययौ ।
तत्र तं मकराकारो गन्धर्वश्च पदेऽग्रहीत् ॥ ३१ ॥
तेनोड्डीनं कृतं पश्चाद्बहिः स च ममार ह ।
शापमुक्तोऽभवच्चित्रं तं ?प्रणम्य ययौ दिवम् ॥ ३२ ॥
उपवीतप्रदाने वै राक्षसा विप्रलिङ्गिनः ।
पञ्च तं हन्तुमायाता हतास्तेन क्षणेन ते ॥ ३३ ॥
कर्मणि प्रसमाप्ते तं ब्रह्मविष्ण्वादयः सुराः ।
मुनयश्च वसिष्ठाद्या नेमुर्भक्तिसमन्विताः ॥ ३४ ॥
इन्द्रस्तत्र मदेनैव संसिक्तो न ननाम तम् ।
कश्यपेन समाज्ञप्तस्तथाऽपि ज्येष्ठभावतः ॥ ३५ ॥
परीक्षार्थं महेन्द्रेण बालं हन्तुं प्रभञ्जनः ।
प्रेरितः सोऽपि भग्नोऽभूत्ततोऽग्निं स समादिशत् ॥ ३६ ॥
इन्द्रेणाऽऽज्ञापितो वह्निस्तं दग्धुं सहसाऽऽगतः ।
गिलितस्तेन बालेन महेन्द्रो विस्मितोऽभवत् ॥ ३७ ॥
विनायकेन देवेन्द्रः श्वासेन जठरे स्वके ।
नीतस्तत्र सविस्तारं ददर्श सकलं जगत् ॥ ३८ ॥
एवं नानाण्डकं दृष्ट्वा हतगर्वोऽभवत् स्वयम् ।
न ददर्श बहिर्यातुं मार्गं वर्षशतेन वै ॥ ३९ ॥
ततस्तं प्रार्थयामास विनायकमनामयम् ।
तेनाऽपि श्वासमार्गेण बहिर्निष्कासितो हरिः ॥ ४० ॥
ततस्तेन महेन्द्रण दृष्टं कौतुकमुत्तमम् ।
कालोद्भवं महच्चित्रं तच्छृणुष्व महासुर ॥ ४१ ॥
विनायकस्य वर्षाणि जठरे स शतं स्वयम् ।
संस्थितश्च बहिस्तत्र क्षण एकस्तथाऽभवत् ॥ ४२ ॥
ततस्तं प्रणनामाऽऽदौ स्तुत्वा च विविधैः स्तवैः ।
चकार साधुभावेन स भक्तिं नित्यमादरात् ॥ ४३ ॥
ततः कदाचित् काशीपो मुनिगेहं समाययौ ।
पुत्रस्योद्वाहसिद्ध्यर्थं कश्यपं तममन्त्रयत् ॥ ४४ ॥
मुनिर्यज्ञेन रुद्धो वै पुत्रं तस्मै ददौ लघुम् ।
उपाध्यायत्वसिद्धयर्थं विधानज्ञो विनायकम् ॥ ४५ ॥
काशिराजो गणेशं सङ्गृह्य मार्गे जगाम ह ।
तत्र धूम्राक्षदैत्येशं सूर्यास्त्रेण जघान सः ॥ ४६ ॥
तस्य पुत्रौ महावीर्यौ जघनश्च मनुः स्मृतौ ।
भक्षणार्थं समायातौ विनायकमनामयम् ॥ ४७ ॥
विनायकेन निःश्वासेन नीतौ गगने गतौ ।
भ्रमन्तौ पतितौ तत्र नरान्तकसुमन्दिरे ॥ ४८ ॥
नरान्तकस्ततस्ताभ्यां ज्ञात्वा वृत्तान्तमुल्बणम् ।
शतानि पञ्च रक्षांसि प्रेषयामास दैत्यपः ॥ ४९ ॥
तेन दृष्टा महावीरा राक्षसा गणपेन च ।
हुङ्कारेण महोग्रेण ?मम्रुः सर्वे भयातुराः ॥ ५० ॥
ततः स काशिराजेन सहितश्च विनायकः ।
काशीं प्राप्तस्तदा लोकैरविशत् पूजितः परम् ॥ ५१ ॥
[[११९]]
आदौ मुद्गलविप्रेणोपदिष्टः स महामनाः ।
काशिराजश्च गणपमभजन्नित्यमादरात् ॥ ५२ ॥
काशीस्थाश्च जनाः सर्वे गणेशध्यानतत्पराः ।
मुद्गलान् महिमानं चाऽभवन् ज्ञात्वा विचक्षणाः ॥ ५३ ॥
कश्यपस्य स्वयं पुत्रो भविष्यति वधाय च ।
दैत्यानां सोऽपि काश्यां वै विवाहायाऽऽगमिष्यति ॥ ५४ ॥
तस्य दर्शनमात्रेण भविष्यन्ति सुयोगिनः ।
सर्वे काशीस्थभूतानि नरा नार्यो न संशयः ॥ ५५ ॥
एवं मुद्गलविप्रेण बोधिताः सकला जनाः ।
ते सर्वेऽपूजयंस्तं च ज्ञात्वा देवं विनायकम् ॥ ५६ ॥
स्त्रियः सर्वाः समायाता दर्शनार्थं महापथे ।
अनादृत्य पितॄन् भ्रातॄन भर्तॄन भक्तिपरायणाः ॥ ५७ ॥
महोत्सवोऽभवत्तत्र प्रवेशाख्यो महासुर ।
तत्रैका रोधिता नारी देहं तत्याज सोत्तमम् ॥ ५८ ॥
तालुस्फोटेन सा याता सर्वादौ तं विनायकम् ।
पश्यन्त्यस्याऽभवद्दहे लीना भक्तिसमन्विता ॥ ५९ ॥
यत्र तत्र जनैर्देवः पूजितश्च महापथे ।
चचार तत्र दैत्यौ द्वौ बालरूपौ प्रचेरतुः ॥ ६० ॥
विनायकेन हस्ताभ्यां चूर्णितौ दशयोजने ।
पतितौ विस्मिता लोका मेनिरे गणपं च तम् ॥ ६१ ॥
ततो द्वौ चक्रवातस्य रूपेणैव समागतौ ।
शिखां धृत्वा तयोस्तेन मम्रतुः स्फालितौ दृढौ ॥ ६२ ॥
ततः पाषाणरूपेण दैत्यो मार्गे व्यवस्थितः ।
मुष्टिना बालकेनैव हतो मृत्युमवाप सः ॥ ६३ ॥
काशिराजस्ततस्तं स नीत्वा च स्वगृहे स्वयम् ।
पूजयामास विधिवत् स्थापयामास भावतः ॥ ६४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते विनायककाशीप्रवेशो नाम षट्पञ्चाशत्तमोऽध्यायः ॥