॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः ।
भृग्वादयश्च योगीन्द्रा एकदन्तं समाययुः ॥ १ ॥
प्रणम्य तं प्रपूज्याऽऽदौ पुनस्ते नेमुरादरात् ।
तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गजाननम् ॥ २ ॥
देवर्षय ऊचुः ।
सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् ।
अथादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ ३ ॥
अनन्तचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् ।
हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ ४ ॥
समाधिसंस्थं हृदि योगिनां तु प्रकाशरूपेण विभान्तमेवम् ।
सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ५ ॥
स्वबिम्बभावेन विलासयुक्तां प्रकृत्य मायां विविधस्वरूपाम् ।
सुवीर्यकं तत्र ददाति यो वै तमेकदन्तं शरणं व्रजामः ॥ ६ ॥
यदीय वीर्येण समर्थभूतं स्वमायया संरचितं च विश्वम् ।
तुरीयकं ह्यात्मकवित्तिसञ्ज्ञं तमेकदन्तं शरणं व्रजामः ॥ ७ ॥
[[११५]]
त्वदीयसत्ताधरमेकदन्तं गुणेश्वरं यं गुणबोधितारम् ।
भजन्त आद्यं तमजं त्रिसंस्थास्तमेकदन्तं शरणं व्रजामः ॥ ८ ॥
ततस्त्वया प्रेरितनादकेन सुषुप्तिसञ्ज्ञं रचितं जगद्वै ।
समानरूपं च तथैकभूतं तमेकदन्तं शरणं व्रजामः ॥ ९ ॥
तदेव विश्वं कृपया प्रभूतं द्विभावमादौ तमसा विभातम् ।
अनेकरूपं च तथैकभूतं तमेकदन्तं शरणं व्रजामः ॥ १० ॥
ततस्त्वया प्रेरितकेन सृष्टं सुसूक्ष्मभावं जगदेकसंस्थम् ।
सुसात्त्विकं स्वप्नमनन्तमाद्यं तमेकदन्तं शरणं व्रजामः ॥ ११ ॥
तत् स्वप्नमेवं तपसा गणेश सुसिद्धिरूपं द्विविधं बभूव ।
सदैकरूपं कृपया च ते यत्तमेकदन्तं शरणं व्रजामः ॥ १२ ॥
त्वदाज्ञया तेन सदा हृदिस्थ तथा सुसृष्टं जगदंशरूपम् ।
विभिन्नजाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजामः ॥ १३ ॥
तदेव जाग्रद्रजसा विभातं विलोकितं त्वत्कृपया स्मृतेश्च ।
बभूव भिन्नं च सदैकरूपं तमेकदन्तं शरणं व्रजामः ॥ १४ ॥
तदैव सृष्ट्वा प्रकृतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् ।
धियः प्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजामः ॥ १५ ॥
सर्वे ग्रहा भानि यदाज्ञया च प्रकाशरूपाणि विभान्ति खे वै ।
भ्रमन्ति नित्यं स्वविहारकार्यात्तमेकदन्तं शरणं व्रजामः ॥ १६ ॥
त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः ।
त्वदाज्ञया संहारको हरो वै तमेकदन्तं शरणं व्रजामः ॥ १७ ॥
यदाज्ञया भूस्तु जले प्रसंस्था यदाज्ञयाऽऽपः प्रवहन्ति नद्यः ।
स्वतीरसंस्थश्च कृतः समुद्रस्तमेकदन्तं शरणं व्रजामः ॥ १८ ॥
यदाज्ञया देवगणा दिविस्था यच्छन्ति वै कर्मफलानि नित्यम् ।
यदाज्ञया शैलगणाः स्थिरा वै तमेकदन्तं शरणं व्रजामः ॥ १९ ॥
यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहद एव कामः ।
यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजामः ॥ २० ॥
यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽग्निर्जठरादिसंस्थः ।
यदाज्ञयेदं सचराचरं च तमेकदन्तं शरणं व्रजामः ॥ २१ ॥
तदन्तरिक्षं स्थितमेकदन्तं त्वदाज्ञया सर्वमिदं विभाति ।
अनन्तरूपं हृदि बोधकं त्वां तमेकदन्तं शरणं व्रजामः ॥ २२ ॥
सुयोगिनो योगबलेन साध्यं प्रकुर्वते कः स्तवने समर्थः ।
अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः ॥ २३ ॥
गृत्समद उवाच ।
एवं स्तुत्वा गणेशानं देवाः समुनयः प्रभुम् ।
तूष्णीम्भावं प्रपद्यैव ननृतुर्हर्षसंयुताः ॥ २४ ॥
स तानुवाच प्रीतात्मा देवर्षीणां स्तवेन वै ।
एकदन्तो महाभागान् देवर्षीन् भक्तवत्सलः ॥ २५ ॥
एकदन्त उवाच ।
स्तोत्रेणाऽहं प्रसन्नोऽस्मि सुराः सर्षिगणाः खलु ।
वृणुध्वं वरदोऽहं वो दास्यामि मनसीप्सितम् ॥ २६ ॥
भवत्कृतं मदीयं यत् स्तोत्रं प्रीतिप्रदं च तत् ।
भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ २७ ॥
यद्यदिच्छति तत्तद्वै प्राप्नोति स्तोत्रपाठकः ।
पुत्रपौत्रादिकं सर्वं कलत्रं धनधान्यकम् ॥ २८ ॥
[[११६]]
गजाश्वादिकमत्यन्तं राज्यभोगादिकं ध्रुवम् ।
भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ॥ २९ ॥
मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् ।
पठतां शृण्वतां नॄणां भवेत्तद्बन्धहीनता ॥ ३० ॥
एकविंशतिवारं यः श्लोकानेवैकविंशतिम् ।
पठेद्वै हृदि मां स्मृत्वा दिनानि त्वेकविंशतिम् ॥ ३१ ॥
न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु वै भवेत् ।
असाध्यं साधयेन् मर्त्यः सर्वत्र विजयी भवेत् ॥ ३२ ॥
नित्यं यः पठति स्तोत्रं ब्रह्मीभूतः स वै नरः ।
तस्य दर्शनतः सर्वे देवाः पूता भवन्ति च ॥ ३३ ॥
एवं तस्य वचः श्रुत्वा प्रहृष्टा अमरर्षयः ।
ऊचुः सर्वे करपुटैर्भक्त्या युक्ता गजाननम् ॥ ३४ ॥
देवर्षय ऊचुः ।
धन्या वयं गणेशान एकदन्तधर प्रभो ।
त्वदीयदर्शनादेव भाषणान्नात्र संशयः ॥ ३५ ॥
वरं देहि त्वदीया नो भक्तिश्च सुदृढा भवेत् ।
मायाहीनास्तथा देव कृतकृत्या भवामहे ॥ ३६ ॥
यदा सङ्कटयुक्ता वै वयं स्याम गजानन ।
तदा नो रक्ष देवेश वरमेवं वृणीमहे ॥ ३७ ॥
तेषां वचनमाकर्ण्य तानुवाच तथास्त्विति ।
एकदन्तोऽन्न्तर्दधेऽसौ स्वस्वानन्दगतोऽभवत् ॥ ३८ ॥
देवा मुनिगणाः सर्वे ययुः स्वस्वपदेषु च ।
स्वस्वधर्मयुता नित्यमभजन्नेकदन्तकम् ॥ ३९ ॥
एवं मदासुरस्तेन शान्तिरूपधरः कृतः ।
प्रह्लाद चैकदन्तेन कथितं ते चरित्रकम् ॥ ४० ॥
दुष्टसङ्गतियोगेन त्वं मदोत्सिक्तभावतः ।
अनादृत्य विधातारं भ्रष्टो ज्ञानान्न संशयः ॥ ४१ ॥
एकदन्तं गणेशं त्वं भजाऽतो दैत्यनायक ।
तेन शान्तो महाभाग भविष्यसि न संशयः ॥ ४२ ॥
स एव एकदन्तस्तु भक्तानां कार्यसिद्धये ।
करोति स्वावतारांश्च नानारूपांस्तु दैत्यप ॥ ४३ ॥
परमौ दारुणौ दैत्यौ देवान्तकनरान्तकौ ।
सम्भूतौ तौ हतौ तेन भूत्वा कश्यपवेश्मनि ॥ ४४ ॥
तथैव दुर्मतिर्नाम दैत्योऽभूद्धर्मलोपकः ।
शान्तये तस्य विघ्नेशः शिवपुत्रो बभूव ह ॥ ४५ ॥
गणासुरेण दुष्टेन धर्मलोपः कृतो यदा ।
तदा कपिलपुत्रोऽभूत् स एव त्वेकदन्तकः ॥ ४६ ॥
एवं नानावतारैः पालयते सकलं जगत् ।
एकदन्तः कलांशेन धर्मरक्षणतत्परः ॥ ४७ ॥
तेषां कथा न शक्या वै गदितुं केनचित् परा ।
गुणान्तं न ययुर्यस्य ब्रह्माद्या मुनयः सुराः ॥ ४८ ॥
अतस्त्वमेकदन्तं तं भज भावेन दैत्यप ।
तेन सर्वं च ते ज्ञानं भविष्यति सुशान्तिदम् ॥ ४९ ॥
एवं मदासुरस्याऽपि कृतं खण्डनमञ्जसा ।
एकदन्तेन सङ्क्षेपाच्चरितं कथितं मया ॥ ५० ॥
पठेद्यः शृणुयात्तस्मै भक्तिं मुक्तिं ददाति सः ।
एकदन्तः प्रसन्नात्मा सदा भवति सौख्यदः ॥ ५१ ॥
नासुरेण स्वभावेन मदस्तं पीडयिष्यति ।
शान्तिरूपेण नित्यं स संरक्षेद्दैत्यनायकः ॥ ५२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते मदासुरचरितसमाप्तिर् नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥
[[११७]]