॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
मदासुरः प्रणम्याऽऽदौ परशुं यमसन्निभम् ।
तुष्टाव विविधैर्वाक्यैः शस्त्रं ब्रह्ममयं भयात् ॥ १ ॥
मदासुर उवाच ।
नमस्ते शस्त्रराजाय नमस्ते परशो महन् ।
तेजःपुञ्जमयायैव कालकालाय ते नमः ॥ २ ॥
एकदन्तस्य यद्वीर्यं स्वधर्मस्थापनात्मकम् ।
त्वमेव नात्र सन्देहो रक्ष मां शरणागतम् ॥ ३ ॥
कालरूपस्त्वमेवेह महाप्रलयसूचकः ।
कः समर्थश्च ते वेगसहने देहधारकः ॥ ४ ॥
अतस्त्वां प्रणमाम्येव ज्योतीरूपं महाद्भुतम् ।
रक्ष मां भयभीतं वै शरणागतवत्सल ॥ ५ ॥
एवं स्तुवन्तमत्यन्तं परशुः शान्तिमादधे ।
ययौ त्यक्त्वा पुनर्हस्ते एकदन्तस्य दैत्यप ॥ ६ ॥
ततो मदासुरः शीघ्रं ययौ तं शरणं भयात् ।
एकदन्तं प्रणम्याऽऽदौ पूजयामास सादरम् ॥ ७ ॥
पूजयित्वा यथान्यायं गणेशं धरणीतले ।
दण्डवत्तं प्रणम्यैव भक्त्या तुष्टाव संयुतः ॥ ८ ॥
मदासुर उवाच ।
नम?स्ते एकदन्ताय मायामायिकरूपिणे ।
सदा ब्रह्ममयायैव गणेशाय नमो नमः ॥ ९ ॥
मूषकारूढरूपाय मूषकध्वजिने नमः ।
सर्वत्र संस्थितायैव बन्धहीनाय ते नमः ॥ १० ॥
चतुर्बाहुधरायैव लम्बोदर सुरूपिणे ।
नाभिशेषाय वै तुभ्यं हेरम्बाय नमो नमः ॥ ११ ॥
चिन्तामणिधरायैव चित्तस्थाय गजानन ।
नानाभूषणयुक्ताय गणाधिपतये नमः ॥ १२ ॥
अनन्तविभवायैवानन्तमायाप्रचालक ।
भक्तानन्दप्रदात्रे ते विघ्नेशाय नमो नमः ॥ १३ ॥
योगिनां योगदात्रे ते योगानां पतये नमः ।
योगाकारस्वरूपाय ह्येकदन्तप्रधारिणे ॥ १४ ॥
मायाकारं शरीरं त एकशब्दः प्रकथ्यते ।
दन्तः सत्तामयस्तत्र मस्तकस्ते नमो नमः ॥ १५ ॥
मायासत्ताविहीनस्त्वं तयोर्योगधरस्तथा ।
कस्त्वां स्तोतुं समर्थः स्यादतस्ते वै नमो नमः ॥ १६ ॥
शरणागतपालाय शरणागतवत्सल ।
पुनः पुनः सिद्धिबुद्धिपते तुभ्यं नमो नमः ॥ १७ ॥
रक्ष मामेकदन्तस्त्वं शरणागतमञ्जसा ।
भक्तं भावेन सम्प्राप्तं संसारात्तारयस्व च ॥ १८ ॥
एवमुक्त्वा प्रणम्यापि मदः कृत्वा प्रदक्षिणाम् ।
कृताञ्जलिपुटो भूत्वा संस्थितो देवसन्निधौ ॥ १९ ॥
तमुवाच गणाधीशः प्रहृष्टेनान्तरात्मना ।
विकाररहितं दृष्ट्वा हृदयं भक्तिसंयुतम् ॥ २० ॥
[[११४]]
एकदन्त उवाच ।
त्वां हन्तुं क्रोधसंयुक्तो जातोऽहं नात्र संशयः ।
अधुना शरणं प्रेप्सुं न हन्मि शरणागतम् ॥ २१ ॥
मदाज्ञावशगो भूत्वा तिष्ठ स्थाने स्वके सदा ।
देवानां वैरमुत्सृज्य मद्भक्तिनिरतो भव ॥ २२ ॥
वरं वरय मत्तस्त्वं त्वया दास्यामि चिन्तितम् ।
विनयेन च सन्तुष्टः स्तोत्रेणाऽहं विशेषतः ॥ २३ ॥
त्वया कृतमिदं स्तोत्रं यः पठिष्यति दैत्यप ।
शृणुयाद्वा प्रयत्नेन भवेत्तस्येप्सितप्रदम् ॥ २४ ॥
न तत्र मदसम्भूतं भयं भवति कर्हिचित् ।
अन्ते स्वानन्ददं तस्मै स्तोत्रं मद्भक्तिदं भवेत् ॥ २५ ॥
एवं तस्य वचः श्रुत्वैकदन्तस्य मदासुरः ।
आसुरं भावमुत्सृज्य शान्तरूपस्तमब्रवीत् ॥ २६ ॥
मदासुर उवाच ।
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
एकदन्तपदे भक्तिं देहि नाथ दृढां सदा ॥ २७ ॥
अन्यं वरं गणेशान देहि वृत्तिं च शाश्वतीम् ।
भक्षयित्वा सदा देव भजेयं ते पदाम्बुजम् ॥ २८ ॥
मदस्य वचनं श्रुत्वा ह्येकदन्तस्तमब्रवीत् ।
मदीया भक्तिरुग्रा ते भविष्यति मदासुर ॥ २९ ॥
यत्र मे स्मरणं चादौ पूजनं वा मदासुर ।
तत्र कर्म सुशान्त्या त्वं युक्तो भव सुरक्षयन् ॥ ३० ॥
विपरीते सदा दैत्य आसुरेण स्वभावतः ।
प्रवर्तय फलं तेषां कर्मणां भक्षयस्व च ॥ ३१ ॥
एवमुक्तो महादैत्यस्तं तथेति प्रणम्य च ।
नगरं स्वं जगामासावेकदन्तपरायणः ॥ ३२ ॥
दैत्यास्त्रिपुरकाद्या ये त्यक्त्वा तं ते ययुस्ततः ।
पातालानि भयोद्विग्ना देवाः स्वस्थानमाश्रिताः ॥ ३३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते मदासुरशान्तिप्राप्तिवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥