॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
एवं दत्वा वरं देवान् मुनीन् सर्वान् गजाननः ।
अन्तर्धाय स्वमात्मानमेकदन्तो ययौ पुरम् ॥ १ ॥
ततः कदाचिद्दैत्येन्द्रं प्रययौ नारदो मुनिः ।
मदासुरं महाक्रूरं तेनायं मानितोऽभवत् ॥ २ ॥
उवाच तं महादैत्यं नारदः प्रहसन् मुनिः ।
शृणु दैत्यपते वाक्यं मदीयं सर्वसौख्यदम् ॥ ३ ॥
वनेषु देवविप्रैश्च तपस्तप्तं सुदारुणम् ।
गणेशस्य मुदे भूप शतवर्षाणि भूरि वै ॥ ४ ॥
ततस्तेषां प्रसन्नोऽभूद्गणेशो ब्रह्मनायकः ।
वरदो ह्यभवत्तत्र भक्त्या सन्तोषितः स्वयम् ॥ ५ ॥
तैस्ते वधार्थमत्यन्तं याचितः स तथाऽवदत् ।
त्वां हनिष्यति वेगेन तस्माद्यत्नपरो भव ॥ ६ ॥
नारदस्य वचः श्रुत्वा क्रोधयुक्तो बभूव ह ।
मदासुरो मुनिं तत्र विसृज्याऽभूत् सुदुःखितः ॥ ७ ॥
ब्रह्माण्डवासिनो ये वै तेभ्यो मृत्युर्न मे भवेत् ।
अयं क एकदन्तश्च तं हन्मि क्रोधसंयुतः ॥ ८ ॥
मया विमोचिता देवा दयया तैः कृतं महत् ।
शत्रुभावयुतं कार्यं तस्मात्तान् हन्मि निश्चितम् ॥ ९ ॥
दैत्येन्द्रैः कथितं सर्वं सत्यं जातं न संशयः ।
देवेन्द्राः शत्रवः सर्वे सुराणां वेदवाक्यतः ॥ १० ॥
एवं विचार्य दैत्येशः समाहूय महासुरान् ।
सन्नद्धो देवनाशार्थं ससैन्यो निःसृतो बहिः ॥ ११ ॥
ततोऽकस्मान् महादेव एकदन्तः प्रतापवान् ।
बभूव प्रकटस्तेषां समीपे भयदायकः ॥ १२ ॥
मूषकारूढमुग्रं तं नरनागस्वरूपिणम् ।
शस्त्रपाणिं चतुर्बाहुं दृष्ट्वा दैत्याः सुविस्मिताः ॥ १३ ॥
ततः कोलाहलं तत्र चक्रुः सर्वे समन्ततः ।
कोऽयं समागतो दैत्या महत् पश्यत कौतुकम् ॥ १४ ॥
दैत्याः सर्वे च तं दृष्ट्वा भयभीता बभूविरे ।
स्थित्वा तत्रैव दैत्येशा दूतं ते सञ्जगुर्वचः ॥ १५ ॥
गच्छ दूत समीपं त्वं पुरुषस्य त्वरान्वितः ।
वृत्तान्तमखिलं ज्ञात्वाऽऽयाहि त्वं सामसंयुतः ॥ १६ ॥
ततस्तमेकदन्तं स ययौ दूतः प्रणम्य च ।
उवाच प्राञ्जलिर्भूत्वा गणेशं देवनायकम् ॥ १७ ॥
दूत उवाच ।
स्वामिन् मदासुरस्याऽहं दूतस्तेन प्रचोदितः ।
स तु ब्रह्माण्डराजो वै त्वां दृष्ट्वा विस्मितोऽभवत् ॥ १८ ॥
भवान् कश्च कुतो यातः किं कार्यं नाम ते प्रभो ।
कस्य वा वद सर्वज्ञ संशयस्यापनुत्तये ॥ १९ ॥
इति पृष्टः स दूतेन एकदन्तस्तमादरात् ।
जगाद हास्यसंयुक्तो दैत्यदूतं विचक्षणम् ॥ २० ॥
एकदन्त उवाच ।
अहं स्वानन्दवासी च स्वानन्दादागतोऽधुना ।
मदासुरं निहन्तुं वै देवानां सुखवृद्धये ॥ २१ ॥
एकदन्त इति ख्यातः सदा ब्रह्मसुखात्मकः ।
दूतवर्य वदाशु त्वं मोहितं तं मदासुरम् ॥ २२ ॥
इच्छसि त्वं जीवितुं चेत्तदा मां शरणं व्रज ।
देवानां द्वेषमुत्सृज्य वस त्वं नगरे स्वके ॥ २३ ॥
देवा हविर्भुजः सन्तु दैत्याः पातालभोगिनः ।
विश्वं सुखस्थं भवतु स्वस्वधर्मपरायणम् ॥ २४ ॥
एतदर्थमहं यातो वद सर्वं सुविस्तरम् ।
मदासुरं महाक्रूरं नोचेद्धन्मि क्षणेन तम् ॥ २५ ॥
एकदन्तवचः श्रुत्वा दैत्यदूतः प्रणम्य तम् ।
ययौ मदासुरं तत्र वृत्तान्तं चाऽब्रवीत् पुरः ॥ २६ ॥
[[११२]]
दूतस्य वचनं श्रुत्वा मूर्च्छितो दैत्यपुङ्गवः ।
दैतेयैः सावधानश्च कृतः सोऽपि शुशोच ह ॥ २७ ॥
उवाच दैत्यपान् सर्वान्नारदेन समीरितम् ।
वाक्यं तदभवत् सत्यं मम शत्रुरयं मतः ॥ २८ ॥
नानाशस्त्रैस्तथास्त्रैस्तं हनिष्यामि न संशयः ।
कथं कालस्य मे मृत्युर्भविष्यति महासुराः ॥ २९ ॥
एवमुक्त्वा ययौ पापी मदः सर्वसमन्वितः ।
एकदन्तं समुद्दिश्य शस्त्रमुग्रं मुमोच ह ॥ ३० ॥
अनिवार्यममोघं च शस्त्रं दृष्ट्वा गजाननः ।
परशुं तोलयित्वा स मुमोच यमसन्निभम् ॥ ३१ ॥
परशुं दैत्यपा दृष्ट्वा तेजसा संवृतं परम् ।
भयभीताः समन्तात्ते पलायन्त दिशो दश ॥ ३२ ॥
परशुर्दैत्यराजास्त्रं सच्छित्वा स्वेन तेजसा ।
ततो दैत्यांश्च सर्वत्र चिच्छेद यमसन्निभः ॥ ३३ ॥
हताः परशुना दैत्याः सर्वे प्रह्लाद तत्क्षणात् ।
त्रिपुरादय एवं ते दृष्ट्वा वै दुद्रुवुर्भयात् ॥ ३४ ॥
ततो मदासुरः क्रुद्धो जग्राहास्त्रमनुत्तमम् ।
संहाराख्यममोघं वै युयोज धनुषि स्वयम् ॥ ३५ ॥
तावत् परशुना विद्धो हृदये दैत्यपुङ्गवः ।
पपात स धरापृष्ठे वाताहत इव द्रुमः ॥ ३६ ॥
ततस्तत्र महास्त्रं तत् परशूपस्थितं त्वभूत् ।
प्रहरार्धेन दैत्येशः सावधानो बभूव ह ॥ ३७ ॥
अपश्यत् स महास्त्रं तत् परशुं यमसन्निभम् ।
समीपे दैत्यराजस्तु विस्मितो हृदयेऽभवत् ॥ ३८ ॥
अयं परशुराजः किं तेजःपुञ्जमयो मया ।
दृश्यते न च संसृष्टो ह्यत आश्चर्यकं त्विदम् ॥ ३९ ॥
ततो हस्तेन दैत्येन गृहीतः परशुर्महान् ।
तथाऽपि हस्तमध्येऽसौ खवच्छून्यस्तदाऽभवत् ॥ ४० ॥
मदः स हृदि विज्ञाय शस्त्रं ब्रह्ममयं परम् ।
ज्ञात्वाऽवयवसंहीनं विचारमकरोत्तदा ॥ ४१ ॥
अहो क एकदन्तोऽयं ब्रह्माकारो न संशयः ।
न ब्रह्माण्डमयाकारो भवेत्तद्वर्जितो न च ॥ ४२ ॥
अतोऽनेन रणे पूर्णं न भविष्यति किञ्चन ।
मारयिष्यति मां नूनं नात्र कार्या विचारणा ॥ ४३ ॥
एवमुक्त्वा हृदि क्षुब्धो दैत्येशश्च मदासुरः ।
दैवयोगेन सस्मार वेदवाक्यं सुखप्रदम् ॥ ४४ ॥
एकदन्तार्थजं ज्ञानं विचार्यैव च विघ्नपम् ।
बुबोध हृदि दैत्येन्द्रो ब्रह्मरूपः प्रधारकम् ॥ ४५ ॥
मायात्मकश्चैकशब्दस्तत्र सर्वं समुद्भवत् ।
भ्रान्तिदं मोहदं पूर्णं नानाखेलमयं जगत् ॥ ४६ ॥
दन्तसत्तात्मकस्तत्र मायाचालकसञ्ज्ञकः ।
बिम्बेन मोहयुक्तः स स्वयं स्वानन्दगोऽभवत् ॥ ४७ ॥
माया भ्रान्तिमयी प्रोक्ता सत्ता चालक उच्यते ।
तयोर्योगे गणेशोऽयमेकदन्तः प्रकथ्यते ॥ ४८ ॥
महद्भाग्यं मदीयं तद्येनाऽयं दृष्टिगोचरम् ।
आयासेन विना प्राप्तस्तं यामि शरणं ततः ॥ ४९ ॥
[[११३]]
भक्त्या संयोगिनो नित्यं भजन्ते शुकमुख्यकाः ।
ब्रह्मभूता महाभागास्तं यामि शरणं ततः ॥ ५० ॥
एवं भक्त्या मदो दैत्यः परियुक्तो महामते ।
त्यक्त्वाऽभिमानजं दोषं तमेव शरणं ययौ ॥ ५१ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते मदासुरपराजयो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥