॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
एवं दीनस्वभावेन प्रार्थितो मुनिसत्तमः ।
सनत्कुमार आनन्ददायकं तानुवाच ह ॥ १ ॥
सनत्कुमार उवाच ।
शृणुतेशादयो देवा मदासुरविनाशने ।
उपायं कथयिष्यामि तत् कुरुध्वं सुरेश्वराः ॥ २ ॥
गणेशं पूजयध्वं वै यूयं सर्वे समादृताः ।
सबाह्यान्तरसंस्थं तं हनिष्यति मदासुरम् ॥ ३ ॥
सनत्कुमारवाक्यं तच्छ्रुत्वा देवर्षिसत्तमाः ।
ऊचुस्तं प्रणिपत्यादौ भक्तिनम्रात्मकन्धराः ॥ ४ ॥
देवर्षय ऊचुः ।
केनोपायेन देवेशं गणेशं मुनिसत्तम ।
पूजयाम विशेषेण तं वद त्वं यथातथम् ॥ ५ ॥
एवं पृष्टो महायोगी देवैश्च मुनिभिः सह ।
उवाचाराधनं तेभ्यो गाणपत्यो महायशाः ॥ ६ ॥
एकाक्षरेण तं देवं हृदिस्थं गणनायकम् ।
विधिना पूजयध्वं च तुष्टस्तेन भविष्यति ॥ ७ ॥
ध्यानं तस्य प्रवक्ष्यामि शृणुध्वं सुरसत्तमाः ।
यूयं तं तादृशं ध्यात्वा तोषयध्वं निधानतः ॥ ८ ॥
एकदन्तं चतुर्बाहुं गजवक्त्रं महोदरम् ।
सिद्धिबुद्धिसमायुक्तं मूषकारूढमेव च ॥ ९ ॥
नाभिशेषं सपाशं वै परशुं कमलं शुभम् ।
अभयं दधतं चैव प्रसन्नवदनाम्बुजम् ॥ १० ॥
भक्तेभ्यो वरदं नित्यमभक्तानां निषूदनम् ।
एतादृशं हृदि ध्यात्वा सेवध्वं चैकदन्तकम् ॥ ११ ॥
सर्वेषां हृदि संस्थोऽयं बुद्धिप्रेरकभावतः ।
स्वयं बुद्धिपतिः साक्षादात्मा वै सर्वदेहिनाम् ॥ १२ ॥
एकशब्दो मता माया देहरूपा विलासिनी ।
सत्तात्मको दन्तशब्दः प्रोक्तस्तत्र न संशयः ॥ १३ ॥
मायाया धारकोऽयं वै सत्तामात्रेण संस्थितः ।
एकदन्तो गणेशानः कथ्यते वेदवादिभिः ॥ १४ ॥
सर्वसत्ताधरं पूर्णमेकदन्तं गजाननम् ।
सेवध्वं भक्तिभावेन भविष्यति सदा सुखम् ॥ १५ ॥
सनत्कुमार उक्त्वैवं ययौ योगी स आदरात् ।
जयहेरम्बमन्त्रं वै समुच्चार्य मुखेन सः ॥ १६ ॥
ततो देवगणाः सर्वे मुनयस्तपसि स्थिताः ।
एकाक्षरविधानेन तोषयामासुरादरात् ॥ १७ ॥
पत्रभक्षा निराहारा वायुभक्षा जलाशिनः ।
कन्दमूलफलाहाराः केचित् केचिद्बभूविरे ॥ १८ ॥
संस्थिता ध्याननिष्ठा वै जपहोमपरायणाः ।
नानातपःप्रभावेणाऽतोषयन् गणनायकम् ॥ १९ ॥
गते वर्षशते चैव सन्तुष्टश्चैकदन्तकः ।
आययौ तान् वरं दातुं ध्यातस्तैर्यादृशस्तथा ॥ २० ॥
जगाद स तपोयुक्तान् मुनीन् देवान् गजाननः ।
वरं वृणुत तुष्टोऽहं दास्यामि ब्राह्मणाऽमराः ॥ २१ ॥
तस्य तद्वचनं श्रुत्वा हृष्टा देवर्षयोऽभवन् ।
उन्मील्य लोचने देवमपश्यन् सविधस्थितम् ॥ २२ ॥
दृष्ट्वा मूषकसंस्थं तं प्रणेमुस्ते गजाननम् ।
मुनयो देवदेवेन्द्रा भक्तियुक्ता अपूजयन् ॥ २३ ॥
पूजयित्वा यथान्यायं प्रणम्य करसम्पुटैः ।
तुष्टुवुश्चैकदन्तं तं भक्तिनम्रात्मकन्धराः ॥ २४ ॥
देवर्षय ऊचुः ।
नमस्ते गजवक्त्राय गणेशाय नमो नमः ।
अनन्तानन्दभोक्त्रे वै ब्रह्मणे ब्रह्मरूपिणे ॥ २५ ॥
[[११०]]
आदिमध्यान्तहीनाय चराचरमयाय ते ।
अनन्तोदरसंस्थाय नाभिशेषाय ते नमः ॥ २६ ॥
कर्त्रे पात्रे च संहर्त्रे त्रिगुणानामधीश्वर ।
सर्वसत्ताधरायैव निर्गुणाय नमो नमः ॥ २७ ॥
सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रदाय च ।
ब्रह्मभूताय देवेश सगुणाय नमो नमः ॥ २८ ॥
परशुं दधते तुभ्यं कमलेन प्रशोभिने ।
पाशाभयधरायैव महोदर नमो नमः ॥ २९ ॥
मूषकारूढदेवाय मूषकध्वजिने नमः ।
आदिपूज्याय सर्वाय सर्वपूज्याय ते नमः ॥ ३० ॥
गुणसंयुक्तकायाय निर्गुणात्मकमस्तक ।
तयोरभेदरूपेण चैकदन्ताय ते नमः ॥ ३१ ॥
वेदान्तागोचरायैव वेदान्तालभ्यकाय ते ।
योगाधीशाय वै तुभ्यं ब्रह्माधीशाय ते नमः ॥ ३२ ॥
अपारगुणधारायानन्तमायाप्रचालक ।
नानावतारभेदाय शान्तिदाय नमो नमः ॥ ३३ ॥
वयं धन्या वयं धन्या यैर्दृष्टो गणनायकः ।
ब्रह्मभूयमयः साक्षात् प्रत्यक्षं पुरतः स्थितः ॥ ३४ ॥
एवं स्तुत्वा प्रहर्षेण ननृतुर्भक्तिसंयुताः ।
साश्रुनेत्रान् सरोमाञ्चान् दृष्ट्वा तान् ढुण्ढिरब्रवीत् ॥ ३५ ॥
एकदन्त उवाच ।
वरं वृणुत देवेशा मुनयश्च यथेप्सितम् ।
दास्यामि तं न सन्देहो भवेद्यद्यपि दुर्लभः ॥ ३६ ॥
भवत्कृतं मदीयं यत् स्तोत्रं सर्वार्थदं भवेत् ।
पठते शृण्वते देवा नानासिद्धिप्रदं द्विजाः ॥ ३७ ॥
शत्रुनाशकरं चैवान्ते स्वानन्दप्रदायकम् ।
पुत्रपौत्रादिकं सर्वं लभते पाठतो नरः ॥ ३८ ॥
गृत्समद उवाच ।
एवं तस्य वचः श्रुत्वा हर्षयुक्ताः सुरर्षयः ।
प्रणम्य चैकदन्तं तमूचुस्ते भक्तिभावतः ॥ ३९ ॥
सुरर्षय ऊचुः ।
यदि तुष्टोऽसि सर्वेश एकदन्त महाप्रभो ।
यदि देयो वरो नश्चेज्जहि दुष्टं महासुरम् ॥ ४० ॥
स्थानभ्रष्टाः सुरेशानाः कर्मभ्रष्टा मुनीश्वराः ।
कृतास्तेन जगन्नाथ तस्मात्तं जहि विघ्नप ॥ ४१ ॥
त्वदीयां भक्तिमत्यन्तमचलां देहि मानद ।
यया मायाभयं घोरं भविष्यति कदापि न ॥ ४२ ॥
एवमुक्तो गणाधीशस्तथेति स उवाच तान् ।
अन्तर्धानं ययौ सद्य एकदन्तः प्रतापवान् ॥ ४३ ॥
महर्षिभिस्ततो देवैः स्थापना गणपस्य च ।
कृता तत्र महाभागैरभूत् क्षेत्रं च वैघ्नपम् ॥ ४४ ॥
आग्नेय्यां दिशि विख्यातं स्वस्वखण्डेषु विद्यते ।
एकदन्तस्य तत् क्षेत्रं सर्वसिद्धिप्रदायकम् ॥ ४५ ॥
तत्रैव देवदेवेन्द्रा मुनयः संस्थिता बभुः ।
सेवार्थं पूर्णभावेन स्वाधिकारे कलांशतः ॥ ४६ ॥
तस्य सन्दर्शनाज्जन्तुर्लभेदीप्सितमुत्तमम् ।
तत्रैव मरणे ब्रह्म प्रह्लादात्र न संशयः ॥ ४७ ॥
महिमा गदितुं पूर्णो वर्षकोटिशतैरपि ।
न शक्यते मया तस्मादुक्तं सारं च सारतः ॥ ४८ ॥
तत्र सिद्धिं विशेषेण प्राप्य देवर्षयोऽमलाः ।
भवन्ति कृतकृत्यास्ते ह्यन्ये नानाजनास्तथा ॥ ४९ ॥
धन्यं जन्म नराणां वै दृष्टो यैरेकदन्तकः ।
जन्ममृत्युभयघ्नश्च स्वेप्सितार्थप्रदः प्रभुः ॥ ५० ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते एकदन्तप्रसन्नभावो नाम द्विपञ्चाशत्तमोऽध्यायः ॥
[[१११]]