५१ सनत्कुमारदेवसमागमः

॥ श्रीगणेशाय नमः ॥

गृत्समद उवाच ।

शृणु प्रह्लाद दैत्यस्य चेष्टितं परमाद्भुतम् ।
मदासुरस्य सर्वं यन् मदमोहकरं महत् ॥ १ ॥

ततः कियति काले स गते दुष्टैर्महासुरः ।
बभौ परिवृतो दैत्यैर्महाबलपराक्रमैः ॥ २ ॥

तत्र तं त्रिपुरो दुष्ट उक्तवान् दत्यपैः सह ।
कृताञ्जलिपुटो भूत्वा वचनं साहसं खलः ॥ ३ ॥

त्रिपुर उवाच ।

शृणु प्रभो महाराज दैत्यानां हितकारकम् ।
वचनं सुखदं साध्यमखण्डानन्ददायकम् ॥ ४ ॥

जित्वा त्रिभुवनं पूर्वे दैत्याः सन्तोषमाययुः ।
हिरण्यकशिपुस्तत्राद्यो महान् परमद्युतिः ॥ ५ ॥

मृत्युभीतिविहीनोऽयमानन्देन समावृतः ।
अखिलं बुभुजे राज्यं त्रिलोकस्य न संशयः ॥ ६ ॥

वने गिरिगुहासंस्था देवाश्छद्मप्रदर्शिनः ।
शत्रवस्तत्र कालेन ससृजुर्नरसिंहकम् ॥ ७ ॥

नृसिंहेन हतो नूनं हिरण्यकशिपुः प्रभुः ।
एवं क्रमेण श्रेष्ठा ये ते हता दैत्यपाः क्रमात् ॥ ८ ॥

अधुना त्वं तथा जातो ब्रह्माण्डाधिपतिः स्वयम् ।
देवान मुक्त्वा महाराज किं स्थितोऽसि विचारय ॥ ९ ॥

अस्माकं शत्रवो नित्यं देवा वेदे प्रतिष्ठिताः ।
कथं मित्राणि ते राजन् भविष्यन्ति वद प्रभो ॥ १० ॥

अतस्तेषां विनाशाय यतस्व नृपसत्तम ।
नोचेत्त्वां कालयोगेन हनिष्यन्ति न संशयः ॥ ११ ॥

शस्त्रास्त्रैः पीडिता देवा न मरिष्यन्ति कर्हिचित् ।
अमराः कथिता वेदे घोररूपा न संशयः ॥ १२ ॥

तेषां मरणमत्युग्रं वेदे पश्य प्रतिष्ठितम् ।
कर्मनाशाद् भवेत् पूर्णं कर्मान्ना देवता यतः ॥ १३ ॥

तस्मात् कर्मकरा विप्रास्ताडनीया न संशयः ।
आसुरं कर्म कुर्वन्तो मन्तव्यास्ते त्वयाऽनिशम् ॥ १४ ॥

अन्ये वर्णाश्रमस्था ये ब्राह्मणाः कर्मकारकाः ।
नष्टेषु विप्रजातेषु सर्वे नष्टा भवन्ति ते ॥ १५ ॥

अत आज्ञापय प्राज्ञ असुरान् कर्मखण्डने ।
सर्वत्रासुरभावेन कर्म सर्वं प्रवर्तताम् ॥ १६ ॥

एवमुक्त्वा महादैत्यं तूष्णीं भावेन संस्थितम् ।
सदसि त्रिपुरं वीक्ष्य तमुवाच मदासुरः ॥ १७ ॥

[[१०८]]

मदासुर उवाच ।

समीचीनं त्वया प्रोक्तमसि त्रिपुर बुद्धिमान् ।
यादृशं कथितं वाक्यं तादृशं कुरु दैत्यपैः ॥ १८ ॥

ततो दैत्यगणैर्युक्तस्त्रिपुरो निर्गतोऽसुरः ।
पृथिव्यां यत्र तत्राऽपि कर्मखण्डनकोऽभवत् ॥ १९ ॥

धृता मुनिगणास्तेन ताडिता वधिता बहु ।
केचित्तदाज्ञया युक्ताः संस्थिताः कर्मदूषकाः ॥ २० ॥

केचिन् मुनिगणा दुष्टं शरणं तं ययुस्ततः ।
तस्याज्ञावर्तिनो भूत्वा संस्थिता ब्राह्मणाधमाः ॥ २१ ॥

केचिच्च दुद्रुवुस्तस्य वनेषु ब्राह्मणा भयात् ।
तत्र स्थिताः स्वधर्मस्थं कर्म चक्रुर्गतज्वराः ॥ २२ ॥

सिंहादिभयमुत्सृज्य मरणे कृतनिश्चयाः ।
सिंहादीनां समीपस्था अवसन् कर्मसिद्धये ॥ २३ ॥

एवं द्विजाः स्थितास्तत्र न ज्ञाता दैत्यपेन ते ।
कर्मभ्रष्टाः स्वभावेन ब्राह्मणा बहवोऽभवन् ॥ २४ ॥

तीर्थानि यज्ञवृक्षाश्च देवतायतनानि ते ।
बभञ्जुर्दैत्यचाराश्च यत्र तत्रासुरेश्वर ॥ २५ ॥

आसुरं कर्म सर्वत्र स्थापितं त्रिपुरेण च ।
वर्णेषु ब्राह्मणाद्येषु दुष्टसङ्करकारकम् ॥ २६ ॥

ततो हाहाऽकरोत् सर्वं जगत्तेन दुरात्मना ।
स्वधर्मवर्जितं दुःखाज्जातं दुष्टप्रपीडितम् ॥ २७ ॥

न स्वाहा न वषट्कारो न स्वधादिकमुत्तमम् ।
तेन देवगणाः सर्वे दैत्यस्य वधकाङ्क्षिणः ॥ २८ ॥

उपोषणैश्च संयुक्ता जाताः कालेन देवपाः ।
सगणाः परिवारण निस्तेजस्का बभूविरे ॥ २९ ॥

ततो देवगणाः सर्वे दैत्यस्य वधकाङ्क्षिणः ।
मिलितास्तत्र चोपायं लेभिरे न वधस्य च ॥ ३० ॥

सनत्कुमारश्च महायोगी तत्रादराद्ययौ ।
सहसा भाग्ययोगेन सर्वेषां हितकारकः ॥ ३१ ॥

तं दृष्ट्वा देवपाः सर्वे समुत्तस्थुः प्रणम्य तम् ।
पूजयामासुरत्यन्तमुपचारैर्मनोहरैः ॥ ३२ ॥

कन्दमूलादिकं तत्र निवेद्य च सुभक्तितः ।
पप्रच्छुस्तं मदस्यैते मरणोपायमञ्जसा ॥ ३३ ॥

देवा ऊचुः ।
धन्यं जन्म तपो विद्या ज्ञानं देहाश्च पूर्वजाः ।
तवाङ्घ्रिदर्शनाद्योगिन् कृतकृत्या वयं ततः ॥ ३४ ॥

मदासुरेण बलिना जिताः सर्वे महामुने ।
अतस्तस्य वधार्थं नो वदोपायं महामते ॥ ३५ ॥

साधवो देवता विप्राः पीडितास्तेन योगिप ।
अतःसाध्वादिरक्षार्थं वद सर्वज्ञ ते नमः ॥ ३६ ॥

समशीलो भवान् साक्षान् मूर्तं ब्रह्मेव संस्थितः ।
तथापि दोषसंयुक्तमेकं हन्ता भव प्रभो ॥ ३७ ॥

अतिदुष्टमनादृत्य जगत्सर्वं सुखी कुरु ।
न हत्वा त्वं स्वयं साक्षान् मार्गदर्शी भवस्व नः ॥ ३८ ॥

साधवः समशीलाश्च मार्गं सन्दर्शयन्ति ते ।
दीनानां धर्मनिष्ठानामनाथानां महामुने ॥ ३९ ॥

सत्कर्मनिरतान् जन्तून् सदा कुर्वन्ति साधवः ।
विकर्मणश्च संहारस्तत्र सञ्जायते यथा ॥ ४० ॥

न हिंसा सा महायोगिन् विकर्महितकारिका ।
भवज्ज्ञानेन चाज्ञानं नाशयन्ति सुसाधवः ॥ ४१ ॥

अतस्त्वं वद नाशार्थमुपायं करवामहै ।
धर्मसंस्थापनार्थं तं धर्मान्नाश्च वयं यतः ॥ ४२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते सनत्कुमारदेवसमागमो नामैकपञ्चाशत्तमोऽध्यायः ॥

[[१०९]]