॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
शिवविष्ण्वादिदेवेषु गृहीतेषु महाबलैः ।
दैत्यपुत्रैः सुराणां च सैन्ये त्रासः प्रवर्तितः ॥ १ ॥
देवा देवगणाः केऽपि क्षता भग्नास्तथाऽपरे ।
मृता मुमूर्षवस्तत्र गृहीता दैत्यपैर्मृधे ॥ २ ॥
केचित्तान् शरणं जग्मुर्दैत्यान् केचित् पलायिताः ।
शशंसुः सर्ववृत्तान्तं शक्तये भयविह्वलाः ॥ ३ ॥
वृत्तान्तमतुलं श्रुत्वा दैत्यानां कर्मसम्भवम् ।
क्रोधयुक्ता महामाया ययौ सङ्ग्राममण्डलम् ॥ ४ ॥
आगतां जगदम्बां तां स्वयं ज्ञात्वा मदासुरः ।
पुत्रैः प्रधानमुख्यैश्च नानावीरैर्वृतो ययौ ॥ ५ ॥
समागतं महादैत्यं ज्ञात्वा क्रोधसमन्विता ।
जगदम्बा रणे तत्र धनुः सज्जमथाऽकरोत् ॥ ६ ॥
धनुषः शब्दमुग्रं ते श्रुत्वा दैत्या भयातुराः ।
मूर्च्छिताः केपि भीताश्च दुद्रुवुः केऽपि दैत्यपाः ॥ ७ ॥
ततः शङ्खनिनादं वै चकार स मदासुरः ।
महता तस्य नादेन व्याप्तं सर्वं जगत्त्रयम् ॥ ८ ॥
ततः शङ्खनिनादैश्च देवीनां पूरितं नभः ।
दैत्येन्द्राणां च सर्वत्र महान् कोलाहलो ह्यभूत् ॥ ९ ॥
सिंहनादैर्जगर्जुस्ते वीरा वै शक्तयस्तथा ।
विनेदुर्बहुवाद्यानि सुरा हर्षं समाययुः ॥ १० ॥
एतस्मिन्नन्तरे तत्र कालिका क्रोधसंयुता ।
शक्तिभिः संवृता क्रूरा दैत्यसैन्यं ममर्द ह ॥ ११ ॥
त्रिशूलेन तथा पाशैः शस्त्रैर्नानाविधैर्मृधे ।
शक्तिभिश्छेदिता दैत्याः पलायन्त दिशो दश ॥ १२ ॥
ततः क्रोधसमायुक्ता दैत्यपुत्राः समाययुः ।
ववृषुर्बाणजालानि कालरूपाणि संयुगे ॥ १३ ॥
तेषां बाणैर्हतास्तत्र देवानां शक्तयो गणाः ।
हाहाकाररवाः सर्वे पलायन्त भयाकुलाः ॥ १४ ॥
ततः काली समाक्रुद्धा रूपं कृत्वा भयानकम् ।
जघान दैत्यसेनां तां समन्तात् प्रलयप्रभा ॥ १५ ॥
गृहीत्वा दैत्यपुत्रान् वै बद्ध्वा पाशैर्महामदान् ।
चिक्षिपुर्विवरे सञ्ज्ञालक्ष्मीसावित्र्य आहवे ॥ १६ ॥
ततः क्रोधसमायुक्तो मददैत्यः प्रतापवान् ।
धनुः सज्जमथो कृत्वा मुमोच शरमुल्बणम् ॥ १७ ॥
संहारास्त्रान् महाघोरात्तस्माज्जातो महाबलः ।
पुरुषः पर्वताकारः शक्तीनां बुभुजे बलम् ॥ १८ ॥
अस्त्रस्य तत्र दैत्येन्द्र ज्वालया पीडिता रणे ।
शक्तयश्च मृता दग्धा दुद्रुवुर्यत्र तत्र ताः ॥ १९ ॥
[[१०६]]
निःसहाया भयोद्विग्नाः कालीमुख्याः प्रदुद्रुवुः ।
महामायासमीपे ताः संस्थिताः सञ्जगुः कथाः ॥ २० ॥
ततः क्रोधसमाविष्टां स्वयं शक्तिं समागताम् ।
सिंहारूढां स तां दृष्ट्वा दैत्येन्द्रः प्रणनाम च ॥ २१ ॥
उवाच शक्तिं गर्वेण पूरितोऽसौ महासुरः ।
देवांस्त्यक्त्वा जगन्मातरस्माकं पक्षमाश्रय ॥ २२ ॥
नोचेत्त्वां कर्मणां देवीं हनिष्यामि न संशयः ।
सदेवां सपरीवारां पश्य मे पौरुषं महत् ॥ २३ ॥
ततः क्रोधसमायुक्ता शूलं चिक्षेप वै रणे ।
वधाय दैत्यराजस्य महामाया प्रभावतः ॥ २४ ॥
त्रिशूलेनाऽऽहतो दुष्टः प्रह्लाद न चचाल ह ।
मदासुरो जगर्जासावतिक्रोधयुतोऽभवत् ॥ २५ ॥
शस्त्राणि सहसा त्यक्त्वा मल्लयुद्धाय दैत्यपः ।
ययौ शक्तिर्महद्रूपं कृत्वा प्रययुधे ततः ॥ २६ ॥
न शक्यते वर्णयितुं युद्धं घोरं तयोर्महत् ।
बाहुभिर्हस्तपादैश्च प्रवृत्तं दारुणं परम् ॥ २७ ॥
परस्परं जयन्तौ तौ जल्पन्तौ साधु साध्विति ।
दिवसानि गतान्येव त्रीणि तत्रासुरेश्वर ॥ २८ ॥
वरदानबलेनैव तेन क्षीणबला कृता ।
शक्तिस्त्वशक्तिरूपा च जाता कर्मप्रभावतः ॥ २९ ॥
ममर्द देहपातेन महाशक्तिं महासुरः ।
मूर्च्छितां तां समादाय ययौ हर्षसमन्वितः ॥ ३० ॥
अन्याश्च शक्तयस्तेन धृताः काश्चित्पलायिताः ।
हाहाकारश्च सर्वत्राऽभवच्छक्तिबले महान् ॥ ३१ ॥
दैत्येन्द्रो वारयामास शक्तीनां कदने रतान् ।
उवाच कुलदेव्यश्च शक्तयो नो न संशयः ॥ ३२ ॥
ततो मदासुरेणैव मोचिताः स्वसुतास्त्रयः ।
प्रधानादि महादैत्या धृता देवै रणे पुरा ॥ ३३ ॥
शक्तिलोकं समासाद्य गर्वितः स मदासुरः ।
भोगांश्च विविधांस्तत्र बुभुजे ज्ञातिभिः सह ॥ ३४ ॥
न ममर्ष निजात्मानं मोहितो दैत्यनायकः ।
स्त्रीमांसमदिरासक्तः प्रबभूवासुरेश्वर ॥ ३५ ॥
ततः शक्तिं समानीयोवाच गर्वसमन्वितः ।
देवैः सह महाशक्ते गच्छ यत्र च ते रुचिः ॥ ३६ ॥
उवाच मोहितो वाक्यं शिवादीन् समदासुरः ।
गच्छन्तु यत्र कुत्राऽपि ममाज्ञा वशगाः सुराः ॥ ३७ ॥
शक्तिं प्रणम्य दैत्येन्द्र ऊचिवान् भक्तिसंयुतः ।
अस्माकं पक्षमाश्रित्य वस त्वं पूजिता मया ॥ ३८ ॥
ततस्तं शक्तिरादृत्योवाच म्लानमुखश्रिया ।
देवैः सह गमिष्यामि यत्र कुत्र महासुर ॥ ३९ ॥
ततस्तां दैत्यराजस्तु मुक्तवान् गर्वमोहितः ।
अनादृत्य महामायां साऽऽगता देवसंयुता ॥ ४० ॥
वनेषु गिरिदर्यां च संस्थिता भयसङ्कुला ।
देवैः सह जगन्माता निःसृता दारुणाद्भयात् ॥ ४१ ॥
दैत्योऽपि दैत्यपैस्तत्र संवृतो बुभुजे सुखम् ।
शक्तिलोकभवं वीरः कर्मणा निर्मितं परम् ॥ ४२ ॥
ततो बाणादयस्तेनाऽभवंश्च स्थापिताः सुताः ।
देवानां च पदे मुख्याः शक्तिलोके तथा कृताः ॥ ४३ ॥
पृथिव्यां नगरे दुष्ट आययौ स विलासदे ।
तत्र स्थित्वा त्रिलोकस्य राज्यं चक्रे मदासुरः ॥ ४४ ॥
[[१०७]]
ततः पातालविवरे प्रेषयामास दैत्यपः ।
त्रिपुरं शेषनागेन्द्रजयनाय महाबलम् ॥ ४५ ॥
शेषो ज्ञात्वा च वृत्तान्तं साम चक्रे पुरैव च ।
दैत्येन वार्षिकं भागं ददौ जग्राह शासनम् ॥ ४६ ॥
एवं मदासुरो दुष्टो जित्वा ब्रह्माण्डमण्डलम् ।
राज्यं चकार सर्वेषां भुवनानां प्रतापवान् ॥ ४७ ॥
अनुत्तमान् विचित्रांश्च देवादीनां सुदुर्लभान् ।
भोगान् सर्वान् स आहृत्य बुभुजे ज्ञातिभिः सह ॥ ४८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते मदासुरविजयो नाम पञ्चाशत्तमोऽध्यायः ॥