४९ शिवादिदेवपराजयः

॥ श्रीगणेशाय नमः ॥

गृत्समद उवाच ।

विष्णुना सहितो देवैस्ततः सर्वैः सुसंवृतः ।
गणैः सुदारुणैस्तत्र ययौ शम्भू रणस्थलम् ॥ १ ॥

समागतं शिवं ज्ञात्वा तारकः क्रोधसंयुतः ।
उवाच तं महादेवं गर्वयुक्तेन चेतसा ॥ २ ॥

तारक उवाच ।

किमागतोऽसि सङ्ग्रामे मदेन त्वं सदाशिव ।
सिंहेन शशको युद्धं किं करिष्यति मां वद ॥ ३ ॥

मदासुरस्य दासोऽहं त्वां हनिष्यामि निश्चितम् ।
संहारकारिणं सद्यो महासंहारकारकः ॥ ४ ॥

वचः श्रुत्वा त्रिशूलेन तारकः शम्भुना हतः ।
स मृतस्तत्क्षणाद्दैत्यः पतितो भग्नवृक्षवत् ॥ ५ ॥

ततश्चक्रेण देवेशः केशवो दैत्यनायकान् ।
मारयामास सङ्क्रुद्धः सकलान्यत्र तत्र च ॥ ६ ॥

ततोऽतिभयसंयुक्ताः पलायन्त दिशो ?दश ।
दत्याः प्राणपरीप्सार्थं हाहाकारकरा भृशम् ॥ ७ ॥

देवैस्तत्र धृता दैत्या मृतास्तारकमुख्यकाः ।
शुक्रस्य तु भयाच्छ्रेष्ठास्त्यक्तास्ते विवरे स्थिताः ॥ ८ ॥

देवेशानां च दैत्येशा दृष्ट्वाऽतीवपराक्रमम् ।
बाणस्त्रिपुरशङ्खौ च ससैन्या आययुर्मृधे ॥ ९ ॥

कोलाहलं प्रकुर्वाणाः शङ्खशब्दैः समन्ततः ।
ववृषुः शस्त्रधाराभिर्वर्षाकाले यथा घनाः ॥ १० ॥

ततः परस्परं युद्धं नियतं सम्बभूव ह ।
देवानां चैव दैत्यानां विनाशकरमद्भुतम् ॥ ११ ॥

बाणः सूर्यं ययौ क्रुद्धः शङ्खो विष्णुं महाबलः ।
रुद्रं च त्रिपुरो वेगात् परसैन्यनिबर्हणः ॥ १२ ॥

अन्ये च शतशस्तत्र दैत्या देवान् समाययुः ।
गदितुं न भवेच्छक्यं बहुत्वाद्युद्धमद्भुतम् ॥ १३ ॥

क्रोधयुक्ता निजघ्नुस्ते दानवा देवमुख्यकान् ।
शस्त्रास्त्रैर्विविधैः क्रुद्धा वृक्षैर्वै पर्वतैर्मृधे ॥ १४ ॥

दैत्यानां बलमुत्कृष्टं ज्ञात्वा देवा महाबलाः ।
यत्नयुक्ताश्च सङ्ग्रामे युयुधुः शस्त्रपाणयः ॥ १५ ॥

एवं त्रिदिवसं युद्धं सञ्जातं दारुणं महत् ।
देवसेना ततो भग्ना भयभीता समन्ततः ॥ १६ ॥

जघान शङ्करोऽत्यन्तं क्रोधयुक्तो महाबलम् ।
गदया त्रिपुरं तत्र ततः परमदुर्जयम् ॥ १७ ॥

जघान गदया शम्भुं सोऽपि तं च पराक्रमी ।
गदायुद्धं महत्तत्र बभूवाऽतिभयानकम् ॥ १८ ॥

ततस्त्रिशूलघातेन हतो दैत्यः पपात ह ।
त्रिपुरो मूर्च्छयात्यन्तं पीडितः शङ्करेण सः ॥ १९ ॥

ज्वालया रविणा तत्र बाणो भूमौ निपातितः ।
चक्रेण विष्णुना दुष्टः शङ्खः समर्दितोऽभवत् ॥ २० ॥

धृत्वा तान् दैत्यमुख्यांश्च चिक्षिपुर्विवरेऽमराः ।
पाशैर्बद्ध्वा ततो दुष्टान् पुनरुत्पातशङ्कया ॥ २१ ॥

ततो दैत्या हताः सर्वे देवैर्दैवगणैर्मृधे ।
मृता मुमूर्षवः केचिच्छरणं ते ययुः सुरान् ॥ २२ ॥

विजयं प्राप्य देवेन्द्रा हर्षिताः सम्बभूविरे ।
जगर्जुर्जयशब्देन प्राट्टहासं प्रचक्रिरे ॥ २३ ॥

ततो मदासुरः क्रुद्धो ज्ञात्वा वृत्तान्तमद्भुतम् ।
संरक्तनयनो दुष्टो ययौ रणविधित्सया ॥ २४ ॥

शुक्रेण सहितः सोऽपि महावीरैः समावृतः ।
रथारूढः स्वपुत्रैश्च सङ्ग्रामे सन्दधे मनः ॥ २५ ॥

ततस्तं दैत्यमुख्यं वै तनयाश्च समाययुः ।
सङ्ग्रामार्थं महावीर्यास्त्रयो देवैः शिवादिभिः ॥ २६ ॥

[[१०४]]

धनप्रियश्च सङ्ग्रामे सूर्यं विव्याध सायकैः ।
उवाच गर्वसहितो रविं त्रैलोक्यभाविनम् ॥ २७ ॥

धनप्रिय उवाच ।

शृणु दुष्टार्यमंस्त्वं मे वचनं हितकारकम् ।
गच्छ शीघ्रं महाबाहो नोचेन् मृत्युमुपेष्यसि ॥ २८ ॥

त्वया दैत्या हताः पूर्वं भुङ्क्ष्व तेषां फलं महत् ।
न मुञ्चामि महादुष्ट जीवन्तं त्वां च काश्यप ॥ २९ ॥

ततः सूर्येण खड्गेन हतो दैत्यो महाबलः ।
पपात मूर्च्छयाऽऽविष्टः पुनः सञ्ज्ञां च सोऽलभत् ॥ ३० ॥

आगत्य काश्यपं दैत्यपुत्रो वेगसमन्वितः ।
खड्गेन तीक्ष्णधारेण जघान दृढमञ्जसा ॥ ३१ ॥

दृढाघातेन सूर्यः स पतितो मूर्च्छया भृशम् ।
तं धृत्वा विजयी दैत्यपुत्रश्च स्वस्थलं ययौ ॥ ३२ ॥

प्रणम्य पितरं पुत्रो ननन्द ह धनप्रियः ।
पाशैर्बद्ध्वा दृढं सूर्यं चिक्षेप विवरेऽसुरः ॥ ३३ ॥

विलासी विष्णुमागत्य क्रोधेन महताऽऽवृतः ।
बाणजालैः समाच्छाद्योवाच तं दारुणं वचः ॥ ३४ ॥

त्वया विष्णो मदीया वै सेना सन्नाशिता बलात् ।
गृहीता दैत्यवर्याश्च नाऽहं तत्र स्थितोऽभवम् ॥ ३५ ॥

अधुना शस्त्रघातेन हतस्त्वं गच्छसि प्रभो ।
मृत्योर्भुवनमुग्रं यन्न त्वां मुञ्चामि कर्हिचित् ॥ ३६ ॥

ततः क्रोधसमाविष्टो विष्णुश्चक्रेण दैत्यपम् ।
विलासिनं जघानाऽथ चक्रे सम्मूर्च्छितं खलम् ॥ ३७ ॥

क्षणेन सावधानोऽभूदागत्य गदया विभुम् ।
हृदि विव्याध दुष्टोऽसौ पपात गरुडाद्धरिः ॥ ३८ ॥

तं धृत्वा दैत्यपुत्रः स ययौ स्वस्थानमुत्तमम् ।
पितरं प्रणनामाऽथ पित्रा सम्मानितोऽभवत् ॥ ३९ ॥

बद्ध्वा पाशैर्महाविष्णुं चिक्षेप विवरे मदः ।
दैत्या हर्षसमायुक्ता जगर्जुश्च भयानकम् ॥ ४० ॥

लोलुपश्च समागम्य शङ्करं वृषभध्वजम् ।
उवाच कोपरक्ताक्षः शृणु त्वं नीललोहित ॥ ४१ ॥

मदीयमतुलं सैन्यं त्वया युधि निपातितम् ।
अधुना त्वां हनिष्यामि फलदाता भवाम्यहम् ॥ ४२ ॥

ब्रुवन्तं तं ततो मूर्खं त्रिशूलेन जघान ह ।
शङ्करः क्रोधसंयुक्तः सोऽपतन् मूर्च्छया भृशम् ॥ ४३ ॥

शुक्रेण सहसाऽऽगत्य सावधानः कृतोऽसुरः ।
लोलुपो निर्ममे मायां सर्वदेवविमोहिनीम् ॥ ४४ ॥

अकस्माज्जलधिस्तत्र व्याप्तः सर्वभयावहः ।
अग्निश्च सर्वतः सर्वान् दाहयामास भैरवः ॥ ४५ ॥

नानाशस्त्रधरा अन्ये नग्नास्ते शूलपाणयः ।
नग्नास्त्रियश्च शस्त्रौघैर्मारयामासुरञ्जसा ॥ ४६ ॥

शङ्करो विस्मितो भूत्वा पश्चाद्भयसमन्वितः ।
मोहितो मायया तत्र लोलुपेनासुरेश्वर ॥ ४७ ॥

एतस्मिन्नन्तरे तत्र समुद्रे सर्वतः स्थिते ।
ममज्ज तत्र देवेशः शिवः प्रह्लाद मोहतः ॥ ४८ ॥

कर्मणा च तपोरूपेणेदं सर्वं कृतं मृधे ।
मज्जन्तं शङ्करं धृत्वा लोलुपः स्वस्थलं ययौ ॥ ४९ ॥

पित्राऽसौ मानितोऽत्यन्तं पाशैर्बद्ध्वा सदाशिवम् ।
चिक्षेप विवरे दैत्यो लोलुपः सर्वलोलुपः ॥ ५० ॥

[[१०५]]

ततो हाहारवं कृत्वा देवा देवागणा मृधे ।
शरणं जगदम्बां ते ययुः सन्त्रासतापिताः ॥ ५१ ॥

दैत्येन्द्रा हर्षिताः सर्वे जगर्जुर्घनवद्भृशम् ।
कुर्वन्तो वाद्यशब्दान् वै जयशब्दकरा भृशम् ॥ ५२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते शिवादिदेवपराजयो नामैकोनपञ्चाशत्तमोऽध्यायः ॥