४८ इन्द्रपराजयः

॥ श्रीगणेशाय नमः ॥

गृत्समद उवाच ।

एवं गदित्वा देवेन्द्रो दैत्येन्द्रं क्रोधसंयुतम् ।
तारकं शरवर्षेण ववर्ष रणमण्डले ॥ १ ॥

एकस्मान् मन्त्रिताद्बाणादनन्तैर्निःसृतैः शरैः ।
बभूवुर्दैत्यसङ्घाताः पीडितास्तैः समन्ततः ॥ २ ॥

ततो दैत्यः स दैत्येशाः प्रधानप्रमुखाः स्थिताः ।
शरवर्षाणि सर्वत्र चक्रुः परमदारुणाः ॥ ३ ॥

तैबाणैर्देवसैन्यानां हता वीरा अनेकशः ।
छिन्नाङ्गाः पतितास्तत्र रुधिरौघप्रवर्षिणः ॥ ४ ॥

यत्र तत्र पलायन्त देवा भयसमाकुलाः ।
त्रातारं नाभ्यपद्यन्त प्रलयेषु यथा प्रजाः ॥ ५ ॥

तेषां तत्कर्म दृष्ट्वा ते ववृषुः सुरपा शरान् ।
अग्निधर्मादयस्तत्र कालमृत्यूपमान दृढान् ॥ ६ ॥

तैराहतं बलं पूर्णं दैत्यानां यत्र तत्र ते ।
मृता मुमूर्षवः सर्वे बभूवू राक्षसा मृधे ॥ ७ ॥

ततोऽतिकुपितो दैत्यस्तारकोऽतिभयानकः ।
निष्कास्य सुदृढं बाणं मोचयामास दारुणम् ॥ ८ ॥

आकर्णं धनुराकृष्य दीप्तो बाणो सुरेश्वर ।
इन्द्रस्य सहसागत्य हृदि सम्पतितोऽभवत् ॥ ९ ॥

तेन सम्पीडितो देवो मूर्च्छितो देवनायकः ।
मुहूर्तात् सावधानोऽभूद्वज्रं हस्ते समाददे ॥ १० ॥

वज्रेण ताडितोऽत्यन्तं तारको दैत्यपुङ्गवः ।
पतितः स धरापृष्ठे गतप्राण इवाऽभवत् ॥ ११ ॥

एवं वरुणवन्ह्याद्यैर्वायुधर्मकुबेरकैः ।
हता दैत्या अनेके च पतिता मूर्च्छिता मृताः ॥ १२ ॥

हाहाकारश्च सर्वत्र दैत्यसैन्ये प्रवर्तितः ।
पलायन्त च दिक्प्रान्ते त्रासिता देवनायकैः ॥ १३ ॥

ततः शुक्रेण ते सर्वे तारकाद्या महासुराः ।
विद्यया सावधानाश्च कृता युद्धाय सज्जिताः ॥ १४ ॥

अग्निमन्त्रसमायुक्तं बाणं धनुषि सन्दधे ।
तारकः क्रोधसंयुक्तो दाहकं स मुमोच ह ॥ १५ ॥

पतितो देवसैन्ये च बाणस्तस्मान् महाबलः ।
निःसृतः पुरुषस्तत्र भक्षयामास वै सुरान् ॥ १६ ॥

मेरुमन्दरसङ्काशो विचचार महाबलः ।
देवसैन्येषु दैत्येन्द्र प्रलयाग्निसमोऽदहन् ॥ १७ ॥

अग्निज्वालाश्च सर्वत्र समुद्भूता भयानकाः ।
अदहद्देवसङ्घांस्तान् वाहनैः सहितान् मृधे ॥ १८ ॥

हाहाकाररवा देवाः पलायनमकुर्वत ।
तत्रापि पुरुषोऽत्यन्तं भक्षयामास चामरान् ॥ १९ ॥

[[१०२]]

तत: क्रोधसमायुक्तो महेन्द्रो वारुणं महत् ।
अस्त्रं धनुषि सङ्गृह्य मृधे तत्याज दारुणम् ॥ २० ॥

तस्माच्च जलधाराऽभूत् समन्तान्निःसृता बहु ।
ववर्षुरतुलां वृष्टिं मेघाः सर्वत्र गर्जितैः ॥ २१ ॥

जलौघेन महावह्निः प्रशान्तः सहसा कृतः ।
अस्त्रेण पुरुषः सोऽपि पतितो रणमूर्धनि ॥ २२ ॥

ततो देवगणाः सर्वे सावधाना बभूविरे ।
दैत्या वृष्ट्या च वातेन पीडिता बलसंयुताः ॥ २३ ॥

विद्युज्ज्वालाभिरत्यन्तं दग्धाः केचिन् महासुराः ।
जलौघेन तथा केचिद्वाहिताश्च सवाहनाः ॥ २४ ॥

दैत्यानां प्रबलं सैन्यं पीडितं वारुणेन च ।
हाहाकाररवा दैत्या ययुर्मृत्युं भयानकम् ॥ २५ ॥

ततः स तारको दैत्यः क्रोधसंरक्तलोचनः ।
वाय्वस्त्रं तन्निवृत्त्यर्थं सन्दधेऽतिभयानकम् ॥ २६ ॥

मुमोच धनुराकृष्य देवसैन्ये महासुरः ।
तेन वारुणमस्त्रं च ग्रस्तं वै शान्तिमागमत् ॥ २७ ॥

वायुना प्रबलेनैव घूर्णिता देववाहिनी ।
शुष्कपत्रसमा तत्र बभ्राम समराङ्गणे ॥ २८ ॥

ततः समागतो दैत्यस्तारकोऽतिभयानकः ।
खड्गेन देवराजं तं जघानार्मषतो दृढम् ॥ २९ ॥

खड्गाघातेन देवेन्द्रं पतितं मूर्च्छया भृशम् ।
सङ्गृह्य दैत्यराजस्तु तारकः स्वबलं ययौ ॥ ३० ॥

मदासुरस्य सान्निध्ये स्थापयामास देवपम् ।
मदेन मूर्च्छितो देवो बद्धः पाशैः समन्ततः ॥ ३१ ॥

ततो हाहाकृतं सर्वैः पलायत दिशो दश ।
सैन्यं देवगणानां वै विना?शं भयसङ्कुलम् ॥ ३२ ॥

यमं च सहसाऽऽगत्य गदया हृदि विव्यथे ।
तारकः स महामूर्च्छां जगाम प्रेतनायकः ॥ ३३ ॥

सङ्गृह्य स्वबले नीत्वा हर्षितोऽभून् महासुरः ।
एवमग्निमुखाः सर्वे धृतास्ते दैत्यनायकैः ॥ ३४ ॥

अनाथं देवसैन्यं तत् पलायत भयाकुलम् ।
मृतं भग्नं च शस्त्रैः संहतं दैत्यैर्महाबलैः ॥ ३५ ॥

एवं निर्जित्य दैत्येन्द्रा जहृषुर्नादसंयुताः ।
देवाः सर्वे भयोद्विग्नाः शरणं शङ्करं ययुः ॥ ३६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते इन्द्रपराजयो नामाष्टचत्वारिंशोऽध्यायः ॥

[[१०३]]