४७ इन्द्रतारकसमागमः

॥ श्रीगणेशाय नमः ॥

गृत्समद उवाच ।

आगतं तारकं दृष्ट्वा हर्षितः स मदासुरः ।
दैत्यैः सह महासाधो प्रह्लन्नश्चाभवत् खलः ॥ १ ॥

मदासुरं प्रणम्याऽसौ कथयामास तारकः ।
वृत्तान्तं देवपक्षे च संश्रितं कुलदैवतम् ॥ २ ॥

तच्छ्रुत्वा मद्यपो दैत्यः प्रतापी स मदासुरः ।
क्रोधयुक्तोऽभवत्तत्र देवान् हन्तुं समुद्यतः ॥ ३ ॥

सन्नद्धैर्दैत्यपैः सर्वैः सन्नद्धश्च मदासुरः ।
शक्तिलोकं जगामाऽथ महाकाल इवाऽऽबभौ ॥ ४ ॥

पुरःप्रान्ते स्थितान् शक्तेर्गणान् परमविश्रुतान् ।
ताञ्जघ्नुश्च महादैत्याः शस्त्रैः परमदारुणैः ॥ ५ ॥

छिन्नाङ्गास्ते पलायन्त गताः स्वनगरेऽभवन् ।
वृत्तान्तं कथयामासुर्दैत्यानामागमात्मकम् ॥ ६ ॥

श्रुत्वा तत्र महाशक्तिर्देवैः सर्वैर्महाबलैः ।
शङ्करादिभिरन्वीता ययौ सङ्ग्राममण्डलम् ॥ ७ ॥

सिंहारूढा चतुर्बाहुः खड्गचर्मधरा बभौ ।
धनुर्बाणधरा क्रोधान्नानाशक्तिसमन्विता ॥ ८ ॥

वामाङ्गाच्छ्रीः समुत्पन्ना सावित्री दक्षिणाङ्गतः ।
हृदयात् पुरतः सञ्ज्ञा तासां सैन्यं पृथग्बभौ ॥ ९ ॥

विष्णुशङ्करमुख्याश्च सन्नद्धा वाहने स्थिताः ।
स्वस्वसैन्येन संयुक्ता बभुः कालसमाः पुरः ॥ १० ॥

इत्यादिशक्तिभिः शक्तैर्देवैर्वै संयुतं महत् ।
सैन्यं दैत्येन्द्रमुख्यैस्तैर्दृष्टं परमदारुणम् ॥ ११ ॥

ततो दैत्यैश्च शस्त्रौघैस्ताडितं सहसा बलात् ।
शक्तिसैन्यं महाघोरं क्रोधयुक्तं बभूव ह ॥ १२ ॥

शक्त्या सम्प्रेषिता देवा युयुधू रणमण्डले ।
कालिकाद्या महायुद्धे शक्तयः कुपिता भृशम् ॥ १३ ॥

अकस्मान्मिलिते सैन्ये परस्परजयैषिणी ।
दैत्यानां चैव देवानां मरणे कृतनिश्चये ॥ १४ ॥

सैन्यानां रजसा तत्र हृतं ज्ञानं समन्ततः ।
न प्रकाशो रवेरासीत् स्वपरज्ञानकारकः ॥ १५ ॥

हेषितैः क्ष्वेडितैस्तत्र बृंहितै रथनेमिभिः ।
वादित्राणां महाशब्दैर्नादयुक्ता दिशोऽभवन् ॥ १६ ॥

शङ्खनादैः सिंहनादैर्नानानादैश्च दैत्यप ।
बधिरा इव योधास्ते सञ्जाता रणमूर्धनि ॥ १७ ॥

शस्त्रैरस्त्रैरनेकैश्च परिजघ्नुः समन्ततः ।
द्रुमैः पर्वतखण्डैश्च स्वान् परान् युद्धदुर्मदाः ॥ १८ ॥

मृताः केचित् क्षताः केचित् केचिच्छस्त्रधरा बभुः ।
निजघ्नुः परवीरांस्ते स्वबलेन महाबलाः ॥ १९ ॥

भग्ने शस्त्रे समग्रे ते मल्लयुद्धपरायणाः ।
युयुधुः क्रोधसंयुक्ताः शस्त्रहीनास्तथाऽपरे ॥ २० ॥

कबन्धा युयुधुस्तत्र शस्त्रहस्ता महाबलाः ।
स्वान् परानपि जघ्नुस्ते स्वपरज्ञानवर्जिताः ॥ २१ ॥

बाणैर्बाणान् समाक्षुब्धा विजघ्नुश्च परस्परम् ।
खड्गैः खड्गांस्तथा चान्ये गदाभिश्च गदा भृशम् ॥ २२ ॥

तोमरैश्च महावीराः पर्शुभिस्तु तथाऽपरे ।
भिन्दिपालैश्च पाशैश्च परिजघ्नुः परस्परम् ॥ २३ ॥

रथारूढा गजारूढैर्गजारूढाः पदातिभिः ।
अश्वारूढैस्तथाऽन्येऽपि युयुधुर्जातसम्भ्रमाः ॥ २४ ॥

तु?मुलं दैत्यदेवानां युद्धं तत्र प्रवर्तितम् ।
उभयोर्नाशकं घोरं वक्तुं नैव प्रशक्यते ॥ २५ ॥

प्रवाहबहुलै रक्तै रजः सम्प्लावितं महत् ।
प्रकाशस्तत्र सञ्जातः स्वपरज्ञानकारकः ॥ २६ ॥

[[१००]]

प्रबोध्य केचिद्दैत्यांस्तान सुरा जघ्नुर्महाबलाः ।
असुराश्च सुरांस्तद्वन् महाक्रोधसमन्विताः ॥ २७ ॥

शक्तयः कुपितास्तत्र दैत्यांश्चैव प्रजह्रिरे ।
शस्त्रास्त्रैर्विविधैः सर्वाः पिपिषुश्चासुरेश्वरान् ॥ २८ ॥

दैत्याः प्रकुपिता अन्ये शस्त्रास्त्रैर्देवमण्डलम् ।
छिन्नं भिन्नमिमे चक्रुः क्रोधयुक्ता महाबलाः ॥ २९ ॥

मेरुशीताचलप्रख्या दैत्या देवाः स्थिता बभुः ।
चेलुर्न च पदं तत्र परस्परवधे रताः ॥ ३० ॥

अभवन् शोणितौघानां महानद्यः समन्ततः ।
देवदैत्यशरीरेभ्यः प्रसूताश्च सहस्रशः ॥ ३१ ॥

मेदोमांसमहापङ्काः प्रपेतुर्धरणीतले ।
देवाश्च शतशो दैत्या गतप्राणा रणेऽसुर ॥ ३२ ॥

मांसं कर्दमरूपेण यत्र तत्र स्थितं रणे ।
मृतानां न च सङ्ख्याऽऽसीन् मार्गरोधनकारिणाम् ॥ ३३ ॥

असृक्प्रवाहजस्तत्र पूरः सन्ददृशे जनैः ।
जलौघ इव दैत्येन्द्र महामोहप्रवर्धनः ॥ ३४ ॥

मृतैर्गजैस्तथा भग्नै रथैर्वाजिभिरेव च ।
नानापशुगणैरुष्ट्रैः पक्षिभिर्दुर्गमं कृतम् ॥ ३५ ॥

मुमूर्षवस्तत्र पेतुर्मृताः केचिच्च खण्डिताः ।
तदपि क्रोधसंयुक्ताः प्रयत्नं चक्रुरादृताः ॥ ३६ ॥

एवं दश दिनान्येव दिवारात्रं महारणम् ।
बभूव समये तस्मिन् देवदैत्यसमुद्भवम् ॥ ३७ ॥

पलायनपरा देवास्ततो जाता महारणे ।
दशदिक्षु भयोद्विग्नाः पलायन्ताऽसुरेश्वर ॥ ३८ ॥

तद् दृष्ट्वा परमाश्चर्यं वज्रभृद्देवपैर्वृतः ।
सङ्ग्राममकरोद्घोरं दैत्यनाशकरं परम् ॥ ३९ ॥

वज्रपातेनासुरान् स चूर्णयामास वेगतः ।
देवेन्द्रो विविधैरन्यैर्यमाद्या आयुधैस्तथा ॥ ४० ॥

मृता दैत्यगणाः केचित् भृशं केचिच्च मूर्च्छिताः ।
मुमूर्षवः परे तत्र कृता वै वज्रिणाऽभवन् ॥ ४१ ॥

शक्त्यादिशस्त्रपातेन वह्निचन्द्रयमादयः ।
असुरान् मारयामासुः क्रोधयुक्ताः सुरेश्वराः ॥ ४२ ॥

ततो भग्नं बलं सर्वं दैत्यानां भयसङ्कुलम् ।
दुद्राव दिक्षु सर्वासु त्रातारं नाभ्यपद्यत ॥ ४३ ॥

ततः संहर्षिता देवास्तथा देवगणाः परे ।
जयशक्ते महामायेऽवदंस्ते जय सर्वदा ॥ ४४ ॥

ततः क्रोधसमायुक्तस्तारको दैत्यपैर्वृतः ।
आययौ क्रोधदीप्ताक्षो योद्धुं शक्रेण वीर्यवान् ॥ ४५ ॥

आगत्य रणभूमिं स तमुवाच पुरन्दरम् ।
गर्वयुक्तं महोग्रं च मोहितो मदसंयुतः ॥ ४६ ॥

तारक उवाच ।

किं त्वं युध्यसि देवेन्द्र दैत्यपैः परमादृतैः ।
मया युक्तैकबाणेन न समोऽसि सुराधिप ॥ ४७ ॥

बलेन यदि संयुक्तस्तदा किममरावतीम् ।
त्यक्तवान् वद मे वाक्यं वृथा मृत्युमवाप्स्यसि ॥ ४८ ॥

इति तस्य वचः श्रुत्वा सुरेन्द्रस्तमुवाच ह ।
क्रोधसंरक्तचक्षुर्भिर्भक्षयन्निव दानवान् ॥ ४९ ॥

इन्द्र उवाच ।

तारक त्वं वल्गसि किं पश्य मे पौरुषं महत् ।
आसुरं प्रहरिष्यामि सैन्यं ते पश्यतो महत् ॥ ५० ॥

पश्चात्त्वां च क्रमेणाऽहं मदं सबलवाहनम् ।
हत्वाऽभिवाद्य शक्तिं च गमिष्याम्यमरावतीम् ॥ ५१ ॥

[[१०१]]

आदौ शक्तिविहीनोऽहं किं करोमि पराक्रमम् ।
अधुना शक्तिसंयुक्तः कदनं ते करोम्यहम् ॥ ५२ ॥

किं बहूक्तेन दैत्येन्द्र दर्शय स्वपराक्रमम् ।
नोचेद्गच्छस्व पातालं मिथ्या वल्गसि किं वचः ॥ ५३ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते इन्द्रतारकसमागमो नाम सप्तचत्वारिंशोऽध्यायः ॥