॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
कैलासे दैत्यपैर्युक्तः संस्थितोऽभून मदासुरः ।
कियत्कालं प्रभुञ्जानो भोगान् परमदुर्लभान् ॥ १ ॥
गते कियति काले च त्रिपुराद्यास्तमब्रुवन् ।
देवानां छेदने दुष्टाः संसक्ता मदसंयुताः ॥ २ ॥
त्रिपुराद्या ऊचुः ।
शृणु राजन् महाभाग मदासुर हितं वचः ।
देवाः शम्भुमुखाः सर्वे शक्तिलोकं गता बभुः ॥ ३ ॥
तत्र शक्त्या विशेषेण मानिताः सुरसत्तमाः ।
भयहीनाः सुखे सक्ता बुभुजुर्विविधं सुखम् ॥ ४ ॥
अस्माकं शत्रवः सर्वे देवा दैत्य मताः सदा ।
दैत्यानां कदने सक्ताः समर्थाश्चेन्न संशयः ॥ ५ ॥
हिरण्याक्षादयः सर्वे सूदिता देवपैः पुरा ।
छिद्रदर्शनसंयुक्तैरस्माकं तैर्विशेषतः ॥ ६ ॥
सर्वत्र ख्यातिमत्यन्तं जानन्ति सकला जनाः ।
देवानां वैरिभावं च परस्परवधे रतम् ॥ ७ ॥
अस्माकं शक्तिरत्यन्तं वैरिभावे प्रवर्तिता ।
मान्या तदपि दैत्येन्द्र देवानां सा हिते रता ॥ ८ ॥
अतः शक्तिपुरे स्वामिन् गमिष्यामो न संशयः ।
हनिष्यामोऽमरान् सर्वान् वैरिभावं समाश्रितान् ॥ ९ ॥
दैत्यानां वचनं श्रुत्वा प्रतापी स मदासुरः ।
उवाच तान् महादैत्यो विनयेन समन्वितः ॥ १० ॥
मदासुर उवाच ।
शृणुध्वं त्रिपुराद्या मे वचनं हितकारकम् ।
शक्तिप्रसादसम्भूतमैश्वर्यं सकलं च मे ॥ ११ ॥
इष्टा देवी मदीया सा तां भजामि विशेषतः ।
अतस्तस्या हितं मान्यं कर्तव्यं सकलैः सदा ॥ १२ ॥
तां च देवा ययुः सर्वे शरणं नात्र संशयः ।
मदीयदासभावेन यन्त्रिता शक्तिरादरात् ॥ १३ ॥
देवानां पक्षपातेन सह तैर्नागताऽभवत् ।
अस्माकं तु वधार्थाय महामाया च दानवाः ॥ १४ ॥
अतः प्रभजने तस्या आसक्ता ये भवन्ति वै ।
ते सम्मान्या मया नित्यं मा वैरं कुरुताऽसुराः ॥ १५ ॥
मदासुरवचः श्रुत्वा दैत्यपास्तं पुनर्जगुः ।
क्रोधयुक्ता मदोत्सिक्ता देवानां तु वधे रताः ॥ १६ ॥
दैत्येशा ऊचुः ।
मदासुर शृणु स्वामिन् पुरावृत्तं कथानकम् ।
हिरण्यकशिपुः प्रोक्तो ब्रह्मलब्धवरो महान् ॥ १७ ॥
अभवन् बहवश्चान्ये दैत्येशा देवशत्रवः ।
देवपक्षाश्रयं सर्वे त्यक्त्वा स्वं धर्ममाश्रिताः ॥ १८ ॥
कश्यपस्य सुतौ चैव तावुभौ देवसंश्रयम् ।
त्यक्त्वा तु देवसंहारे दैत्येशौ तत्परौ पुरा ॥ १९ ॥
अतस्त्वयाऽपि कर्तव्यं देवानां मूलनाशनम् ।
असुराश्च सुराः प्रोक्ता वेदेऽपि च विरोधिनः ॥ २० ॥
शक्तिलोकं गमिष्यामो भक्तियुक्ता वयं प्रभो ।
देवास्तान्निर्दलिष्यामः खलु शक्तेः प्रसन्निधौ ॥ २१ ॥
यदि शक्तिर्महामायाऽस्माकं पक्षं समाश्रिता ।
तदा तां पूजयिष्यामः कुलदैवतमादरात् ॥ २२ ॥
अन्यथा योधयिष्यामो वयं शक्त्या न संशयः ।
शत्रुपक्षाश्रितां ज्ञात्वा नाऽत्र दोषः प्रवर्तते ॥ २३ ॥
दैत्येशानां वचः श्रुत्वा दुर्मतिः स मदासुरः ।
तथेति सत्यमत्यन्तं मानयामास दैत्यपः ॥ २४ ॥
तदैव दैत्यसंयुक्तो ययौ लोकं मदासुरः ।
शक्तेश्च सन्निधौ दूतं प्रेषयामास दुर्मतिः ॥ २५ ॥
[[९८]]
तारकं प्रजगादाऽसौ गच्छ देवीं महाबल ।
सामयुक्तं वदाऽऽशु त्वं महामायां महासुर ॥ २६ ॥
तं प्रणम्य ययौ वेगाच्छक्तेः सन्निधिमादरात् ।
तारको मानितस्तैस्तु देवैः परमदारुणः ॥ २७ ॥
नत्वा शक्तिं महामायां कृताञ्जलिपुटोऽसुरः ।
तारकस्तामुवाचाऽथ सामयुक्तं वचः खलः ॥ २८ ॥
तारकासुर उवाच ।
शृणु शक्ते महामाये आगतः स मदासुरः ।
दर्शनार्थं च ते मातस्तेनाऽहं प्रेषितोऽधुना ॥ २९ ॥
तेनोदितं च शक्ते त्वं वचनं शृणु मानदे ।
भक्तेन भक्तिसंयुक्तं भावज्ञे जगदम्बिके ॥ ३० ॥
अस्माकं कुलदेवी तु त्वमेवात्र न संशयः ।
असुरा हि वयं सर्वे त्वदीयाः सेवका मताः ॥ ३१ ॥
यत्राऽसुरा विराजन्ति सुरास्तत्र हतप्रभाः ।
भवन्ति नात्र सन्देहः स्वभावाच्छत्रवो मताः ॥ ३२ ॥
अतो देवान् समुत्सृज्य तिष्ठ त्वं पूजिताऽसुरैः ।
अस्माकं शत्रवो देवास्त्वदीयाः शत्रवो मताः ॥ ३३ ॥
प्रणमन्तो वयं यावत्तावद्देवनिकृन्तनम् ।
करिष्यामो न सन्देहस्तस्मान् मातस्त्यजाऽऽशु तान् ॥ ३४ ॥
एकं पक्षं समाश्रित्य तिष्ठ त्वं जगदम्बिके ।
असुराणां सुराणां वा पूजिता सततं परे ॥ ३५ ॥
इत्येवं कथितं दे?वी मदस्य वचनं मया ।
कुरु त्वं भक्तराजस्य पालनं परमादरात् ॥ ३६ ॥
गृत्समद उवाच ।
मदस्य वचनं क्रूरं तारकेण प्रकाशितम् ।
तच्छ्रुत्वा कुपिता देवी तं जगाद महासुरम् ॥ ३७ ॥
शक्तिरुवाच ।
मदीयं जगदम्बेति नाम वेदे प्रकाशितम् ।
केन मार्गेण दैत्येश पक्षमेकं समाश्रये ॥ ३८ ॥
यथा देवास्तथा दैत्या मान्या मे नात्र संशयः ।
देवैर्दैत्यैश्च कर्तव्यः स्वस्वधर्मो महासुर ॥ ३९ ॥
पाताले राज्यमानन्दाद्दैत्यैः कर्तव्यमञ्जसा ।
स्वर्गेषु सर्वदा देवैः कर्तव्यं स्वस्वभावजम् ॥ ४० ॥
विपरीते हनिष्यामि क्रुद्धाऽहं नात्र संशयः ।
अतो दैत्यैः प्रगन्तव्यं पाताले वै मदाज्ञया ॥ ४१ ॥
शक्तेर्वचनमाकर्ण्य क्रुद्धः सोऽपि महासुरः ।
उवाच तां महाशक्तिं भयं त्यक्त्वा प्रभावतः ॥ ४२ ॥
तारक उवाच ।
मा गर्वं कुरु शक्ते त्वं शत्रुपक्षसमाश्रिते ।
तपसा वयमुत्कृष्टा जाताः स्वस्य न संशयः ॥ ४३ ॥
कर्मणा त्वं प्रसृजसि जगन्ति जगदम्बिके ।
कर्माधीनमिदं सर्वं तत्र त्वं किं करिष्यसि ॥ ४४ ॥
कर्मणा दैत्यराजश्च प्रतापी स मदासुरः ।
ब्रह्माण्डाधिपतिर्भूत्वा देवान् सर्वान् हनिष्यति ॥ ४५ ॥
युद्धाय सज्ज त्वं देवि देवैःसह जगन्मयि ।
असुरैश्च महाभागैर्गच्छामि मदसन्निधौ ॥ ४६ ॥
एवमुक्त्वा महाशक्तिं तारकः क्रोधसंयुतः ।
जगाम शक्तिलोकाद्वै मददैत्यस्य सन्निधौ ॥ ४७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते तारकासुरसामवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥
[[९९]]