४५ मदासुरस्वर्गविजयः

॥ श्रीगणेशाय नमः ॥

गृत्समद उवाच ।

ततः कदाचिद्दैत्येन्द्रैर्बोधितोऽभून् मदासुरः ।
विजयाय समुद्युक्तस्त्रैलोक्यस्य मदान्वितः ॥ १ ॥

स शुक्रमुपसङ्गम्य तं प्रणम्य विशेषतः ।
सङ्गृह्य मुनिमुख्यं वै विजयायाऽकरोन् मतिम् ॥ २ ॥

नानादिग्भ्यः समायाता असुरा दैत्यपास्ततः ।
सन्नद्धास्त्वरमाणाश्च राक्षसाः प्रययुर्मदम् ॥ ३ ॥

चतुरङ्गबलैर्युक्तः सङ्ख्यातीतैर्मदासुरः ।
निर्ययौ दिग्जयार्थं स संस्तुतो बन्दिभिर्नृपः ॥ ४ ॥

दैत्याः केऽपि महाघोरा निःसृतास्तत्पुरो बभुः ।
मेरुमन्दरसङ्काशा यमाय भयदायकाः ॥ ५ ॥

नानाशस्त्रास्त्रसंयुक्ताः कवचादिसमावृताः ।
नानावाहनगास्ते वै कम्पयन्तो वसुन्धराम् ॥ ६ ॥

केचित्पाषाणहस्ताश्च केचिद् वृक्षधरास्तथा ।
पर्वतस्य धराः केचिन् महाबलपराक्रमाः ॥ ७ ॥

नानाभयङ्कराकारा बभुः सैन्ये समन्ततः ।
तदा संशयिताः सर्वे ब्रह्माण्डे लोकसङ्कुले ॥ ८ ॥

पृथिवीजयने सक्ता दैत्याः परमदारुणाः ।
आदौ तत्रासुरेशानमदासुरसुचोदिताः ॥ ९ ॥

केचित् कृत्वा मृता युद्धं केचित्तान् शरणं ययुः ।
राजानो भयसंयुक्ताः केचिच्च्यवनमाश्रिताः ॥ १० ॥

प्रलयं मेनिरे लोका भूमिस्थाः सर्वशस्तदा ।
दैत्या भूमण्डलं जित्वाऽभवंस्ते हर्षसंयुताः ॥ ११ ॥

सप्तद्वीपवतीं पृथ्वीं जित्वा दैत्या महासुराः ।
देवानां जयने बुद्धिं चक्रुः परमदारुणाः ॥ १२ ॥

वायुवेगसमाः सर्वे गताः स्वर्गं क्षणार्धतः ।
वनानि ते बभञ्जुश्च देवोद्यानानि दैत्यप ॥ १३ ॥

देवैः सञ्ज्ञापितस्तत्र सुरेन्द्रः क्रोधसंयुतः ।
युद्धाय शस्त्रसंयुक्तैर्देवैर्वै तत्परोऽभवत् ॥ १४ ॥

बृहस्पतिं समागम्य प्रणनाम सुरेश्वरः ।
सुरेश्वरो द्विजेन्द्रेण मानितो भक्तिसंयुतः ॥ १५ ॥

तत इन्द्रं जगादाऽसौ महाकान्तिर्बृहस्पतिः ।
शृण देवेन्द्र वाक्यं मे कालकर्मयुतं महत् ॥ १६ ॥

शक्तेः स वरदानेन दुर्जयः स मदासुरः ।
अतः सर्वं परित्यज्य पलायध्वं सुरेश्वराः ॥ १७ ॥

एवमुक्ते च जीवेन पलायन्त च देवताः ।
बृहस्पतिसमायुक्तास्त्यक्त्वा स्वर्गादिकं भयात् ॥ १८ ॥

ततो मदासुरो ज्ञात्वा सर्वं देवविचेष्टितम् ।
दैत्यैर्युक्तः सुसंहृष्ट आययावमरावतीम् ॥ १९ ॥

तत्रेन्द्रासनगो भूत्वा रराज स मदासुरः ।
सेव्यमानोऽप्सरोभिश्च गन्धर्वैर्गानतत्परैः ॥ २० ॥

विविधैर्दिव्यभोगैः स सेव्यमानोऽमरैस्तथा ।
बलदर्पसमायुक्तो दैत्यैर्नानाविधैर्बभौ ॥ २१ ॥

देवानां स पदेष्वेव स्थापयामास दैत्यपान् ।
तारकाद्या महावीर्याः संस्थिता बुभुजुः सुखम् ॥ २२ ॥

ततस्तैः स विचार्यैव ययौ ब्रह्मपदं महत् ।
विधाता स्थानमुत्सृज्य कैलासं तद्भयाद्ययौ ॥ २३ ॥

सत्यलोके सुराः सर्वे बभ्रमुर्यत्र तत्र वै ।
नानाभोगयुता दुष्टा रेजिरे मदसंयुताः ॥ २४ ॥

विमानैर्वाह्यमानास्ते मनोवेगैः सुखप्रदैः ।
कामगैश्च महादैत्या मेनिरे कृतकृत्यताम् ॥ २५ ॥

मदासुरस्तत्र राजा ब्रह्मासनसमाश्रितः ।
मुदं लेभेऽसुरेशानैः संवृतः कालभीतिदैः ॥ २६ ॥

[[९६]]

ततस्तैः संवृतो दैत्यो ययौ वैकुण्ठमादरात् ।
ज्ञात्वाऽऽगतं महाक्रूरं पलायत रमापतिः ॥ २७ ॥

सोऽपि कैलासमगमद्विष्णुः स्वैः पार्षदैर्वृतः ।
मदासुरो महादुष्टो वैकुण्ठे संस्थितोऽभवत् ॥ २८ ॥

नारायणासने संस्थो दैत्यराजैर्महाबलैः ।
संवृतः शुशुभेऽतीव नानाभोगसमन्वितः ॥ २९ ॥

सुखं चानुपमं तत्र वैकुण्ठे विष्णुना कृतम् ।
तदेव बुभुजे सोऽपि दैत्यैर्दुष्टैः समन्वितः ॥ ३० ॥

विमानानि विचित्राणि देवोद्यानानि सर्वशः ।
कल्पवृक्षयुतान्येते दैत्यपाः समभुञ्जत ॥ ३१ ॥

ततस्तैः सहितो वीरः प्रतापी स मदासुरः ।
कैलासं शङ्करस्थानं ययौ रणविधित्सया ॥ ३२ ॥

शिवोऽपि स्वगणैर्युक्तो देवैर्विष्ण्वादिभिर्वृतः ।
शक्तिलोकं जगामाऽथ भयसङ्कुलितो मदात् ॥ ३३ ॥

दैत्येश्वरो महादैत्यैः कैलासे संस्थितोऽभवत् ।
अतुलं सुखमत्यन्तं बुभुजे तैः समन्वितः ॥ ३४ ॥

शिवेन रचितं पुण्यं कैलासे कल्पितप्रदम् ।
नानाश्चर्ययुतं हृष्टो दैत्यस्तद्बुभुजे बलात् ॥ ३५ ॥

मोहितो भोगभावेन धन्यं चैव मदासुरः ।
मेने स्वं सर्वदनुजैस्त्रिपुरप्रमुखैः खलैः ॥ ३६ ॥

देवाः सर्वे ययुः शक्तेर्लोकं तद्भयसङ्कुलाः ।
शक्तिस्तान् गणसंयुक्तान् समाश्वास्य स्थिताऽभवत् ॥ ३७ ॥

शिवादीनादिमाया सा जगाद वदतां वरा ।
जगतश्च जगन्माता सृष्टिस्थित्यन्तकारिणी ॥ ३८ ॥

आदिशक्तिरुवाच ।
मा भयं देवदेवेशाः कुरुध्वं मम सन्निधौ ।
तिष्ठताऽत्र न दैत्योऽयं कदापि त्वागमिष्यति ॥ ३९ ॥

मदीयवरदानेन गर्वयुक्तो बभूव ह ।
मदासुरो महाभागो वचो मम करिष्यति ॥ ४० ॥

आगमिष्यति दैत्यश्चेत्तदा मां पूजयिष्यति ।
मदीयमवमानं वै न करिष्यति देवपः ॥ ४१ ॥

कदाचित्तेन गर्वेण ममलोकनिवासिनः ।
पीडिताश्चेत् क्षणं सद्यो हनिष्यामि न संशयः ॥ ४२ ॥

एवमाश्वासिता देवाः शक्त्या ते तत्र संस्थिताः ।
भयं त्यक्त्वा च दैत्येभ्यो दुःखयुक्ता महासुर ॥ ४३ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते मदासुरस्वर्गविजयो नाम पञ्चचत्वारिंशोऽध्यायः ॥

[[९७]]