॥ श्रीगणेशाय नमः ॥
प्रल्हाद उवाच ।
श्रुतं च्यवनमाहात्म्यं विश्रान्तं मे च मानसम् ।
मदस्य चरितं ब्रूहि किं चकार महामुने ॥ १ ॥
मुद्गल उवाच ।
एवं पृष्टो गृत्समदो महायोगी प्रतापवान् ।
गाणपत्यवरिष्ठश्चोवाच तच्छृणु सादरम् ॥ २ ॥
गृत्समद उवाच ।
शृणु प्रह्लाद माहात्म्यं मदस्य क्रमसंयुतम् ।
च्यवनेन स संसृष्टो मदः पातालमाययौ ॥ ३ ॥
विचार्य बलवान् दैत्यैर्ययौ शुक्रं महामुनिम् ।
तं प्रणम्य स्थितो दूरं बद्धाञ्जलिपुटो मदः ॥ ४ ॥
विनयेन समायुक्तं मदं दृष्ट्वा स भार्गवः ।
काव्यस्तं मानयामास कुतः कोऽसि वदस्व माम् ॥ ५ ॥
ततः स हर्षितो भूत्वा जगाद मुनिसत्तमम् ।
च्यवनाच्च समुत्पन्नं भार्गवं विद्धि मां मुने ॥ ६ ॥
तव भ्रातृसुतोऽहं वै शरणं त्वामुपागतः ।
शिष्यं मां कुरु योगीश येनाऽहं मानितो भुवि ॥ ७ ॥
ब्रह्माण्डस्य महद्राज्यं कर्तुमिच्छामि भार्गव ।
मदोऽहं मदरूपेण जेष्यामि त्वत्प्रसादतः ॥ ८ ॥
इति तस्य वचः श्रुत्वा नातिहृष्टेन चेतसा ।
मदं तं शिष्यभावेन जग्राह मुनिसत्तमः ॥ ९ ॥
शक्तिमन्त्रं ददौ तस्मै कविः सर्वार्थकोविदः ।
एकाक्षरविधानेन सहितं भार्गवाग्रणीः ॥ १० ॥
स ययौ तं नमस्कृत्य वनं तपसि संस्थितः ।
निराहारयुतो दैत्यः शक्तिध्यानपरायणः ॥ ११ ॥
तस्य देहे समुत्पन्नो वल्मीको बहुकालतः ।
लतातरुसमायुक्तस्तथाऽपि तपसि स्थितः ॥ १२ ॥
अस्थिमात्रावशिष्टोऽभूदजपन् मनुमादरात् ।
ध्यानं साङ्गं चकाराऽसौ स्थिरचित्तेन तापसः ॥ १३ ॥
दिव्यवर्षसहस्राणि पञ्च वै तपतः किल ।
गतानि दैत्यराजेन्द्रातुरं सर्वं तदाऽभवत् ॥ १४ ॥
ततः शक्तिर्ययौ तस्याऽश्रमे भक्तिप्रभाविता ।
सिंहारूढा महाभागा शक्तिभिः संवृता परा ॥ १५ ॥
पुरुषाकृतिसंस्था तु तदधीनाश्चरन्ति ताः ।
पुरतो भक्तिसंयुक्ताः प्रकृतीनां महाबलाः ॥ १६ ॥
बोधयामास सा शक्तिरादिमाया मदं ततः ।
स्वभक्तं तापसं नैव स बुबोध मदासुरः ॥ १७ ॥
ततस्तया जलेनैव मार्जिताङ्गो महामदः ।
सावधानोऽभवत्तत्र दृष्ट्वा शक्तिं समुत्थितः ॥ १८ ॥
तां प्रणम्य महाभक्त्याऽपूजयन् भक्तिसंयुतः ।
कृत्वा करपुटं देवीं तुष्टाव च यथामति ॥ १९ ॥
मद उवाच ।
नमामि त्वां महामाये सर्वशक्तिसमन्विताम् ।
त्वदाधारमिदं सर्वं शक्तियुक्तं प्रवर्तते ॥ २० ॥
अनादिमप्रमेयां त्वां न जानन्ति महर्षयः ।
वेदान्तवेद्यरूपां वै नमामि परमेश्वरीम् ॥ २१ ॥
नानाभेदकरीं देवीं नानाभेदविवर्जिताम् ।
भेदाभेदमयीं त्वाऽहं नमामि सकलेश्वरीम् ॥ २२ ॥
पार्वतीं दक्षपुत्रीं च हिमाचलसुतां तथा ।
समुद्रतनयां लक्ष्मीं सावित्रीं त्वां नमाम्यहम् ॥ २३ ॥
त्वां स्वाहां त्वां स्वधां चैव वषट्कारात्मिकां शिवाम् ।
बुद्धिरूपां देवमयीं ज्ञानरूपां नमाम्यहम् ॥ २४ ॥
सिद्धिदां सर्वकार्येषु सिद्धिरूपां तपस्विनीम् ।
योगिनीं योगदात्रीं वै योगेशीं त्वां नमाम्यहम् ॥ २५ ॥
[[९४]]
त्वां स्तोतुं न समर्था ये मुनयो वेदवादिनः ।
देवाः स्कन्दश्च शेषश्च तत्राऽहं स्तौमि किं पराम् ॥ २६ ॥
धन्यौ मे पितरौ ज्ञानं तपो विद्यादिकं च यत् ।
यत्तवाङ्घ्रियुगं दृष्टं सर्वदुःखविमोचनम् ॥ २७ ॥
इत्युक्त्वा संस्थितस्तूष्णीं भावेन स मदासुरः ।
तमुवाच महाशक्तिर्भक्तिभावेन यन्त्रिता ॥ २८ ॥
शक्तिरुवाच ।
त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् ।
भविष्यति महाभाग सर्वकामफलप्रदम् ॥ २९ ॥
धर्मार्थकाममोक्षाणां साधनं प्रभविष्यति ।
पठतां शृण्वतां सर्वं सुखदं च महासुर ॥ ३० ॥
वरान् वरय दास्यामि त्वया स्तोत्रेण तोषिता ।
तपसोग्रेण दैत्येन्द्र दुर्लभान् मनसि स्थितान् ॥ ३१ ॥
गृत्समद उवाच ।
देव्या वचनमाकर्ण्य हर्षितः स मदासुरः ।
तां प्रणम्य जगादाऽथ वरान् परसुदुर्लभान् ॥ ३२ ॥
मदासुर उवाच ।
यदि देवि प्रसन्ना त्वं यदि देया वराः पराः ।
तर्हि मे मरणं कुत्र न भवेत्त्वं तथा कुरु ॥ ३३ ॥
देहि मे सकलं राज्यं त्रैलोक्यस्य जगन्मयि ।
यद्यदिच्छामि तत्तद्वै प्रसिद्ध्यतु सदाशिवे ॥ ३४ ॥
त्वं च प्रकृतिरूपा वै त्वत्तः सर्वं समुद्भवम् ।
पञ्चधा तन्ममाधीनं जननि त्वं सदा कुरु ॥ ३५ ॥
ततस्तं जगदम्बा सोवाच विस्मितमानसा ।
यदुत्पन्नं महादैत्य तस्मात्ते मरणं न हि ॥ ३६ ॥
पञ्चधा यद्विभक्तं तत्तवाधीनं भविष्यति ।
यद्यदिच्छसि तत्तद्वै सफलं सर्वदा भवेत् ॥ ३७ ॥
आरोग्यमचलं राज्यं ब्रह्माण्डस्य भविष्यति ।
न समस्ते च दैत्येन्द्र युद्धे कश्चिद्भवेदपि ॥ ३८ ॥
इत्युक्त्वान्तर्दधे देवी जगन्माताऽसुरेश्वर ।
मदश्च हर्षितोऽत्यन्तं स्वगृहं प्रत्यपद्यत ॥ ३९ ॥
प्रमादासुरकन्यां वै सालसां रूपशालिनीम् ।
उपयेमे विधानेन दैत्यैः सम्मानितो भृशम् ॥ ४० ॥
विलासदं ततस्तेन नगरं वासितं बभौ ।
तत्राययुश्च वासार्थं दिग्भ्यो दैत्या महासुराः ॥ ४१ ॥
अमात्यास्तस्य चत्वारः सञ्जाता लोकविश्रुताः ।
बाणस्त्रिपुरनामा वै तारकः शङ्खसञ्ज्ञकः ॥ ४२ ॥
दैत्यैस्तत्र समानीतः कविः परमयोगवित् ।
ब्राह्मणैः सह तं राज्ये सिषेच स मदासुरम् ॥ ४३ ॥
दैत्यानां राक्षसानां चासुराणां पतिरादरात् ।
जातो मदासुरस्तत्र हर्षिता दैत्यपा बभुः ॥ ४४ ॥
पुत्रास्त्रयः समुत्पन्नाः सालसायां मदासुरात् ।
विलासी लोलुपश्चैव धनप्रिय इति स्मृताः ॥ ४५ ॥
एवं राज्यं चकाराऽसौ दैत्यानामसुरेश्वरः ।
गर्वेण तेन वा को वै न दध्रे बलसंयुतः ॥ ४६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते मदासुरस्य राज्याभिषेको नाम चतुश्चत्वारिंशोऽध्यायः ॥
[[९५]]