४३ च्यवनमाहात्म्यम्

॥ श्रीगणेशाय नमः ॥

गृत्समद उवाच ।

भृगोर्वचनमाकर्ण्य लज्जितश्च्यवनोऽभवत् ।
तं प्रणम्य महाभक्त्या प्रपच्छ स कृताञ्जलिः ॥ १ ॥

च्यवन उवाच ।

क्षमस्व मेऽपराधं च यत्कृतं सर्जनं मया ।
मदस्य भागहीनौ तावश्विनौ भागसंयुतौ ॥ २ ॥

अधुना गणनाथस्य ज्ञानं मे वद शान्तिदम् ।
मदादिकं समुत्सृज्य येन शान्तो भवाम्यहम् ॥ ३ ॥

गृत्समद उवाच ।

तदीयं वाक्यमाकर्ण्य भृगुस्तं प्राह सिद्धिदम् ।
योगं पूर्णं गणेशाख्यं तं शृणुष्व वदाम्यहम् ॥ ४ ॥

भृगुरुवाच ।
गणेशो ब्रह्मरूपोऽयं पूर्णशान्तिमयः स्मृतः ।
भेदाभेदादियोगेन गणेशः प्राप्यते नरैः ॥ ५ ॥

मायामयमिदं सर्वं भेदाभेदमयं सुत ।
त्यक्त्वा गणेश्वरत्वेन न चित्तं सम्भवेत् कदा ॥ ६ ॥

तदा चित्तस्य वृत्तीनां पञ्चानां नाश एव च ।
जायते नाऽत्र सन्देहो योगशान्तिमयो भवेत् ॥ ७ ॥

अतस्त्वं गणराजं तं भज योगस्य सेवया ।
मयोक्तेन विधानेन शान्तियुक्तो भविष्यसि ॥ ८ ॥

इत्युक्त्वा विररामाऽथ भृगुः शान्तिसमन्वितः ।
तं प्रणम्य ययौ सोऽपि च्यवनः परामादृतः ॥ ९ ॥

वने गत्वा तपस्तप्तं तेन योगप्रदायकम् ।
क्रमेण चित्तभूमीनां शोधनं च कृतं बलात् ॥ १० ॥

शमश्चैव दमस्तेन सेवितौ भूमिनाशनात् ।
सर्वं सुसुलभं प्राप्तं ततो ब्रह्मविचारतः ॥ ११ ॥

शान्तियोगं समासाद्य तदाकारेण संस्थितः ।
गणेशमभजन्नित्यं गाणपत्यस्वभावतः ॥ १२ ॥

तं गणेशो ययौ दैत्य मूषकोपरि संस्थितः ।
गजाननश्चतुर्बाहुः प्रतापी च महोदरः ॥ १३ ॥

तं दृष्ट्वा दण्डवद्भूमौ पतितश्च्यवनो मुनिः ।
पूजयित्वा विधानेन ततः स्तोतुं प्रचक्रमे ॥ १४ ॥

हेरम्बस्योपनिषदा संस्तुतो गणनायकः ।
ततः प्रसन्नतां यातः प्रददौ वरमुत्तमम् ॥ १५ ॥

गणेश उवाच ।

यद्यदिच्छसि विप्रेन्द्र तत्तत्ते सफलं भवेत् ।
योगशान्तिस्थभावेन सदा तिष्ठसि मानद ॥ १६ ॥

भक्तिर्मदीयपादे वै दृढा तव भविष्यति ।
स्मृतोऽहं पुरतो विप्र तुभ्यं दास्यामि दर्शनम् ॥ १७ ॥

एवमुक्त्वा गणाधीशोन्तर्धानमगमत् प्रभुः ।
तेनाऽपि स्थापिता मूतिर्गणेशस्य चतुर्भुजा ॥ १८ ॥

च्यवनाश्रमवासी स तदहात् गणपोऽभवत् ।
दर्शनात् स्मरणात् सद्यो भुक्तिर्मुक्तिश्च जायते ॥ १९ ॥

एतत्ते कथितं पुण्यं च्यवनस्य महात्मनः ।
आख्यानं सर्वदोषघ्नं नानासिद्धिफलप्रदम् ॥ २० ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते च्यवनमाहात्म्यं नाम त्रिचत्वारिंशोऽध्यायः ॥

[[९३]]