॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
च्यवनेन तथा यज्ञेऽश्विनौ तौ भागसंयुतौ ।
कृत्वा चावहितौ तत्र तत इन्द्रोऽब्रवीद्वचः ॥ १ ॥
इन्द्र उवाच ।
अश्विनौ भिषजौ प्रोक्तौ मुने तस्मान्न योग्यता ।
यज्ञभागे तयोः स्वामिन् माह्वेयति वदाम्यहम् ॥ २ ॥
अभवन् मुनिमुख्यो सौ त्यक्त्वेन्द्रवचनं ततः ।
समुद्युक्तश्च तौ तत्राह्वयितुं त्वसुरेश्वर ॥ ३ ॥
तत इन्द्रोऽब्रवीद्विप्रं च्यवनं क्रोधसंयुतः ।
वज्रेणैव हनिष्यामि यद्यायातौ मुनेऽश्विनौ ॥ ४ ॥
च्यवनेन सहायेनाश्विनौ तत्रागतौ मखे ।
अश्विनौ तौ तदा दृष्ट्वा वज्रं दध्रे पुरन्दरः ॥ ५ ॥
च्यवनेन सवज्रस्तु तस्य प्रस्तम्भितो भुजः ।
तपसा स्वप्रभावेण मदं संससृजे मुनिः ॥ ६ ॥
ग्रसितुं स ययाविन्द्रं च्यवनेन प्रचोदितः ।
विस्मिता मुनयो देवा दृष्ट्वा वीर्यं महामुनेः ॥ ७ ॥
विकरालमुखं वीरं लेलिहान नभस्तलम् ।
अञ्जनाद्रिसमं श्यामं ददृशुस्तं मदं मखे ॥ ८ ॥
भयभीतास्ततो देवसेना मुनिगणा जनाः ।
अन्ये प्रदुद्रुवुस्तत्र त्यक्त्वा यज्ञं दिशो दश ॥ ९ ॥
मदस्तु ग्रसितुं तत्रेन्द्रसान्निध्यं समाययौ ।
तं दृष्ट्वा भयभीतः स च्यवनं शरणं ययौ ॥ १० ॥
इन्द्र उवाच ।
अश्विनौ भागसंयुक्तौ मया मान्यौ कृतौ मुने ।
मदान् मां रक्ष विप्रेश ग्रसिष्यति न संशयः ॥ ११ ॥
ततस्तेनाभयं दत्तमिन्द्राय शरणार्थिने ।
मदं च तपसा स्वेन वारयामास भार्गवः ॥ १२ ॥
समाप्य च्यवनो यज्ञं ययौ पितृगृहे मुनिः ।
प्रणनाम सभार्यस्तं भृगुं योगविदांवरम् ॥ १३ ॥
तेन सम्मानितः पुत्रस्तपःसिद्धश्च सन्निधौ ।
च्यवनश्च कियत्कालमवसत् सेवनोत्सुकः ॥ १४ ॥
कदाचिच्च्यवनं विप्रं भृगुः परमतत्त्ववित् ।
उवाच ज्ञानसिद्ध्यर्थं स्वसुतं कृपया युतः ॥ १५ ॥
भृगुरुवाच ।
शृणु पुत्र प्रवक्ष्यामि किं कृतं दुःखदं त्वया ।
मदः स्वतपसा सृष्टो देवेन्द्रस्य भयावहः ॥ १६ ॥
तपोबलमदेनैवं कुरुषे कर्म तापस ।
मदयुक्तोसि पुत्र त्वं त्यज तं योगसेवया ॥ १७ ॥
शृणु वृत्तान्तमादौ त्वं मदीयं कथयामि ते ।
मया तन्मदयुक्तेन तपोवीर्येण यत्कृतम् ॥ १८ ॥
सततं तपसा युक्तो प्रतपामि तपो महत् ।
मध्ये मुनीनां सर्वेषां श्रेष्ठोऽहं तपसाऽभवम् ॥ १९ ॥
एकदा मुनयः सर्वे मिलिता गौतमीतटे ।
सिंहस्थे च गुरौ पुत्र तत्र वादो भवन्महान् ॥ २० ॥
पितामहं परं श्रेष्ठं जानामि सगुणं सुत ।
ब्रह्मरूपं महात्मानं सर्वस्रष्टारमञ्जसा ॥ २१ ॥
सगुणं केचिदूचुश्च भिन्नदेहधरं शिवम् ।
केचिद्विष्णुं तथा ब्रह्मन् केचिद्ब्रह्माणमञ्जसा ॥ २२ ॥
तत्र सर्वैरहं पुत्र प्रेषितः कार्यसिद्धये ।
परीक्षार्थं तपःसिद्धस्त्रिष्वेवं निश्चयार्थिभिः ॥ २३ ॥
अहं पितामहं श्रेष्ठं जानाम्यत्र न संशयः ।
तं ययौ पितरं सिद्धं परीक्षार्थं महामुने ॥ २४ ॥
तमप्रणम्य विश्वेशं समासीनो महासने ।
मां दृष्ट्वा दुर्विनीतं स कुपितश्च पितामहः ॥ २५ ॥
उवाच मां सुरश्रेष्ठः किं मदेन समन्वितः ।
समागतोऽसि दुर्बुद्धे गच्छ त्वं स्वगृहेऽधुना ॥ २६ ॥
[[९०]]
ततोऽवदं सुता चाऽऽदौ पत्नीभावेन सन्धृता ।
त्वया तत् किं मया तात दुर्बुद्धित्वं कृतं वद ॥ २७ ॥
तातस्तु क्षुभितोऽत्यन्तं स च मां शप्तुमुद्यतः ।
तातं तं दण्डवद्भूमौ नतोऽहं भक्तिसंयुतः ॥ २८ ॥
अवदं तं महाभागं मां क्षमस्व महागसम् ।
परीक्षार्थं महाविप्रैः प्रेषितोऽहं पितामह ॥ २९ ॥
क्षमस्वेदं कृतं कर्म त्वं श्रेष्ठः सर्वभावतः ।
स्तुत्वा तं विविधैर्वाक्यैस्ततः कैलासमागमम् ॥ ३० ॥
दृष्ट्वा मां तापसं पुत्र भ्रातरं सहसा शिवः ।
आलिङ्गितुं समायातो निजभक्तसुखप्रदः ॥ ३१ ॥
अवदन् महदत्यन्तं दुर्वचस्तं परीक्षितुम् ।
मा मां स्पृश पिशाचेश वर्णाश्रमविवर्जित ॥ ३२ ॥
नरमस्तकमात्रादिचिह्नयुक्तोऽशुचिः सदा ।
नाम्ना शिवोऽशिवस्त्वं वै ज्ञातं ते चेष्टितं मया ॥ ३३ ॥
इति मद्गिरमाकर्ण्य क्रोधयुक्तः सदाशिवः ।
तृतीयं नेत्रमुद्धाट्य ज्वालितुं चोद्यतोऽभवत् ॥ ३४ ॥
ततस्तं स्तुतवान् पुत्र प्रणतो दण्डवत् क्षितौ ।
परीक्षार्थमिदं कर्म कृतं त्वं क्षन्तुमर्हसि ॥ ३५ ॥
ब्राह्मणं मां विदित्वा स क्रोधं संहृत्य शङ्करः ।
संस्थितस्तत्र कैलासे वैकुण्ठे गतवानहम् ॥ ३६ ॥
लक्षम्या सह समासीनं विष्णुं दृष्ट्वा प्रहर्षितः ।
सोऽपि लक्ष्म्या नतः सद्यः पादयोर्मम पुत्रक ॥ ३७ ॥
मया निर्भर्त्सितोऽत्यन्तं पादं मा स्पृश दुर्मते ।
स्त्रीवेषधारी जातोऽसि त्वं तेन मलिनो मतः ॥ ३८ ॥
मदीया स्त्री त्वया दुष्ट वर्धिता गर्हितं कृतम् ।
इत्याद्यैर्विविधैर्वाक्यर्मयाऽसौ निन्दितो भृशम् ॥ ३९ ॥
ततो विष्णुः स्वयं पुत्र कृताञ्जलिपुटः स्थितः ।
मया क्रोधेन पादेन हृदि सन्ताडितस्तदा ॥ ४० ॥
तथाऽपि न चुकोपाऽसौ पादं धृत्वा मदीयकम् ।
ताडनश्रमयुक्तं संवाहितं तं चकार ह ॥ ४१ ॥
तदैव हृदये तेन ब्राह्मणप्रियकाम्यया ।
पुत्र लाञ्छनमेवेदं भृगुपादाङ्कितं धृतम् ॥ ४२ ॥
अहं च निश्चयं कृत्वा गतो ब्राह्मणसंसदि ।
कथितः सर्ववृत्तान्तः श्रेष्ठो नारायणः स्मृतः ॥ ४३ ॥
क्षमा यत्र भवेद्विप्रास्तत्र सर्वं प्रतिष्ठितम् ।
क्रमेण प्राप्यते ब्रह्म क्षमायुक्तेन चेतसा ॥ ४४ ॥
ततोऽहं वैष्णवो जातो यदा विष्णुपरायणः ।
कदाचिद्दक्षयज्ञे वै विष्णुर्मुख्यो बभूव ह ॥ ४५ ॥
शम्भुं त्यक्त्वा हरिं मुख्यं दृष्ट्वाऽहं यज्ञकर्मणि ।
मुख्यत्वमास्थितः पुत्र यज्ञकर्मप्रवर्तकः ॥ ४६ ॥
पार्वती तत्र दग्धातः शम्भुः कोपसमन्वितः ।
मृतां सतीं स विज्ञायाययौ गणसमावृतः ॥ ४७ ॥
विष्णुं निर्जित्य दक्षं तं हत्वा यज्ञः प्रणाशितः ।
मदीयं चिबुकं तत्र वीरभद्रेण पातितम् ॥ ४८ ॥
ब्रह्मणा सान्त्वितः शम्भुर्दक्षं सञ्जीव्य तं मखम् ।
चकार स्वयमेवेशः सम्पूर्णं भागसंयुतः ॥ ४९ ॥
आजं च चिबुकं मे च कृतं तेन महात्मना ।
नन्दिना शापितस्तत्र वारुणिर्ह्यभवं किल ॥ ५० ॥
ततोऽहं मानसे पुत्र विस्मितः शङ्करं स्मरन् ।
कालरूपी स्वयं शम्भुः कालाधीनमिदं जगत् ॥ ५१ ॥
ईश्वरोऽयं शिवः प्रोक्तः परं तस्मान्न विद्यते ।
विचार्य शङ्करं चित्ते धृत्वाऽहं भजने रतः ॥ ५२ ॥
[[९१]]
शैवो जातोऽहमत्यन्तं भस्माङ्गालेपने रतः ।
नानापाशुपतैर्मार्गैरभजं शङ्करं सदा ॥ ५३ ॥
एकदा यज्ञमारेभे क्षेत्रे नाम्ना महाबले ।
शैवे देवगणैर्ब्रह्मा मुनिभिश्च समन्वितः ॥ ५४ ॥
तत्रास्मृतिर्गणेशस्य जाता तेषां महामखे ।
उषःकाले ततो ज्येष्ठां त्यक्त्वा यज्ञं वितेनिरे ॥ ५५ ॥
गायत्रीं मुख्यभावां वै प्राप्तां वीक्ष्य महासती ।
सावित्री कोपसंयुक्ता शशाप सकलामरान् ॥ ५६ ॥
जलरूपा भवन्तो वै भविष्यन्ति न संशयः ।
ज्येष्ठां सन्त्यज्य यज्ञोऽयमारब्धस्तेन भोः सुराः ॥ ५७ ॥
जलरूपास्ततो देवाः शम्भुमुख्या बभूविरे ।
देवस्त्रीभिर्गणेशस्य तपः कृत्वा विमोचिताः ॥ ५८ ॥
पुनश्च देवरूपास्ते जातास्तस्य प्रसादतः ।
गणेशस्य न सन्देहोंशरूपेण जले स्थितः ॥ ५९ ॥
तदा मया च विज्ञातो गणेशो विघ्ननायकः ।
सर्वसत्ताधरः पुत्र स्वभावाच्च निरङ्कुशः ॥ ६० ॥
नामतो गणपस्तत्र स्वयमेव मखो महान् ।
ध्वंसितोऽनेन देवाश्च जलरूपाः कृताः सुत ॥ ६१ ॥
पुनश्च भक्तिभावेन सन्तुष्टो यज्ञमाययौ ।
देवरूपांश्चकाराऽसौ देवानेवाऽकरोन् मखम् ॥ ६२ ॥
सर्वत्र संस्थितोऽयं वै तेनेदृक् च चकार ह ।
इति मत्वा गणेशस्य भजने तत्परोऽभवम् ॥ ६३ ॥
ततः कदाचिद्व्यासस्य सङ्गतिर्मे महामते ।
जाता भाग्यवशेनैव मया पृष्टो महामुनिः ॥ ६४ ॥
व्यास त्वं वेदशाखानां मुने कर्ता न संशयः ।
पुराणानां विभागस्य भारतस्य महामते ॥ ६५ ॥
वेदेषु च पुराणेषु किं सारं सर्वसम्मतम् ।
वद मां त्वं दयासिन्धो येन शान्तिं लभेन्नरः ॥ ६६ ॥
अवदत् स महाभागो गाणेशं पदमुत्तमम् ।
पुराणं गणनाथस्य श्रावयामास मां सुत ॥ ६७ ॥
ततोऽहं योगमार्गेण साधयित्वा गणेश्वरम् ।
मदादिं सर्वमुत्सृज्य शान्तिं प्राप्तो न संशयः ॥ ६८ ॥
मदेनाऽहं परिभ्रष्टः परीक्षां कर्तुमुद्यतः ।
सर्वज्ञोऽहं परीक्षायां समर्थः शृणु पुत्रक ॥ ६९ ॥
अतस्त्वं भज विघ्नेशं मम पुत्र कृताज्ञया ।
शान्तिं प्राप्स्यसि सर्वत्र गाणपत्यो भविष्यसि ॥ ७० ॥
सर्वत्र व्यापकत्वेन मदोयं संस्थितोऽभवत् ।
त्वया सृष्टोऽधुना पापी पीडयिष्यति निश्चितम् ॥ ७१ ॥
तपसा मदयुक्तेन किं कृतं पुत्र दुःखदम् ।
अधुना गणपं भक्त्या भज योगस्य सेवया ॥ ७२ ॥
इत्युक्त्वा विररामाऽथ भृगुः सर्वार्थकोविदः ।
शान्तिं योगप्रदः साक्षाद्गाणपत्यो महायशाः ॥ ७३ ॥
इदं भृगोश्चरित्रं यः शृणुयाद्वा पठेन्नरः ।
स लभेदीप्सितं सर्वं प्रह्लादाऽत्र न संशयः ॥ ७४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकन्दतचरिते भृगुचरितं नाम द्विचत्वारिंशोऽध्यायः ॥