॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
भृगोः पुत्रश्च योगीशं भृगुं नत्वा ययौ वनम् ।
तताप तप उग्रं वै प्रयागे स जले स्थितः ॥ १ ॥
दशवर्षसहस्राणि गतानि तपतो मुनेः ।
तस्यैव तेजसा सर्वं व्याप्तं ब्रह्माण्डमण्डलम् ॥ २ ॥
एकदा धीवरैस्तत्र जले जालैर्महामते ।
गृहीता मत्स्यकाद्याश्च दैवात् सोऽपि समागतः ॥ ३ ॥
दृष्ट्वा मुनिवरं सर्वे भयभीता ययुर्नृपम् ।
धीवरा नहुषं सर्वमूचुर्वृत्तान्तमादरात् ॥ ४ ॥
भयभीतो नृपस्तत्र प्रधानैर्ब्राह्मणैर्वृतः ।
मुनिं ययौ महाभागं प्रणम्य स पुरःस्थितः ॥ ५ ॥
मत्स्या जलवियोगेन व्याकुला मरणोन्मुखाः ।
तान् स्वर्गे स्थापयामास सांसर्गिकसुभावतः ॥ ६ ॥
कृताञ्जलिपुटं दृष्ट्वा नहुषं मुनिसत्तमः ।
उवाच मोचय प्राज्ञ धृतं धीवरतोऽधुना ॥ ७ ॥
मदीयदेहमौल्येन धीवरांस्त्वं प्रसादय ।
श्रुत्वा तस्य वचः सर्वमूचे वै धीवरान्नृपः ॥ ८ ॥
शतं सौवर्णमुद्राणां गृहीत्वा मुच्यतां मुनिः ।
भवद्भिश्च महाभागैस्ततस्तं मुनिरब्रवीत् ॥ ९ ॥
[[८७]]
शतं सौवर्णमुद्राणां मौल्यं किं मे त्वया कृतम् ।
ततो राजा धनं लक्षं मौल्यं च कृतवान् मुनेः ॥ १० ॥
न योग्यं मुनिना तत्र कथितं स ततो नृपः ।
ग्राममेकं मुनेर्मौल्यं चकार भयसंयुतः ॥ ११ ॥
मुनिना तन्न योग्यं वै कृतं तत्र नृपः पुनः ।
नगरं देशसंयुक्तं मौल्यं स कृतवान् मुनेः ॥ १२ ॥
तथाऽपि मुनिना मान्यं न कृतं तत्ततो नृपः ।
राज्यमर्धं ततो मौल्यं धीवरान् दातुमुद्यतः ॥ १३ ॥
मुनिना कथितं तत्र मम योग्यं न मूल्यकम् ।
ततो राज्यं स सम्पूर्णं मौल्यं तस्य चकार ह ॥ १४ ॥
ततोऽपि मुनिना दैत्य न मान्यं तत्कृतं ततः ।
भयभीतो नृपोऽमात्यैः कर्तव्यं नाभ्यपद्यत ॥ १५ ॥
अधुना कोपसंयुक्तश्च्यवनः शापयिष्यति ।
मां तत्र नैव सन्देहो मद्दैवेन प्रचोदितः ॥ १६ ॥
ततस्तं व्याकुलं दृष्ट्वा च्यवनो मुनिरब्रवीत् ।
ब्राह्मणैः सह राजेन्द्र देहि मौल्यं विचार्य च ॥ १७ ॥
ततस्तत्राययौ योगी गाणपत्यो महायशाः ।
भरद्वाजः स तं दृष्ट्वा नहुषः प्रणनाम ह ॥ १८ ॥
भरद्वाजेन वृत्तान्तो ज्ञातः सर्वो ह्यशेषतः ।
उवाच नृपशार्दूलं चिन्तां मा कुरु भूमिप ॥ १९ ॥
ब्राह्मणानां गवां राजन् कुलमेकं द्विधा कृतम् ।
कर्मसंसिद्धये धात्रा पूज्यं च द्विविधं समम् ॥ २० ॥
हविष्यं गोभिरत्यन्तं धृतं वै यज्ञसिद्धये ।
मन्त्राश्च ब्राह्मणैस्तत्र धृतास्तद्वन्न संशयः ॥ २१ ॥
गां दत्वा धीवरेभ्यस्त्वं बन्धहीनं मुनिं कुरु ।
एवमुक्त्वा भरद्वाजो ययौ स्वेच्छाचरो मुनिः ॥ २२ ॥
तथा नहुषभूपेन कृतं दृष्ट्वा प्रहर्षितः ।
च्यवनो मुनिशार्दूल आशिषं विविधां ददौ ॥ २३ ॥
तं नृपं मानयित्वा स ययौ वनमनुत्तमम् ।
सुच्छायं सुफलं रम्यं सुजलं मुनिसत्तमः ॥ २४ ॥
तत्र स्थित्वा तपस्तेपे महोग्रं तेजसा युतः ।
निराहारेण संयुक्तो वर्षाणां च सहस्रकम् ॥ २५ ॥
एतस्मिन्नन्तरे तत्र शर्यातिश्च नृपो ययौ ।
मृगयाभिरतो दैवात् मुदा युक्तस्तदाऽऽश्रमे ॥ २६ ॥
तत्र तस्य शरीरे च वल्मीकस्तृणसंयुतः ।
जातस्तदपि घोरं वै तताप स तपो महत् ॥ २७ ॥
नरान् सर्वान्निवार्यैव संस्थितस्तत्र भूमिपः ।
मा कुरुध्वं प्रवेशं सच्च्यवनाश्रममण्डले ॥ २८ ॥
एतस्मिन्नन्तरे तत्र सुकन्या ससखी ययौ ।
वनं क्रीडार्थमुग्रेण तपसा संयुतं मुनेः ॥ २९ ॥
भ्रमन्त्या चालिभिस्तत्र दृष्टो वल्मीक उत्तमः ।
तत्र ज्योतिर्मये नेत्रे दृष्ट्वा सा विस्मिताऽभवत् ॥ ३० ॥
अज्ञानेन तथा मुग्धभावाद्वै कण्टकेन च ।
कन्यया चक्षुषी भिन्ने ज्योतीरूपे महामुनेः ॥ ३१ ॥
ताभ्यां रक्तं प्रसुस्राव दृष्ट्वा सा भयसङ्कुला ।
स्वनिवासं ययौ शीघ्रं सखीभिरसुरेश्वर ॥ ३२ ॥
ततः पुरीषमूत्रे वै सैन्यानां बन्धमागते ।
भूपस्य तेन शर्यातिर्भयभीतो बभूव ह ॥ ३३ ॥
पप्रच्छ सर्वलोकान् स मुनेराश्रममण्डले ।
छिद्रं केन कृतं घोरं येन सङ्कुपितो मुनिः ॥ ३४ ॥
ततः सा राजकन्या तं पितरं प्राह लज्जिता ।
क्षुभिता भयभीता वै सुकन्या रचिताञ्जलिः ॥ ३५ ॥
वने क्रीडनभावेन वल्मीके कण्टकेन च ।
विद्धे मया महाराज ज्योतिषी नात्र संशयः ॥ ३६ ॥
ततो राजा वनं गत्वा वल्मीके संस्थितं मुनिम् ।
स्तुत्वा प्रसादयामास विनयेन समन्वितः ॥ ३७ ॥
ततस्तं राजशार्दूलमुवाच भृगुनन्दनः ।
अज्ञानेन कृतं कर्म तव पुत्र्या नृपालक ॥ ३८ ॥
अतो मदीयसेवार्थं कन्यां देहि महामते ।
तदा सुखयुतं सर्वं भविष्यति न संशयः ॥ ३९ ॥
ततो राजा स्वयं भीतो ददौ कन्यां सुलोचनम् ।
तस्मै ससैन्यमादाय स्वपुरं प्रययौ मुदा ॥ ४० ॥
सुकन्या राजपुत्री सा पतिं प्राप्य महामुनिम् ।
च्यवनं सेवने सक्ता त्यक्त्वा देहभ्रमं बभौ ॥ ४१ ॥
ततः कदाचित्तत्रैवाऽश्विनौ तौ भिषजां वरौ ।
आगतौ मुनिशार्दूलं प्रणम्य च पुरः स्थितौ ॥ ४२ ॥
मुनिः प्रोवाच तौ तत्र मां च यौवनशालिनम् ।
कुरुतं भिषजां श्रेष्ठौ सनेत्रं परमाद्भुतम् ॥ ४३ ॥
ततस्तं मुनिशार्दूलमूचतुश्चाश्विनौ वचः ।
देवैः साकं यज्ञभुजौ कुर्वावां तपसो बलात् ॥ ४४ ॥
तथेति मुनिना प्रोक्तं सभार्यं मुनिसत्तमम् ।
गृहीत्वा चाश्विनौ कुण्डं ययतू रूपदं परम् ॥ ४५ ॥
तत्र स्नानं त्रयः कृत्वा पुनस्ते निःसृता बहिः ।
रूपलावण्यसंयुक्ताः कामदेवोपमा बभुः ॥ ४६ ॥
एकरूपधरान् दृष्ट्वा सुकन्या विस्मिताऽभवत् ।
नमोश्विभ्यां च मे भर्ता दातव्यो देवसत्तमौ ॥ ४७ ॥
तस्याः सतीस्वभावेन सन्तुष्टौ ददतुर्मुनिम् ।
च्यवनं तौ गतौ स्थानं मुनिश्च स्वस्थलं ययौ ॥ ४८ ॥
कदाचिन्नृपवर्यं तं शर्यातिं स्वाश्रमागतम् ।
सुकन्या तं पुरो दृष्ट्वा पितरं सस्वजे सती ॥ ४९ ॥
दृष्ट्वा मुनिवरं राजा यौवनस्थं महाद्युतिम् ।
पप्रच्छ तनयां वृत्तं तया सर्वं प्रकाशितम् ॥ ५० ॥
ततस्तं प्रणनामाथ नृपस्तेनाऽपि मानितः ।
यज्ञार्थं सहितं पुत्र्या गृहीत्वा च्यवनं ययौ ॥ ५१ ॥
शर्यातिर्यज्ञसम्भारांश्चक्रे वै हर्षितो भृशम् ।
आरेभे मुनिभिर्यज्ञं सर्वसम्पद्विराजितः ॥ ५२ ॥
तत्र देवा मुदा सर्वे ययुरप्सरसां गणाः ।
मुनयश्च महाभागा नानादिग्भ्यः समाययुः ॥ ५३ ॥
वर्णाः सर्वे तथा तत्र मानवानां समाययुः ।
द्रष्टुं प्रह्लादयज्ञं तमानन्देन समन्विताः ॥ ५४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्ड एकदन्तचरिते च्यवनतपोवर्णनं नामैकचत्वारिंशोऽध्यायः ॥
[[८९]]