॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
शापितो भृगुणाग्निश्च ययौ स्थानं निजं ततः ।
अंर्तधाय स्वमात्मानं स्थितः परमदुःखितः ॥ १ ॥
अग्निं विना च सर्वत्र हाहाकारो महानभूत् ।
मुनयः सहिता देवैर्ब्रह्माणं शरणं ययुः ॥ २ ॥
मुनय ऊचुः ।
शप्तोऽग्निर्भृगुणा स्वामिन्नन्तर्धाय ययौ स्वयम् ।
कर्महीना वयं नाथ वह्निहीना भवामहे ॥ ३ ॥
शरणं त्वां प्रपन्नाः स्मो रक्ष रक्ष पितामह ।
नोचेच्चराचरं सर्वं नश्यत्यत्र न संशयः ॥ ४ ॥
श्रुत्वा स वचनं तेषां तैः सहाऽग्निं ययौ विधिः ।
सान्त्वयामास तं वाक्यैर्वेदानां परमाद्भुतैः ॥ ५ ॥
ब्रह्मोवाच ।
अग्ने शृणु महाभाग वेदेषु कथितं महत् ।
सर्वभक्षः शुचिष्मान् वै तव नाम विनिश्चितम् ॥ ६ ॥
भृगोर्नैवापराधोऽस्ति भावि जातं न संशयः ।
मा कुरुष्व वृथा चिन्तां भव सौम्यो महामते ॥ ७ ॥
अतस्त्वं सर्वभक्षोऽपि पवित्रः परमो मतः ।
भक्षदोषविहीनस्त्वं भविताऽसि न संशयः ॥ ८ ॥
वचः श्रुत्वा चुकोपाऽग्निः प्रलयं कर्तुमुद्यतः ।
ज्वालाः सांवर्तिकाः क्रोधाच्चिक्षेप स चराचरे ॥ ९ ॥
ज्वालाभिर्दह्यमानास्ते ब्रह्माद्याः प्रययुस्ततः ।
गणेशं मनसा ध्यात्वा स्थिताऽभयसमन्विताः ॥ १० ॥
एतस्मिन्नन्तरे तत्रैकदन्तो ब्राह्मणोऽभवत् ।
आययावग्निसान्निध्ये तमुवाच हितं वचः ॥ ११ ॥
ब्राह्मण उवाच ।
अग्ने किं क्षुभितोऽत्यन्तं हरसि त्वं कथं जगत् ।
अकाले क्रोधसंयुक्तो न स्मृतस्ते विनायकः ॥ १२ ॥
स्वातन्त्र्यं पश्य यत्रास्ति मा गर्वं कुरु देवप ।
विनायकं परित्यज्य स्वातन्त्र्यं न भवेद्यतः ॥ १३ ॥
एवमुक्तोऽपि तं विप्रं ददाह स्वीयतेजसा ।
प्रहस्य स मुनीन्द्रोऽसावुवाच गणनायकः ॥ १४ ॥
शलाकां चन् महावह्ने दहसि त्वं स्वसत्तया ।
मया दत्तां स्वसामर्थ्यात्तदैवं सचराचरम् ॥ १५ ॥
एवमुक्त्वा शलाकां स तत्र चिक्षेप भूसुरः ।
न तां शक्तो दाहयितुं जातो वह्निः स्वसत्तया ॥ १६ ॥
ततस्तं प्रणनामाथ गतगर्वो हुताशनः ।
को विनायकनामा वै सर्वेषां नायकः स्मृतः ॥ १७ ॥
वद मे करुणासिन्धो तं भजामि विशेषतः ।
त्वं कोऽसि विप्ररूपेण प्रमोहयसि मां प्रभो ॥ १८ ॥
शान्तमग्निमुवाचाऽथ विप्ररूपी गजाननः ।
बोधयन् हेतुगर्भाभिर्वाग्भिः सर्वार्थकोविदः ॥ १९ ॥
[[८५]]
विप्र उवाच ।
स्वानन्दवासिनं विद्धि विनायकमनामयम् ।
सर्वेषां नायकं पूर्णं नायकैर्वर्जितं परम् ॥ २० ॥
शान्तियोगेन शान्तिज्ञास्तं भजन्ते द्विजोत्तमाः ।
तं योगं तेऽभिधास्यामि शृणुष्वैकमनाः प्रभो ॥ २१ ॥
एकानेकादिभेदैश्च संयुक्तः प्रणवः स्मृतः ।
सम्प्रज्ञातसमाधिं तं विद्धि वह्ने महाद्युते ॥ २२ ॥
संयोगायोगभेदैश्च संयुक्तं ब्रह्म यत् स्मृतम् ।
असम्प्रज्ञातरूपस्थं विद्धि तद्योगसेवया ॥ २३ ॥
सम्प्रज्ञातासम्प्रज्ञातयोगे वै शान्तिदायकः ।
शान्तियोगः समाख्यातो गाणेशो हव्यवाहन ॥ २४ ॥
गणाः समूहरूपाश्च तेषां स्वामी गजाननः ।
तं भजस्व महातेजो वह्ने भक्तिसमन्वितः ॥ २५ ॥
एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परम् ।
विधियुक्तं स दैत्येन्द्र गाणेशं सर्वसिद्धिदम् ॥ २६ ॥
दर्शयामास रूपं स्वं त्यक्त्वा ब्राह्मणरूपकम् ।
गजाननादि चिह्नैश्च चिह्नितं भक्तपालकम् ॥ २७ ॥
तं दृष्ट्वा निपपातोर्व्यां वह्निर्हर्षसमन्वितः ।
तावदन्तर्हितं रूपं ततः खिन्नोऽभवच्छुचिः ॥ २८ ॥
स्वर्गं त्यक्त्वा वनं वह्निर्ययौ योगविधित्सया ।
समाधिना तपस्तेपे गणेशप्राप्तिहेतवे ॥ २९ ॥
दिव्यवर्षशतेनैव तं ययौ भक्तवत्सलः ।
गजाननः प्रसन्नात्मा परमात्मा परात्परः ॥ ३० ॥
दृष्ट्वाग्निं तपसा युक्तं स्वभक्तं प्रत्युवाच ह ।
वरं वृणु महाभाग तुष्टोऽहं तपसा च ते ॥ ३१ ॥
गृत्समद उवाच ।
गणेशवचनं रम्यं श्रुत्वा हर्षसमन्वितः ।
ननाम दण्डवद्भूमौ भावयुक्तेन चेतसा ॥ ३२ ॥
पूजयित्वा यथान्यायं तुष्टाव स कृताञ्जलिः ।
हव्यवाहः प्रसन्नात्मा गणेशं योगशान्तिदम् ॥ ३३ ॥
अग्निरुवाच ।
नमस्ते विघ्ननाशाय भक्तानां हितकारक ।
नमस्ते विघ्नकर्त्रे वै ह्यभक्तानां विनायक ॥ ३४ ॥
नमो मूषकवाहाय गजवक्त्राय धीमते ।
आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे ॥ ३५ ॥
चतुर्भुजधरायैव चतुर्वर्गप्रदायिने ।
एकदन्ताय वै तुभ्यं हेरम्बाय नमो नमः ॥ ३६ ॥
लम्बोदराय देवाय गजकर्णाय ढुण्ढये ।
योगशान्तिस्वरूपाय योगशान्तिप्रदायिने ॥ ३७ ॥
योगिभ्यो योगदात्रे च योगिनां पतये नमः ।
चराचरमयायैव प्रणवाकृतिधारिणे ॥ ३८ ॥
सिद्धिबुद्धिमयायैव सिद्धिबुद्धिप्रदायक ।
सिद्धिबुद्धिपते तुभ्यं नमो भक्तप्रियाय च ॥ ३९ ॥
अनन्तानन देवेश प्रसीद करुणानिधे ।
दासोऽहं ते गणाध्यक्ष मां पालय विशेषतः ॥ ४० ॥
धन्योऽहं सर्वदेवेषु दृष्ट्वा पादं विनायक ।
कृतकृत्यो महायोगी ब्रह्मभूतो न संशयः ॥ ४१ ॥
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा मां शापहीनं त्वं कुरु देवेन्द्रसत्तम ॥ ४२ ॥
तव भक्तिं दृढां देहि यया मोहो विनश्यति ।
तव भक्तैः सहावासो ममास्तु गणनायक ॥ ४३ ॥
यदा सङ्कटसंयुक्तस्तदा स्मरणतस्तव ।
निःसङ्कटोऽहमत्यन्तं भवामि त्वत्प्रसादतः ॥ ४४ ॥
एवमुक्त्वा गणाधीशं प्रणतो भक्तिसंयुतः ।
तमुवाच गणाध्यक्षो भक्तवत्सलभावतः ॥ ४५ ॥
गणेश उवाच ।
त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् ।
भविष्यति नृणां चैव शृण्वतां पठतां सदा ॥ ४६ ॥
यं यं चिन्तयसे कामं तं तं दास्यामि शाश्वतम् ।
भक्तिभावेन सन्तुष्टो भृशं स्तोत्रेण संस्थितः ॥ ४७ ॥
मदीया भक्तिरचला भविष्यति सदाऽनघ ।
सङ्कटं स्मरणेनैव मदीयेन विनश्यति ॥ ४८ ॥
भृगुर्मम विशेषेण भक्तोऽसौ शान्तियोगधृक् ।
तस्यापि वचनं मिथ्या न करोमि कदाचन ॥ ४९ ॥
यद्यपि त्वं सर्वभक्षः पवित्रो भविता सदा ।
पूर्ववत् सर्वमान्यं त्वां करिष्यन्ति द्विजादयः ॥ ५० ॥
सर्वभक्षे च ते दुःखं हरामि शृणु मे वचः ।
प्राप्तं शुभाशुभं तत्रामृतभुक्त्वं भविष्यसि ॥ ५१ ॥
सर्वभक्षणरूपा ये विकारा न भवन्ति ते ।
अमृताशी मया तत्र त्वं कृतोऽसि न संशयः ॥ ५२ ॥
एवमुक्त्वा गणाधीशोऽन्तर्धानमगमत् स्वयम् ।
वह्निहर्षसमायुक्तः स्वगृहं प्रत्यपद्यत ॥ ५३ ॥
तदहाद्दहनो दैत्य सर्वभक्षो बभूव ह ।
शुचिश्चामृतभुग् देवो योगशान्तिधरः स्वयम् ॥ ५४ ॥
गाणपत्यस्वभावेनाभजत्तं गणनायकम् ।
गणेशभक्तसङ्गेषु निरतः सोऽसुरेश्वर ॥ ५५ ॥
एतदग्नेश्च माहात्म्यं यः शृणोति नरोत्तमः ।
पठेद्वा भविता तस्य कामोप्यत्यन्तदुर्लभः ॥ ५६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते अग्निमाहात्म्यं नाम चत्वारिंशोऽध्यायः ॥