३९ च्यवनोत्पत्तिकथनम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

ततो दैत्यपदे राजा प्रह्लादो वैष्णवोऽभवत् ।
स तु वैरं समुत्सृज्य देवैः सम्मानितो बभौ ॥ १ ॥

गते कियति काले च गृहे तस्य महात्मनः ।
विधाता दैत्यराजस्याययौ प्रीत्या प्रजापते ॥ २ ॥

स तु दुष्टैर्महादैत्यैः क्रमेण भ्रंशितोऽसुरः ।
संसर्गदोषयुक्तोभून्न तं मेने पितामहम् ॥ ३ ॥

क्रोधेन विधिना तत्र शप्तोऽसौ वैष्णवाधमः ।
ज्ञानं प्रह्लाद नष्टं च त्वदीयं प्रभविष्यति ॥ ४ ॥

प्रह्लादमेवं शप्त्वा स ययौ स्थानं निजं विधिः ।
प्रह्लादश्च तथा दैत्यैर्देवानां हनने रतः ॥ ५ ॥

न मेने मनसा विष्णुं शम्भुं वामरनायकम् ।
जित्वा देवान् समस्तान् स राज्यं चक्रेऽसुराधिपः ॥ ६ ॥

प्रह्लादः स ततो देवैर्मित्रभावेन धारितः ।
सहनं कृतमत्यन्तं तद्दौरात्म्यस्य चादरात् ॥ ७ ॥

देवैर्विष्णुसहायैश्च कालेन विजिता बलात् ।
दैत्याः प्रह्लादमत्यन्तं संरक्ष्य सुरनायकैः ॥ ८ ॥

स्वराज्ये संस्थितं दैत्यं प्रह्लादं च महामुनिः ।
भ्रमन् समाययौ द्रष्टुं शक्तो गृत्समदो महान् ॥ ९ ॥

तं दृष्ट्वा दैत्यराजः स प्रणनाम महायशाः ।
स्वासने तं समावेश्य पूजयामास भक्तितः ॥ १० ॥

भक्तो मुनिवरं दैत्यः पादसंवाहने स्थितः ।
उवाच मधुरं वाक्यं प्रह्लादो हर्षसंयुतः ॥ ११ ॥

प्रल्हाद उवाच ।

धन्यं मेऽद्य कुलं ज्ञानं विद्या दानादिकं च यत् ।
तवाङ्घ्रियुगुलं दृष्ट्वा पवित्रो नात्र संशयः ॥ १२ ॥

मुने योगीन्द्रमुख्यस्त्वं तव दर्शनमुत्तमम् ।
न भवेत् पापकाराणां भुक्तिमुक्तिक्रमप्रदम् ॥ १३ ॥

अहं शप्तश्च योगीन्द्र विधिना तेन मोहितः ।
असुरैः संवृतोऽत्यन्तं दुष्टकर्मरतोऽभवम् ॥ १४ ॥

स्त्रीमद्यादिरतो नित्यं ज्ञानहीनो निरन्तरम् ।
देवानां द्वेषबुद्ध्या वै छेदने प्रयतोऽभवम् ॥ १५ ॥

अधुना पादपद्मस्य दर्शनेन महामुने ।
ज्ञानस्य स्फूर्तिरल्पा मे सञ्जाता नात्र संशयः ॥ १६ ॥

पूर्वपुण्यबलेनैव जातं ते दर्शनं महत् ।
आसुरी प्रकृतिर्मेऽद्य गता तेन महामुने ॥ १७ ॥

वद ज्ञानं महायोगिंस्तारयस्व भवार्णवात् ।
मां वै शरणार्थिनं विप्र शिष्यं ते च जगद्गुरो ॥ १८ ॥

मुद्गल उवाच ।

एवं सम्प्रार्थितो दक्ष मुनिर्गृत्समदो महान् ।
कृपया परयाऽऽविष्टस्तमुवाच विशेषतः ॥ १९ ॥

गृत्समद उवाच ।

शृणु प्रह्लाद वक्ष्यामि ज्ञानं शान्तिसुखप्रदम् ।
गणनाथं भजस्व त्वं विघ्नहीनो भविष्यसि ॥ २० ॥

मदासुरश्च दैत्येशो हृदये ते प्रतापवान् ।
आसुरेण स्वभावेन संस्थितो ज्ञानखण्डकः ॥ २१ ॥

अतस्तमेकदन्तस्य भजनेन जहि प्रभो ।
तदा ज्ञानं दृढं ते वै हृदये संस्थितं भवेत् ॥ २२ ॥

इति तस्य वचः श्रुत्वा प्रह्लादस्तं पुनर्जगौ ।
कोऽसौ मदासुरः पापी हृदये तिष्ठति प्रभो ॥ २३ ॥

एकदन्तस्य भजनं कीदृशं वद साम्प्रतम् ।
मदासुरस्य हन्ताऽसौ कथं जातो गजाननः ॥ २४ ॥

एतत्सर्वं सुविस्तार्य वद मह्यं प्रयाचते ।
शिष्याय सकलं विप्र येन ज्ञानं दृढं भवेत् ॥ २५ ॥

[[८३]]

मुद्गल उवाच ।

प्रह्लादस्य वचः श्रुत्वा मुनिर्गृत्समदोऽब्रवीत् ।
मदासुरस्य माहात्म्यमेकदन्ताश्रितं प्रभो ॥ २६ ॥

गृत्समद उवाच ।

शृणु प्रह्लाद यत् पृष्टं तत्सर्वं कथयामि ते ।
चरित्रमेकदन्तस्य सर्वसिद्धिप्रदायकम् ॥ २७ ॥

एकदा राक्षसः कश्चिद्ययौ भृग्वाश्रमं महान् ।
महाखलश्छिद्रदर्शी समिदर्थं गते मुनौ ॥ २८ ॥

स तत्रैकाकिनीं वीक्ष्य भृगुपत्नीं वचोऽब्रवीत् ।
सुलोमा किं भृगोः पत्नी त्वं हि मां वद साम्प्रतम् ॥ २९ ॥

मह्यं कन्यां महीपालो दातुं स ह्युद्यतोऽभवत् ।
एतस्मिन्नन्तरे कन्या याचिता भृगुणाऽभवत् ॥ ३० ॥

मां त्यक्त्वा भृगवे कन्या दत्ता तेन महीभृता ।
तस्माद्भृगोर्हरिष्यामि भार्यां चाऽहं न संशयः ॥ ३१ ॥

तस्य तद्वचनं क्रूरं श्रुत्वा तूष्णीं बभूव ह ।
सुलोमा सा भृगोः पत्नी ततः सोऽप्यग्निमब्रवीत् ॥ ३२ ॥

राक्षस उवाच ।

अग्ने वद महाभाग त्वं साक्षी सर्वसम्मतः ।
इयं पत्नी भृगोः किं वान्यस्य सत्यं महाद्युते ॥ ३३ ॥

राक्षसस्य वचः श्रुत्वा न किञ्चित्तं वचोऽब्रवीत् ।
उत्तरं शापभीतोऽसौ हव्यवाहः प्रतापवान् ॥ ३४ ॥

पुनस्तेन च सम्पृष्टोऽग्निर्नोवाच सुदुर्मतिम् ।
पुनः पृष्टस्तथाग्निस्तमुवाच भयसङ्कुलः ॥ ३५ ॥

अजानता नरः पृष्टः संशये प्रसमुद्यते ।
कथयेत्तं न पापीयान् भवेद्वै सोऽपि निश्चितम् ॥ ३६ ॥

अतोऽहं कथयिष्यामि सत्यं तुभ्यं न संशयः ।
आदौ राज्ञा च सन्दातुं कथिता राक्षसाय सा ॥ ३७ ॥

अतस्त्वं राक्षसो भागी मतः शास्त्रे न संशयः ।
तवाग्रे कथितं चेन्मे पापं न स्यात् कदाचन ॥ ३८ ॥

अतः कन्यां प्रदातुं वै नराय दृढनिश्चयः ।
न कर्तव्योऽसुरेश त्वं विचारय महामते ॥ ३९ ॥

यदि दातुं कृता कन्या कस्मैचिन्निश्चिता भवेत् ।
तस्मै सा वै प्रदातव्याऽन्यथा दोषी भवेन्नरः ॥ ४० ॥

आशाभङ्गमयं पापं सम्प्राप्तं तस्य दैत्यप ।
न कन्या दृष्यते तत्रान्यस्मै दत्ता नराय चेत् ॥ ४१ ॥

ततस्तं राक्षसं क्रूरमूचे वै हव्यवाहनः ।
पत्नी भृगोरियं साधो मा गृह्णीष्व परस्त्रियम् ॥ ४२ ॥

अग्नेर्वचनमाकर्ण्य गृहीत्वा राक्षसो ययौ ।
अन्तर्वत्नीं रुदन्तीं च मूर्च्छितां स विहायसा ॥ ४३ ॥

तस्यामुदरवासी च भृगोस्तेजोधरो मुनिः ।
कुपितो राक्षसं हन्तुं च्युतो वै जठरात् स्वयम् ॥ ४४ ॥

तस्य क्रोधानलेनैव भस्मसादभवत्क्षणात् ।
राक्षसः सोऽपि सङ्गृह्य पुत्रं स्वगृहमाययौ ॥ ४५ ॥

दुःखिता रुदती देवी सुलोमा भयविह्वला ।
वनाद् भृगुः समायातस्तस्मिन् काले प्रतापवान् ॥ ४६ ॥

रुदन्त्या कथितस्तस्मै वृत्तान्तो मुनिभायर्या ।
तं श्रुत्वा कुपितो योगी साक्षाद्रुद्रइवाऽपरः ॥ ४७ ॥

उवाच कोपरक्ताक्षोऽग्ने त्वं शप्तो मयाऽधुना ।
सर्वभक्षो भवाऽज्ञानी दुष्टकर्मपरायण ॥ ४८ ॥

एवं शप्त्वा महादेवं भृगुरग्निं स्वयं मुनिः ।
सुलोमां सान्त्वयामास पुत्रं स्वं प्रशशंस ह ॥ ४९ ॥

उदरात्तु च्युतः क्रोधाच्च्यवनो नाम सत्तमः ।
तेनाऽयं भविता पुत्रो मदीयो मातृपालकः ॥ ५० ॥

सुखेन स्वाश्रमे योगी भृगुः परमतत्त्ववित् ।
पत्न्या पुत्रेण संयुक्तः स्थितो गणपतिं स्मरन् ॥ ५१ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते च्यवनोत्पत्तिकथनं नामैकोनचत्वारिंशोऽध्यायः ॥