॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
हिरण्यकशिपौ नष्टे हिरण्याक्षं च दैत्यपाः ।
राजानं कारयामासुः सोऽपि चक्रे तथाऽखिलम् ॥ १ ॥
भ्रातुर्वधेन सन्तप्तो देवान् जित्वा महाबलः ।
तेषां मूलविनाशार्थं मतिं चक्रे च दैत्यपः ॥ २ ॥
तत्र तेन विचारेण सम्प्राप्तं ज्ञानमुत्तमम् ।
कर्मनाशे च देवानां मरणं प्रभविष्यति ॥ ३ ॥
कर्मरूपमयं तेषाममृतं नात्र संशयः ।
अन्ने नष्टे कथं देवाः स्थास्यन्ति तनुधारकाः ॥ ४ ॥
कर्ममूलमयीं भूमिं प्रगृह्य प्रययौ खलः ।
पातालं दैत्यराजस्तु खेलयन् स्वेच्छया स्वयम् ॥ ५ ॥
देवाश्च मुनयो जग्मुस्ततः सर्वे प्रजापतिम् ।
नष्टे चराचरे भूम्यां शशंसुर्दैत्यचेष्टितम् ॥ ६ ॥
ब्रह्मणा नोदिताः सर्वे वैकुण्ठं जग्मुरादरात् ।
तुष्टुवुस्तं रमानाथं शशंसुश्चेष्टितं महत् ॥ ७ ॥
ततः सोऽपि दयायुक्तः सौकरं रूपमास्थितः ।
कैलासे गणपं चेष्ट्वा ययौ पातालमोजसा ॥ ८ ॥
तत्र दंष्ट्राग्रसंयुक्तां पृथ्वीं कृत्वा बहिः प्रभुः ।
निर्ययौ तं हिरण्याक्षो योद्धुकामः समाययौ ॥ ९ ॥
ततो युद्धं महाघोरं तयोर्जातं प्रजापते ।
शुष्कार्द्रदंष्ट्रया दुष्टं सन्ध्याकाले जघान सः ॥ १० ॥
ममार सहसा दैत्यो वराहो धरणीसुतः ।
निर्गत्य स्थापयामास पृथ्वीं पूर्ववदच्युतः ॥ ११ ॥
संस्थाप्य पृथ्वीं वाराहो मयूरेशं समाययौ ।
अक्षरब्रह्मरूपश्च सर्वेभ्यो ज्ञानदायकः ॥ १२ ॥
स्त्रीस्वरूपेण पृथिवी पत्नीभावेन तं ययौ ।
कर्ममूलमयी प्रोक्ताऽक्षराधारा सुखप्रदा ॥ १३ ॥
तत्रानुष्ठानमत्यन्तं चक्रतुर्भक्तितत्परौ ।
दृढवाससुसिद्ध्यर्थं क्षेत्रे स्वानन्दरूपिणि ॥ १४ ॥
प्रसन्नो भगवांस्तत्र गणेशो देवनायकः ।
वरदस्तौ ययौ प्रीत्योवाच संवृणुतं वरम् ॥ १५ ॥
ततस्ताभ्यां प्रणम्यादौ पूजितो गणनायकः ।
नामाष्टकेन साम्ना वै संस्तुतो भक्तिभावितः ॥ १६ ॥
वरं तौ वृणुतां क्षेत्रे स्वानन्दे देहि विघ्नप ।
वासं भक्तिसुसिद्ध्यर्थं ब्रह्मभूतसुखप्रदे ॥ १७ ॥
तयोर्वचनमाकर्ण्य गणेशः कृपया युतः ।
भक्तिं ज्ञात्वा महोग्रां वै सूर्यं प्रोवाच हर्षितः ॥ १८ ॥
गणेश उवाच ।
शुक्लगत्यात्मकं द्वारं त्वदीयं मुक्तिदं परम् ।
तत्र पृथ्वी वराहौ च तवाङ्गे कुरु मानद ॥ १९ ॥
तथेति कृतवान् सूर्यः संस्थितौ द्वारि तावुभौ ।
उत्तराङ्गं गणेशस्याश्रित्य पूजां प्रचक्रतुः ॥ २० ॥
इदं वराहरूपस्य माहात्म्यं कथितं मया ।
श्रवणात् पठनात् सर्वमुक्तिदं प्रभवेन्नृणाम् ॥ २१ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते वाराहमाहात्म्यं नामाष्टत्रिंशोऽध्यायः ॥
[[८२]]