३७ नृसिंहमाहात्म्यम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

दितेः पुत्रौ महावीर्यो कश्यपात् सम्बभूवतुः ।
सन्ध्यायामृतुदानेन दैत्यौ परमदारुणौ ॥ १ ॥

ताभ्यां तप्तं तपो घोरं दिव्यवर्षसहस्रकम् ।
तयोस्तपःप्रभावेण ब्रह्मा तु वरदोऽभवत् ॥ २ ॥

मरणं सर्वभूतेभ्यो न भवेदीप्सितं वरम् ।
ताभ्यां दत्त्वा स्वयं ब्रह्मा स्वस्थानमगमत् पुनः ॥ ३ ॥

सायङ्कालं च शुष्कार्द्रं विस्मरन्तौ महासुरौ ।
तदेव मरणस्थानं तयोर्जातं प्रजापते ॥ ४ ॥

वरप्रभावतस्ताभ्यां सर्वं त्रिभुवनं जितम् ।
हिरण्यकशिपुर्ज्येष्ठश्चक्रे वै राज्यमुत्तमम् ॥ ५ ॥

कर्ममार्गं द्विषन् सर्वं देवब्राह्मणदुःखदः ।
राज्यं चक्रे सुदुष्टा?त्मा परस्त्रीमद्यलालसः ॥ ६ ॥

उपोषणेन संयुक्ता देवा इन्द्रपुरोगमाः ।
ब्रह्माणं ते पुरस्कृत्य शरण्यं विष्णुमाययुः ॥ ७ ॥

ततश्च विष्णुना तत्र धृतं रूपं भयप्रदम् ।
नारसिंहं महोग्रं वै सर्वेभ्यो भयदायकम् ॥ ८ ॥

आययौ दैत्यराजस्य नगरे क्रोधसंयुतः ।
शब्दैः ?सभुवनं घोरैर्नादयामास तत्क्षणात् ॥ ९ ॥

भीता दैत्यगणाः सर्वे शशंसुस्तस्य चेष्टितम् ।
राज्ञे श्रुत्वा वचस्तेषां हिरण्यकशिपुः स्वयम् ॥ १० ॥

दैत्यैः समावृतो योद्धुं ययौ तेन महाबलः ।
क्रूरः समागतः सोऽपि नृसिंहाकृतिधारकः ॥ ११ ॥

मेरुमन्दरसङ्काशं वपुर्यस्य विराजितम् ।
तेजसा वह्निसङ्काशो योद्धुकामो सुरैः प्रभो ॥ १२ ॥

प्रह्लादप्रमुखैः पुत्रैः संवृतो दैत्यसत्तमः ।
नृसिंहं योधयामास शस्त्रास्त्रैर्मर्मभेदिभिः ॥ १३ ॥

नृसिंहेन हता दैत्या बहवो रणमण्डले ।
शोणितौघवहा नद्यः सम्प्रवृत्ता दिशो दश ॥ १४ ॥

खड्गादिभिर्महास्त्रैश्च नखैर्युक्तः स देवराट् ।
नृसिंहो युयुधे तत्र प्रलयाग्निसमो बभौ ॥ १५ ॥

तं दृष्ट्वा पूर्वसंस्कारात् प्रह्लादस्य महात्मनः ।
वैष्णवं ज्ञानमत्यन्तं प्रादुर्भूतं विशेषतः ॥ १६ ॥

एतस्मिन्नन्तरे तत्र गदया ताडितः प्रभुः ।
नृसिंहो दैत्यराजेन पतितो मूर्च्छया भृशम् ॥ १७ ॥

द्विमुहूर्तात् सुसम्भूतः स्वस्थदेहो महाबलः ।
अशक्तं मानयामासात्मानं तेन पलायत ॥ १८ ॥

हिरण्यकशिपुः सर्वैर्विजयी स्वगृहं ययौ ।
चकार विष्णुभक्तिं वै प्रह्लादो भावसंयुतः ॥ १९ ॥

पितरं बोधयामास विष्णुमानन्दरूपिणम् ।
शरणं याहि सर्वत्र समं दैत्यपतेऽधुना ॥ २० ॥

पुत्रस्य वचनं श्रुत्वा क्रोधाविष्टो महासुरः ।
मुष्टिना ताडयामासं शत्रु मे किं समाश्रितः ॥ २१ ॥

तदाऽपि दृढभावेन न चचाल स वैष्णवः ।
प्रह्लादश्चाधिकां भक्तिं चकार प्रेमसंयुतः ॥ २२ ॥

ततो जले स्थले ह्यग्नौ हिरण्यकशिपुः स्वयम् ।
विषैः सोऽपीडयत्पुत्रं निष्फलो विष्णुना कृतः ॥ २३ ॥

शस्त्रैरस्त्रादिभिः पुत्रमारणाय समुद्यतः ।
प्रह्लादो न ममाराऽसौ रक्षितो विष्णुना सदा ॥ २४ ॥

एवं पितुः सुतस्याऽपि द्वन्द्वे प्राप्त प्रजापते ।
काले क्रान्ते तु किञ्चिद्वै नृसिंहचरितं शृणु ॥ २५ ॥

वैकुण्ठे सुखमासीनं नारायणमनामयम् ।
ययौ तत्र नृसिंहस्तं प्रणनाम भयातुरः ॥ २६ ॥

वृत्तान्तं नृहरेस्तस्य श्रुत्वा सोऽपि सुविस्मितः ।
कारणं चिन्तयामास विचारेण जनार्दनः ॥ २७ ॥

गणेशं वै विस्मृतवान् ततो दैत्यो न निर्जितः ।
अष्टाक्षरं गणेशस्य मन्त्रं तस्मै ददौ स्वयम् ॥ २८ ॥

वने सोऽपि समासीनस्तताप परमं तपः ।
निराहारेण संयुक्तोऽध्यायत्तं गणपं हृदि ॥ २९ ॥

एकवर्षे गते तत्र ययौ विघ्नपतिः स्वयम् ।
वरेण च्छन्दयामास नृसिंहं भक्तमुत्तमम् ॥ ३० ॥

प्रणम्यापूज्य विघ्नेशं परमेशं कृताञ्जलिः ।
सूक्तैर्गाणेशसञ्ज्ञैस्तं तुष्टाव नृहरिः स्वयम् ॥ ३१ ॥

ययाचे देवदेवेशं भक्तिं ते देहि विघ्नप ।
जयं दैत्यरणे स्वामिंस्तथेति गणपोऽब्रवीत् ॥ ३२ ॥

अन्तर्धानं गतः सद्यो गणेशो भक्तपालकः ।
नृसिंहो हर्षसंयुक्तो दैत्यं हन्तुं ययौ ततः ॥ ३३ ॥

एतस्मिन्नन्तरे दक्ष हिरण्यकशिपुः स्वयम् ।
प्रह्लादं हन्तुमारेभे स्वयं खड्गधरोऽभवत् ॥ ३४ ॥

प्रह्लादेन स्मृतो विष्णुः प्रकटोऽभूत्तदन्तरे ।
नृसिंहः कालरूपश्च तलेनाऽताडयत् खलम् ॥ ३५ ॥

मूर्च्छितो दैत्यराजस्तु लेभे सञ्ज्ञां महाबलः ।
गदां धृत्वा नृसिंहं तं युयुधे सैनिकैः सह ॥ ३६ ॥

नृसिंहाङ्गात् समुद्भूता नृसिंहा बहवस्ततः ।
सैन्यं तन्नाशयामासुर्हिरण्यकशिपोः परम् ॥ ३७ ॥

ततः क्रोधपरीताङ्गः सायङ्काले दितेः सुतम् ।
धृत्वा नखैर्महादैत्यं दारयामास केशवः ॥ ३८ ॥

न शुष्कार्द्रमयैः स्वस्य नखैस्तेन विदारितः ।
ममार दैत्यराजोऽपि देवास्तं तुष्टुवुर्हरिम् ॥ ३९ ॥

स्तुतः सम्पूजितो विष्णुर्नृसिंहो गणपं स्मरन् ।
अन्तर्धानं ययौ सद्यो देवास्ते स्वपदं ययुः ॥ ४० ॥

इदं नरहरेः प्रोक्तं माहात्म्यं यः शृणोति वा ।
पठति प्रभवेत्तस्य सर्वदं नात्र संशयः ॥ ४१ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते नृसिंहमाहात्म्यं नाम सप्तत्रिंशोऽध्यायः ॥

[[८१]]