॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
त्रयः पुत्रा अङ्गिरसो बभूवुर्ब्रह्मवादिनः ।
गाणपत्या महाभागाः सर्वज्ञाः सुखदायिनः ॥ १ ॥
उतथ्यः प्रथमः प्रोक्तो द्वितीयस्तु बृहस्पतिः ।
संवर्तश्च तृतीयोऽभूद्योगशास्त्रपरायणः ॥ २ ॥
शिक्षितोङ्गिरसा पुत्र उतथ्यः स्वल्पकालतः ।
ब्रह्मभूतोऽभवत्सद्यो गाणपत्यो विशेषवित् ॥ ३ ॥
बृहस्पतिः क्रमेणैव योगभूमिविशारदः ।
भूमीनां साधने सक्तोऽभवच्छैवः स्वभावतः ॥ ४ ॥
तत्र स्वाधीनतां दृष्ट्वा शान्त्यर्थं शङ्करं ययौ ।
शिवेन गणराजस्य मन्त्रो दत्तः षडक्षरः ॥ ५ ॥
शान्तियोगस्य रूपं यत् कथितं तत् प्रविस्तरात् ।
शिवं नत्वा वनं सोऽपि ययौ दक्षबृहस्पतिः ॥ ६ ॥
स नित्यं गणपं ध्यात्वाऽपूजयत्तं विधानतः ।
दर्शनार्थं गणेशस्य लालसाभून्महामतेः ॥ ७ ॥
योगमार्गेण योगी स जातः शान्तिधरः स्वयम् ।
गाणपत्यत्वमापन्नः शिवतुल्यो बृहस्पतिः ॥ ८ ॥
तुष्टस्तदा गणेशानो ययौ तस्याश्रमं प्रभुः ।
स्तुतः सम्पूजितस्तेन तुतोष गणनायकः ॥ ९ ॥
अखण्डभक्तिभावं स ददौ तस्मै महात्मने ।
अन्तर्धाय स्वमात्मानं गणेशः स्वालयं ययौ ॥ १० ॥
प्रकथ्यते महायोगी तदारभ्य बृहस्पतिः ।
ब्रह्मिष्ठानामयं श्रेष्ठो विभूतिपदमागतः ॥ ११ ॥
[[७६]]
संवर्तः प्रथमं योगी द्वेषितो वै विशेषतः ।
यत्र तत्र विभागार्थं गुरुणा भ्रातृभावतः ॥ १२ ॥
स संसारं परित्यज्य नग्न उन्मत्तवत् स्वयम् ।
सहजं ब्रह्म काशीस्थो ध्यायद्वै शाङ्करं सदा ॥ १३ ॥
ततः कदाचिद्राजेन्द्रो मरुत्तो यज्ञकाम्यया ।
उपाध्यायं ययौ राजा स्वर्गस्थं तं बृहस्पतिः ॥ १४ ॥
तद्वृत्तान्तं समादाय देवेन्द्रः प्राब्रवीद् गुरुम् ।
मत्स्पर्धिनं मरुत्तं मा यजस्व त्वं बृहस्पते ॥ १५ ॥
देवानां वा मनुष्याणामेकपक्षधरो भव ।
तस्यैव वचसा राजा त्यक्तः स गुरुणा महान् ॥ १६ ॥
मरुत्तं क्षुभितं ज्ञात्वा तं ययौ नारदो मुनिः ।
काश्यां संवर्तकं राजन्नानीय कुरु सद्गुरुम् ॥ १७ ॥
जडोन्मत्तस्वभावेन स तिष्ठति मुनीश्वरः ।
प्रातःकाले प्रणामार्थं शङ्करस्य च गच्छति ॥ १८ ॥
शवं तत्र समागृह्य तिष्ठ त्वं द्वारि भूमिपम् ।
विमुखश्चात्महीनं तं दृष्ट्वा गच्छति विप्रपः ॥ १९ ॥
एवमुक्त्वा गतो योगी नारदः सोऽपि हर्षितः ।
तथा चकार धर्मज्ञः काश्यां गत्वा नराधिपः ॥ २० ॥
दृष्ट्वा नग्नं ननामाऽसौ स्वगुरुं तत्र भूमिपः ।
छलितश्चेष्टया दक्ष न मुमोच तथाऽपि तम् ॥ २१ ॥
संवर्तस्तस्य वृत्तान्तं श्रुत्वा स्वयमुपागतः ।
यज्ञार्थं तस्य राजर्षेरुपाध्यायो बभूव ह ।
जीवेन तस्य वृत्तान्तो ज्ञातस्तेनापि भूमिपः ॥ २२ ॥
छलितोऽहं भविष्यामि गुरुस्ते त्यज मेऽनुजम् ॥ २३ ॥
मरुत्तेन त्वदीयं वै न गृहीतं वचस्तदा ।
गुरुणा प्रेरितो देव इन्द्रो वज्रं समाक्षिपत् ॥ २४ ॥
संवर्तेन च तद्वज्रं कृतं मोघं समाधिना ।
शरणं तद्भयादिन्द्रो ययौ देवगणैः स तम् ॥ २५ ॥
ततो देवगणैस्तेन मुनिभिः संस्कृतो मखः ।
समाप्य यज्ञमेतस्य संवर्तः स्वस्थलं ययौ ॥ २६ ॥
समाधितत्परत्वेन ज्ञातं तेनापि शाम्भवम् ।
स्वाधीनं तद्भवेन्मुख्यं ब्रह्मशान्तिप्रदं कदा ॥ २७ ॥
ययावङ्गिरसं प्रष्टुं तेन योगः प्रकाशितः ।
शान्तियोगमयः साक्षाद्गणेशः परमाद्भुतः ॥ २८ ॥
संवर्तेन तथा दक्ष साधितो योग उत्तमः ।
शान्तिरूपधरो योगी संवर्तः प्रबभूव ह ॥ २९ ॥
आगत्य संस्थितः सोऽपि क्षेत्रे स्वानन्दरूपिणि ।
मयूरेशं सदा तत्र सिषेवे भक्तितत्परः ॥ ३० ॥
तेषां पुत्रा महाभागा जाताः सर्वज्ञसम्मताः ।
क्रमेणान्ते च ते सर्वे गाणपत्या बभूविरे ॥ ३१ ॥
प्रोक्ता दीर्घतमस्काद्यास्तेषां पुत्रादिभिस्तथा ।
गणेशो मनसा भक्त्याऽखण्डभावेन सन्धृतः ॥ ३२ ॥
गौतमस्तत्र मुख्यश्च शान्तिमार्गपरायणः ।
विख्यातो मुनिवर्गेषु स बभूव प्रजापते ॥ ३३ ॥
कदाचित् पृथिवीमध्ये ह्यनावृष्टिः सुदारुणा ।
बभूव द्वादशाब्दान् या तया सम्पीडितं जगत् ॥ ३४ ॥
पीडां दृष्ट्वा जनानां स दयायुक्तो बभूव ह ।
गौतमं शङ्करं देवं वृष्टिहेतोर्नुनोद सः ॥ ३५ ॥
ततस्तं शङ्करः साक्षादवोचद् भक्तमुत्तमम् ।
अनावृष्टिः कृता मुख्या कालेन ब्रह्मरूपिणा ॥ ३६ ॥
[[७७]]
चालितुं न समर्थस्तं कोऽपि ब्रह्माण्डमण्डले ।
अतोभिमानमुत्सृज्य तिष्ठ त्वं मुनिसत्तम ॥ ३७ ॥
शिवस्य वचनं श्रुत्वा दुःखितस्तमुवाच ह ।
गौतमो मुनिवर्यश्च विस्मितोऽभूत् स मानसे ॥ ३८ ॥
गौतम उवाच ।
किमिदं नाथ वदसि त्वमीशः सर्वसम्मतः ।
कुरु मे वाञ्छितं नोचेद्देहत्यागं करोम्यहम् ॥ ३९ ॥
गौतमस्याभिमानं तं दृष्ट्वा शम्भुः सुविस्मितः ।
भावं ज्ञात्वा स्वयं प्राह गौतमं मुनिसत्तमम् ॥ ४० ॥
शृणु गौतम माहात्म्यं देहं त्यजसि वै वृथा ।
विनायकं भजस्व त्वं तेन सर्वं भविष्यति ॥ ४१ ॥
नायकेन विहीनोऽयं सर्वेषां स विशेषतः ।
नायकस्तेन नामाऽभूद्विनायक इति स्फुटम् ॥ ४२ ॥
वयं तदाज्ञया सर्वे वर्तेमहि न संशयः ।
गमनं वेदमार्गेणास्माकं सर्वत्र सम्मतम् ॥ ४३ ॥
उत्पथे गमनं नश्चेत्तदा विघ्नं करोति सः ।
अतस्त्वं विघ्नराजं च शरणं गच्छ गौतम ॥ ४४ ॥
एवमुक्त्वा महादेवो ददौ तस्मै षडक्षरम् ।
मन्त्रराजं गणेशस्य विधानं तस्य चोत्तमम् ॥ ४५ ॥
गौतमस्तं प्रणम्यादौ तपसे वनमाययौ ।
समाधिना महोग्रेण तोषयामास विघ्नपम् ॥ ४६ ॥
एवं वर्षेण तं ढुण्ढिर्ययौ दातुं वरं प्रभुः ।
तं दृष्ट्वा हर्षितोऽत्यन्तं ननाम मुनिसत्तमः ॥ ४७ ॥
अथर्वशिरसा तेन संस्तुतो गणनायकः ।
प्रसन्नस्तमुवाचैवं वचनं ब्रूहि वाञ्छितम् ॥ ४८ ॥
स वव्रे यदि तुष्टोऽसि भक्तिं देहि दृढां त्वयि ।
गाणपत्यं च सम्पूर्णं मां कुरुष्व गजानन ॥ ४९ ॥
अनावृष्टिभवं दुःखं जहि देव विनायक ।
एतमेव वरं याचे वाञ्छितं नात्र संशयः ॥ ५० ॥
तमुवाच गणाध्यक्षस्त्वयोक्तं मुनिसत्तम ।
तवाश्रमेऽधुना सर्वं भविष्यति न संशयः ॥ ५१ ॥
सायङ्काले च बीजेभ्यः क्षिप्तेभ्यो भूमिमण्डले ।
सस्यानां वै समुत्पत्तिः प्रातःकाले भविष्यति ॥ ५२ ॥
तैर्धान्यैर्नित्यमेव त्वं पोषयस्व महामुनीन् ।
समागतान् तथाभूतान् समये मुनिसत्तम ॥ ५३ ॥
नित्यं प्रमुदिताः सर्वे भविष्यन्ति तवाश्रमे ।
समागता नराः सर्वेऽनावृष्टेर्दुःखवर्जिताः ॥ ५४ ॥
मदीया भक्तिरचला भविष्यति तथा परा ।
योगशान्तिधरः पूर्णो भावी त्वं मत्प्रसादतः ॥ ५५ ॥
एवमुक्त्वा गणेशानो गतः स्वानन्दके पुरे ।
गौतमो गाणपत्यश्च तद्दिनात् सम्बभूव ह ॥ ५६ ॥
स मुनिः स्वाश्रमे गत्वा चकार गणपोदितम् ।
अनावृष्टिभवं दुःखं जनानां स निराकरोत् ॥ ५७ ॥
तत्रागतान् स्वयं विप्रान्नानादिग्भ्यः प्रजापते ।
तान् सर्वान् पोषयामास धान्यैर्नित्यसमुद्भवैः ॥ ५८ ॥
क्रमेण द्वादशाब्दास्ते गता वै दुस्तरा मुने ।
तत्र सर्वत्र सञ्जाता वृष्टिर्वै दुःखहारिणी ॥ ५९ ॥
ततो मुनिगणैः सर्वैर्विपरीतं विचारितम् ।
गौतमेन वयं सर्वे पोषिता नात्र संशयः ॥ ६० ॥
सर्वेषु गौतमो धन्यस्तदुत्कर्षो भविष्यति ।
अत उत्कर्षनाशार्थं कर्तव्यं किं द्विजोत्तमाः ॥ ६१ ॥
[[७८]]
ततस्तैर्मायया गौश्च कृत्वा गौतमसन्निधौ ।
प्रेषिता सा हुतद्रव्यं भक्षयामास वै मुनेः ॥ ६२ ॥
गौतमेन स्वहस्तेन ताडिता मृदुभावतः ।
स्पृष्टमात्रा ममाराऽसौ पतिता गौर्धरातले ॥ ६३ ॥
ततो हा हा कृतं सर्वैर्ब्राह्मणैश्छद्मदर्शिभिः ।
गौतमस्याश्रमे सर्वैरापृच्छ्य गमनं कृतम् ॥ ६४ ॥
गौतमेन तपः कृत्वा प्रार्थिता स्वर्गवाहिनी ।
त्र्यम्बकस्य शिरःसंस्था प्रादुर्भूता च तत्क्षणात् ॥ ६५ ॥
तत्र स्नानेन सद्यो वै पवित्रो गौतमोऽभवत् ।
गोवधादिमहापापं गच्छति स्नानमात्रतः ॥ ६६ ॥
ततः कदाचिद्विप्रेशो गौतमो ध्यानमाश्रितः ।
विचारमकरोच्चित्ते ज्ञात्वा तेषां विचेष्टितम् ॥ ६७ ॥
छलनार्थं द्विजैः सर्वैर्निर्मिता गौश्च मायया ।
ततः कोपपरीताङ्गः शशाप ब्राह्मणान् मुनिः ॥ ६८ ॥
वेदबाह्या भविष्यन्ति कृतघ्ना ये मर्हषयः ।
मदीयच्छलनेनैव पातकेन न संशयः ॥ ६९ ॥
ततस्ते शापयोगेन भ्रान्ता जाता महर्षयः ।
ज्ञात्वाऽकस्माद् द्विजाः शापं सम्भीता अभवंस्ततः ॥ ७० ॥
शङ्करं शरणं सर्वे ययुर्देवं महर्षयः ।
शङ्करः स्मरणं चक्रे विष्णोश्चैव सुविस्मितः ॥ ७१ ॥
समागतं महाविष्णुं पप्रच्छ द्विजसौख्यदम् ।
मार्गं ततो हरिः शम्भुमुवाच वचनं हितम् ॥ ७२ ॥
विष्णुरुवाच ।
वेदबाह्यद्विजानां यत्कर्म सर्वं निरर्थकम् ।
न गतिः कुत्र देहान्ते तेषां शम्भो न संशयः ॥ ७३ ॥
अतस्तेषां हितार्थाय ग्रन्थाः कार्याः सदाशिव ।
मोहदाश्च जनानां ते भजतां नरकप्रदाः ॥ ७४ ॥
ततः शिवेन वामं च तन्त्रं तत्र प्रकाशितम् ।
विष्णुना बौद्धशास्त्रं वै रचितं मोहदायकम् ॥ ७५ ॥
ऋषिभिश्च तथान्यानि शास्त्राणि रचितानि वै ।
कापालादीनि भो दक्ष मोहदानि विशेषतः ॥ ७६ ॥
फलानि तत्र दत्तानि भजतां शम्भुनामुना ।
विष्णुना ब्राह्मणानां च कृतघ्नानां हिताय वै ॥ ७७ ॥
नरा ये तानि सेवन्ते नारकाः सम्भवन्ति ते ।
इहामुत्र विहीनाश्च शास्त्राधारप्रवर्तिनः ॥ ७८ ॥
जनानां भजतां सर्वे पापांशास्ते महर्षयः ।
स्वल्पकालेन नष्टाः स्युः कलौ जन्मधरास्ततः ॥ ७९ ॥
तत्र ते पापकर्माणो भविष्यन्ति विशेषतः ।
तेषु मार्गेषु संसक्ताः प्रपतिष्यन्ति रौरवे ॥ ८० ॥
पुनः शुद्धा भविष्यन्ति नराः कृतयुगे प्रभो ।
तत्रैव योगमार्गेण गमिष्यन्त्यपुनर्भवम् ॥ ८१ ॥
एवं तेषां हितार्थाय शिवाद्यै रचितानि वै ।
शास्त्राणि चतुरैस्तानि न सेव्यानि कदाचन ॥ ८२ ॥
वेदाधारयुतं शास्त्रं तदेव सुखदं परम् ।
तेन हीनं च यच्छास्त्रं मोहकं नरकप्रदम् ॥ ८३ ॥
न सेव्यं मानवैः सर्वैः कलिदोषविवर्जितैः ।
युक्तं गौतमशापेन महाभयकरं मतम् ॥ ८४ ॥
कलौ पापा विभूमानो भविष्यन्ति महर्षयः ।
नरस्तैः कथितं शास्त्रं नवामादिकमाचरेत् ॥ ८५ ॥
[[७९]]
इदं गौतममाहात्म्यं यः शृणोति नरो भवेत् ।
पठेद्वा मलहीनः सन्निहामुत्र सुखी परम् ॥ ८६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते गौतमचरितं नाम षट्त्रिंशोऽध्यायः ॥