॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
व्यासस्याऽपि सुतो जज्ञे शुकः साक्षाच्छिवः स्वयम् ।
तपसाराधितस्तेन योगिनां स शिरोमणिः ॥ १ ॥
शुको गर्भाद्विनिःसृत्य सङ्गभीत्याऽपलायत ।
सङ्गेन ज्ञानभङ्गो वै जायते विषयात्मनाम् ॥ २ ॥
तं गच्छन्तं समालोक्य व्यासो वै धावितोऽभवत् ।
बोधयन् हेतुभिर्वाक्यैर्नानाक्रममयैः सुतम् ॥ ३ ॥
तिष्ठ तिष्ठ महायोगिन् शृणु मे परमं वचः ।
प्रथमं ब्रह्मचर्यं च ततो गार्हस्थ्यमञ्जसा ॥ ४ ॥
ततो वनाश्रमः प्रोक्तस्ततः सन्यास आदरात् ।
क्रमेण सेविता एते तदा योगः सुसिध्यति ॥ ५ ॥
अन्यथा सहसा कृत्वा योगभ्रष्टो नरो भवेत् ।
अथवा भ्रष्टभावेन नारकी धर्मनाशतः ॥ ६ ॥
अतो मनोजयार्थं त्वं क्रममार्गं समाचर ।
अन्ते योगीन्द्रसंसेव्यो भविष्यसि न संशयः ॥ ७ ॥
सहसा मा चर त्वं वै त्यागं परमदुस्तरम् ।
मनश्चञ्चलभावेन पतिष्यसि न संशयः ॥ ८ ॥
इत्याद्यैर्विविधैर्वाक्यैः सुतो व्यासेन बोधितः ।
सङ्गस्यैव भयाद्योगी न बुबोध शुको मुने ॥ ९ ॥
व्यासोऽपि भावि च ज्ञात्वा ययौ स्वस्याश्रमं स्वयम् ।
गणेशं मनसा ध्यात्वा संस्थितश्चिन्तयान्वितः ॥ १० ॥
एतस्मिन्नन्तरे तत्र ब्रह्मा स्वयमुपागतः ।
तं प्रणम्य शुकस्याऽपि वृत्तान्तमवदन्मुनिः ॥ ११ ॥
ततस्तं प्रत्युवाचाथ ब्रह्मा चिन्तां तु मा कुरु ।
शुको न भविता शम्भुर्भ्रष्टो वै नात्र संशयः ॥ १२ ॥
एवमाश्वास्य तं व्यासं तस्य पूजां प्रगृह्य सः ।
ययौ स्वभवनं ब्रह्मा व्यासो वै हर्षितोऽभवत् ॥ १३ ॥
शुकः स नर्मदातीरे संस्थितो योगसेवया ।
सर्वत्र ब्रह्मभावेनाचिन्तयद्ब्रह्म शाश्वतम् ॥ १४ ॥
सम्प्रज्ञातोऽष्टधा तेन साधितो वेदमार्गतः ।
असम्प्रज्ञातयोगेषु संस्थितो योगिसत्तमः ॥ १५ ॥
शुकेश्वरस्तत्र साक्षाच्छङ्करस्तिष्ठति प्रभुः ।
शिवेन हृदि संस्थेन बोधितो बादरायणिः ॥ १६ ॥
गुरुणा तेन हीनोऽयं शुको योगं समभ्यसत् ।
योगभूमिक्रमेणैवासाधयद्योगमुत्तमम् ॥ १७ ॥
स्वत उत्थानकं ब्रह्म साधयित्वा विधानतः ।
प्राप्तं परत उत्थानं तेन साङ्ख्यं महात्मना ॥ १८ ॥
तत्र ब्रह्मणि संसक्तो योगाभेदेन केवले ।
बभ्राम पृथिवीं सर्वां विदेहोऽसौ महामुनिः ॥ १९ ॥
ब्रह्म साङ्ख्यं निराधारं दृष्ट्वा संशयवानभूत् ।
तदर्थं जनकं सोऽपि ययौ हर्षसमन्वितम् ॥ २० ॥
जनकेन तथा साङ्ख्यं विदेहं कथितं परम् ।
ततः संशयहीनश्च जातो वैयासकिः प्रभुः ॥ २१ ॥
साङ्ख्ये बोधस्य नाशः स्यात्तत् दृष्ट्वा विस्मितो मुनिः ।
विचारमकरोच्चित्ते योगभावेन भावितः ॥ २२ ॥
बोधेनोत्थानकं जन्तोर्जायते नात्र संशयः ।
बोधहीनेन योगेनोत्थानं नास्य भवेत् कदा ॥ २३ ॥
ब्रह्म योगमयं प्रोक्तं तत्रोत्थानविहीनता ।
उत्थानं विद्यते नैव ब्रह्माकारं प्रवर्तते ॥ २४ ॥
साङ्ख्यं ब्रह्म विदेहत्वान्मतं चोपाधिवर्जितम् ।
न मुख्यं शान्तिदं प्रोक्तं योगीन्द्रैर्योगचिन्तकैः ॥ २५ ॥
व्यासेन वेदशाखाश्च कृता भिन्ना महात्मना ।
पुराणानि विभिन्नानि कृतानि समवेदिना ॥ २६ ॥
अहं तं शरणं यामि तातं शान्त्यर्थमादरात् ।
स एव सर्ववित् साक्षाच्छान्तिदाता भविष्यति ॥ २७ ॥
विचार्य मतिमानेवं शुको हर्षसमन्वितः ।
आगत्य निकटे तस्य तं ननाम कृताञ्जलिः ॥ २८ ॥
तत्र व्यासोऽपि योगिभ्यः प्रावदद्योगमुत्तमम् ।
तं श्रुत्वा हर्षितो भूत्वा शुको वच उवाच तम् ॥ २९ ॥
स्वामिञ्छृणु मदीयं वै प्रश्नं योगप्रसिद्धये ।
शान्तियोगस्य दाता कः कीदृशो योग उत्तमः ॥ ३० ॥
[[७५]]
वद मां करुणासिन्धो योगिभ्यो योगदायक ।
योगीन्द्रस्त्वं न सन्देहो भ्रान्त्याऽहं भ्रमितोऽभवम् ॥ ३१ ॥
शुकस्य वचनं श्रुत्वा तं व्यासः प्रत्युवाच ह ।
शृणुष्व त्वं महाभाग योगं शान्तिप्रदायकम् ॥ ३२ ॥
गणेशः शान्तिरूपश्च योगशान्तिप्रदायकः ।
तं भजस्व महायोगिन् तेन शान्तो भविष्यसि ॥ ३३ ॥
ब्रह्मणा बोधितोऽहं तं भजामि गणनायकम् ।
तेन सर्वज्ञतां यातो योगीन्द्रैः सेवितोऽभवम् ॥ ३४ ॥
गणो धातुः समूहे च कथितो नात्र संशयः ।
बाह्यान्तरादिसंयोगे समूहो भवति प्रभो ॥ ३५ ॥
ब्रह्मरूपाः समूहाश्च तेषां स्वामी गणेश्वरः ।
संयोगायोगयोगेन प्राप्यते योगिभिः परः ॥ ३६ ॥
एवमुक्त्वा गणेशस्य वेदपादस्तवं ददौ ।
रचितं विष्णुना पूर्वं शान्तियोगप्रदायकम् ॥ ३७ ॥
येन विष्णुः सुशान्तोऽभूदिहलोके सुखात्मकः ।
जातः पालकभावेन भगवन्नामधारकः ॥ ३८ ॥
प्रगृह्य साधयामास शुकस्तं परमाद्भुतम् ।
गाणपत्यो बभूवाथ योगिवन्द्यो महाद्युतिः ॥ ३९ ॥
नित्यं गणेशमाहात्म्यं वेदपादस्तवं शुकः ।
जपति स्नेहभावेन दिवानक्तमखण्डितम् ॥ ४० ॥
एतच्छुकस्य माहात्म्यं कथितं ते प्रजापते ।
पठते शृण्वते सर्वसुखदं प्रभवेत् परम् ॥ ४१ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते शुकोपाख्यानं नाम पञ्चत्रिंशोऽध्यायः ॥