३४ व्यासमाहात्म्यम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

पराशरस्य पुत्रोऽभूत् व्यासः साक्षाज्जनार्दनः ।
वेदादिभागसिद्ध्यर्थं देवैः सम्प्रार्थितः पुरा ॥ १ ॥

स एव ज्ञानगर्वेण न सस्मार गजाननम् ।
नमनं न प्रकर्तव्यं मया विष्णुस्वरूपिणा ॥ २ ॥

ततस्तस्य गतं ज्ञानं सकलं वेदशास्त्रजम् ।
प्रययौ दुःखितस्तेन ब्रह्माणं शरणं पुरा ॥ ३ ॥

ब्रह्मणा बोधितो व्यासः पुराणं श्रुतवान् प्रभोः ।
गाणेशमादिभूतं तत्तेन स ज्ञानवानऽभूत् ॥ ४ ॥

तपस्तप्त्वा सुविपुलं गाणपत्यो बभूव ह ।
शान्तियोगधरः साक्षाद्व्यासो नारायणः स्वयम् ॥ ५ ॥

ततो व्यासेन वेदानां शाखा भिन्नाः कृताः पराः ।
सौलभ्यार्थं नराणां वै कर्मादिज्ञानसिद्धये ॥ ६ ॥

आदौ वेदं यजुःसञ्ज्ञं तं चतुर्धा विभज्य सः ।
चातुर्होत्रं चकारैव कर्म सर्वं प्रजापते ॥ ७ ॥

यजुषाध्वर्यवं चक्रे ऋग्भिर्होतृत्वमञ्जसा ।
उद्गातृत्वं चकाराऽसौ सामभिः सर्वसम्मतः ॥ ८ ॥

ब्राह्ममेवाकरोद्विप्रोऽथर्वभिः सुसमाहितः ।
एवं चतुर्विधं कर्म कृत्वा मान्यो बभूव ह ॥ ९ ॥

मन्त्रैर्युक्ता पुरा तेन संहिता विविधा कृता ।
यज्ञार्थं ब्राह्मणं प्रोक्तं योगार्थं यदरण्यकम् ॥ १० ॥

पैलं शिष्यं महाबुद्धिमृग्वेदे भेदधारकम् ।
वैशम्पायनमेवं स यजुषां भेदधारकम् ॥ ११ ॥

जैमिनिं सामवेदस्य पारगं प्रचकार ह ।
अथर्वधारकं विप्रं सुमन्तुं मुनिसत्तमः ॥ १२ ॥

तेन चाष्टौ कृता भेदा ऋग्वेदस्य महात्मना ।
षडशीतिः कृता भेदा यजुर्वेदस्य वै तथा ॥ १३ ॥

एकं सहस्रं शाखानां सामवेदस्य वै कृतम् ।
अथर्वणस्तथा भेदा कृता नव विवेकिना ॥ १४ ॥

पुराणमेकरूपं वै शिष्याय प्रददौ मुनिः ।
रोमहर्षणसञ्ज्ञाय सूताय नतरूपिणे ॥ १५ ॥

पुराणस्य कृता भेदा अष्टादश महात्मना ।
पुराणोपपुराणाख्या द्विविधा संहिता स्मृता ॥ १६ ॥

ब्राह्मं च वैष्णवं पाद्मं शैवं भागवतं तथा ।

[[७२]]

भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं च वामनम् ॥ १७ ॥

आग्नेयं वायवं मात्स्यं वाराहं कौर्ममेव च ।
लैङ्गं गारुडकं स्कान्दं ब्रह्माण्डं च प्रजापते ॥ १८ ॥

अष्टादश पुराणानि कथितानि विशेषतः ।
तथैवोपपुराणानि कथयामि प्रजापते ॥ १९ ॥

गाणेशं नारदीयं च नारसिंहं च कापिलम् ।
नान्दिकेयं च वारुण्यं दौर्वाससमथाम्बिकम् ॥ २० ॥

कालिकेयं च मारीचमौशनसं च भार्गवम् ।
सानत्कुमारकं चैव कौमारं च प्रजापते ॥ २१ ॥

माहेश्वरं च सौरं वै पाराशर्यं च मौद्गलम् ।
अष्टादश पुराणानि कथितानि समासतः ॥ २२ ॥

धर्माधर्मव्यवस्थार्थं चक्रे भारतमुत्तमम् ।
एतत्सर्वं स जग्राह व्यासात् सूतो महामतिः ॥ २३ ॥

एतानि गाणपत्यानि ज्ञातव्यानि विचक्षणैः ।
अन्यानि सेतिहासानि गणेशस्तुतिमन्ति वै ॥ २४ ॥

श्रुत्वा सुवचनं तस्य मोहिता मुनयः पुनः ।
ऊचुः सूतं महाप्रज्ञं संशयच्छेदनाय ते ॥ २५ ॥

शौनकाद्या ऊचुः ।
कथं सूत शिवादीनां पुराणानि महामते ।
प्रोक्तानि गाणपत्यानि वद संशयमुक्तये ॥ २६ ॥

तेषां वचनमाकर्ण्य सूतः सर्वार्थकोविदः ।
जगाद तान् महाबुद्धिः संशयच्छेदनं वचः ॥ २७ ॥

सूत उवाच ।

गणेशस्य स्वरूपं यत् पञ्चधा व्यासभाषितम् ।
ज्ञातव्यं मुनिशार्दूलास्तेषां भेदं वदाम्यहम् ॥ २८ ॥

आद्यं ब्राह्मं पुराणं यद्गाणपत्यं प्रकीर्तितम् ।
निर्गुणो गणपस्तत्र वर्णितो ब्रह्मवाचकः ॥ २९ ॥

हृदयेषु जनानां वै बुद्धीनां यत् प्रकाशकृत् ।
तदेव तस्य रूपं तद्ध्यायन्ति त्यागिनः प्रभोः ॥ ३० ॥

आकारादि विहीनं तत् साक्षिभूतं सदा परम् ।
मनोवाणीविहीनं च ज्ञातव्यं न्यासिभिर्मुने ॥ ३१ ॥

तं ध्यायन्ति महाभागा योगिनश्च चतुर्विधाः ।
सन्न्यासिनो हृदिस्थं ते गणेशं बुद्धिचालकम् ॥ ३२ ॥

अन्यदन्त्यं पुराणं यद्ब्रह्माण्डं गणपस्य तत् ।
तत्रोङ्कारमयाकारः सगुणो वर्णितः प्रभुः ॥ ३३ ॥

जगद्विहारकारी स पञ्चधा प्रबभूव ह ।
प्रणवः प्रणवाकारो गजानन उदाहृतः ॥ ३४ ॥

अकारोकारको चैव मकारो नाद आबभौ ।
बिन्दुः पञ्च विभज्यात्मा नानाखेलं करोति सः ॥ ३५ ॥

जगदाकाररूपेण स्थितं विघ्नेशमादरात् ।
ध्यायन्ति जगदात्मानं प्रणवाकृतिलक्षणम् ॥ ३६ ॥

स्मरन्ति तं द्विजा नित्यं वेदादौ कर्मसिद्धये ।
ब्रह्माण्डाकारविघ्नेशः सगुणः परिकीर्तितः ॥ ३७ ॥

तथैवोपपुराणेषु गाणेशं चाद्यमञ्जसा ।
पुराणं तद्गणेशस्य भिन्नमूर्तिधरस्य च ॥ ३८ ॥

सगुणं जगदाकारं निर्गुणं बुद्धिचालकम् ।
तयोर्ज्ञानप्रसिद्ध्यर्थं मूर्तिमन्तं स्तुवन्ति ते ॥ ३९ ॥

गजवक्त्रादिचिह्नैश्च चिह्नितं गणनायकम् ।
मन्त्रादिना भजन्ते तं भावयुक्ता महर्षयः ॥ ४० ॥

तस्योपासनमात्रेण सगुणं निर्गुणं तथा ।
सुलभं प्राप्यते ब्रह्म योगिभिस्तापसोत्तमैः ॥ ४१ ॥

अन्त्यं मौद्गलमेतच्च पुराणोपनिषत्परम् ।
तत्र विघ्नेशमाहात्म्यं योगाकारं प्रकीर्तितम् ॥ ४२ ॥

[[७३]]

सगुणं निर्गुणं ब्रह्म मूर्तिरूपधरं मुने ।
त्रयाणां योगरूपं वै मुद्गलेन प्रकाशितम् ॥ ४३ ॥

योगिनः शुकमुख्यास्तं प्रभजन्ति यथातथम् ।
योगेनाभेदसञ्ज्ञेन वर्णाश्रमविवर्जिताः ॥ ४४ ॥

तस्मादादौ गणेशस्य पूजनं सर्वसम्मतम् ।
अन्ते सोऽपि न सन्देहो वेदान्तेषु विशेषतः ॥ ४५ ॥

य आदिः प्रलयान्ते स तिष्ठेद्वै सर्वसम्मतम् ।
तस्मादाद्यन्तभागेषु पुराणेषु गणेश्वरः ॥ ४६ ॥

पञ्चमं मध्यरूपं च गणेशस्य महात्मनः ।
कलांशेन प्रसङ्ख्यातं नामरूपधरं मुने ॥ ४७ ॥

शिवविष्ण्वादिभेदैश्च स खेलति गजाननः ।
तेषां मध्ये पुराणानि व्यासेन कथितानि वै ॥ ४८ ॥

तस्मात् सर्वपुराणेषु गणेशस्यैव वर्णनम् ।
कथितं नात्र सन्देहो व्यासेनामितबुद्धिना ॥ ४९ ॥

इदं पञ्चविधं रूपं गणेशस्य महात्मनः ।
यो जानाति नरः सोऽपि मोहहीनो भविष्यति ॥ ५० ॥

चतुर्विधं गणेशस्य पूजनं कथितं सदा ।
सर्वारम्भेषु सिद्धीनां दायकं भक्तिकारिणे ॥ ५१ ॥

मूर्तिपूजनमेकं च द्वितीयं प्रणवात्मकम् ।
तृतीयं बुद्धिदं चैव शान्तिरूपं चतुर्थकम् ॥ ५२ ॥

अत आदौ जनाः केचिद् ग्रन्थेषु ब्रह्मरूपकम् ।
स्मरन्ति वा पूजयन्ति सर्वसिद्धिप्रदायकम् ॥ ५३ ॥

केचिद् बुद्धिप्रदं देवं हृदिस्थं संस्मरन्ति वा ।
पूजयन्ति द्विजेन्द्राद्याः सर्वदा गणनायकम् ॥ ५४ ॥

केचिदोङ्काररूपं तं पूजयन्ति स्मरन्ति वा ।
सर्वादौ सर्वसिद्धीनां दायकं विघ्ननायकम् ॥ ५५ ॥

केचिन् मूर्तिधरं देवं पूजयन्ति स्मरन्ति वा ।
सर्वादौ गणनाथं च ज्ञातव्यं शास्त्रसम्मतम् ॥ ५६ ॥

अत आदौ तथा मध्ये सर्वाऽन्ते स गजाननः ।
शोभते योगरूपेण शान्तिदो भक्तवत्सलः ॥ ५७ ॥

ब्रह्मणा बोधितो व्यासो गाणपत्यः प्रतापवान् ।
गणेशप्राप्तिकामार्थं नानाभेदं चकार सः ॥ ५८ ॥

वासनाच्छेदनार्थं च जनानां योगसिद्धये ।
शिवादीनां पुराणानि क्रमार्थ वर्णितानि वै ॥ ५९ ॥

एतद्व्यासस्य माहात्म्यं कथितं सकलं तव ।
यः शृणोति नरो भक्त्या पठेद्वै तस्य सर्वदम् ॥ ६० ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते व्यासमाहात्म्यं नाम चतुस्त्रिंशोऽध्यायः ॥