॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
समागतं महादैत्यं दृष्ट्वा देवा भयातुराः ।
गजाननं निजं नाथं ययुर्वृत्तान्तमीरितुम् ॥ १ ॥
स वृत्तान्तं देवमुखात् श्रुत्वा क्रोधसमन्वितः ।
परशुं पाशमुग्रं च गदां धृत्वा ययौ तदा ॥ २ ॥
मूषकारूढमाद्यं तं पुरुषं दैत्यनायकः ।
दृष्ट्वा गजाननं दीप्तमुवाच बलगर्वितः ॥ ३ ॥
गजासुर उवाच ।
किमर्थं रणभूमौ त्वमागतो ब्राह्मणाधम ।
तपः कार्यं त्वया नित्यं कथं क्षात्रं समाश्रितः ॥ ४ ॥
ब्रह्मादयो जिता येन तेन सार्धं त्वया द्विज ।
युद्धं कर्तव्यमत्यन्तं वृथा मरणमाप्स्यसि ॥ ५ ॥
गच्छ स्वमाश्रमं विप्र न हन्मि त्वां समागतम् ।
बालभावात् कृतं कर्म सहेहं नात्र संशयः ॥ ६ ॥
इत्युक्तवन्तमालोक्य शम्भुः क्रोधसमन्वितः ।
उवाच तं महादैत्यं वचस्तद्धितकाम्यया ॥ ७ ॥
शिव उवाच ।
मूर्खोसि दैत्यराज त्वं नायं ब्राह्मणसत्तमः ।
गणेशोऽयं सदा सेव्यो योगिभिः परमादृतैः ॥ ८ ॥
पराशरस्य पुत्रोऽभूत्तपसाराधितः स्वयम् ।
वरदानप्रभावेण त्वां हनिष्यति निश्चितम् ॥ ९ ॥
त्यक्त्वा वैरं गणेशं च शरणं दैत्यनायक ।
एहि नोचेच्च सर्वस्वं हित्वा मृत्युमवाप्स्यसि ॥ १० ॥
वस पातालभूमौ त्वं न गणेशो हनिष्यति ।
एवं श्रुत्वा वचः शम्भुं जघान गदयाऽसुरः ॥ ११ ॥
मूर्च्छया पतितो भूमौ शङ्करस्तत्र सङ्गरे ।
शस्त्रास्त्रैस्तेन दैत्येन मूर्च्छिताश्च कृताः सुराः ॥ १२ ॥
विष्ण्वाद्याश्च रणे तत्र पतिताः पीडिता भृशम् ।
दैत्याधिपं ततो दृष्ट्वा गणेशोऽस्त्रमुपाददे ॥ १३ ॥
परशुं मन्त्रयामास संहारास्त्रविधानतः ।
तत्याज दैत्यसेनायां महास्त्रं यमसन्निभम् ॥ १४ ॥
हताः परशुना दैत्या यत्र तत्र स्थिता मृधे ।
पश्यतो दैत्यराजस्य प्रधानाश्च मृताः सुताः ॥ १५ ॥
संहारास्त्रनिवृत्त्यर्थं नानायत्नमथाकरोत् ।
सर्वं तन्निष्फलं जातं गजदैत्यस्य संयुगे ॥ १६ ॥
एक एव महादैत्यो वरदानप्रभावतः ।
स संहारादुर्वरितो हतः परशुना न च ॥ १७ ॥
ततो दैत्यो ययौ क्रोधात्समीपे विघ्नपस्य च ।
शस्त्राणि सहसा त्यक्त्वा मल्लयुद्धोद्यतोऽभवत् ॥ १८ ॥
तादृशं तं गणेशानो दृष्ट्वा क्रोधसमन्वितः ।
दर्शयामास दैत्याय रूपं स्वानन्दगं परम् ॥ १९ ॥
अनन्तादित्यसङ्काशं गजवक्त्रविराजितम् ।
ज्योतिषां ज्योतिरापूर्णं योगरूपं सुशान्तिदम् ॥ २० ॥
तं धर्तुं दैत्यराजः स्म यतते निकटस्थितम् ।
आकाशवन्न तद्रूपं हस्तगं चाऽभवत् प्रभोः ॥ २१ ॥
आश्चर्यं हृदये मत्वा दैत्येशो विह्वलो भृशम् ।
अहो मया धृतो ढुण्ढिर्हस्तगो मे न हस्तगः ॥ २२ ॥
किमिदं कौतुकं पूर्णं गणेशोऽयं सनातनः ।
ब्रह्माकारो न सन्देहो हनिष्यति स मां ध्रुवम् ॥ २३ ॥
धन्यं जन्म मदीयं वै पितरावाश्रमादिकम् ।
गणेशहस्तशस्त्रेण मरिष्यामि न संशयः ॥ २४ ॥
शुकाद्या योगिनो यं वै प्राप्ता योगैः सुदुश्चरैः ।
आयासेन विना सोऽयं मया प्राप्तो गजाननः ॥ २५ ॥
[[७०]]
तं प्रणम्य महाभक्त्या दैत्येशो वरकाङ्क्षया ।
जगाद गणनाथं वै भावभावितमादरात् ॥ २६ ॥
ब्रह्म ब्रह्मेश जहि मां दासं ते गणनायक ।
वरं प्रयच्छ मे त्वेनं नमामि त्वां पुनः पुनः ॥ २७ ॥
न संसारसुखे चित्तं मदीयं ते प्रदर्शनात् ।
त्वया हतो भविष्यामि ब्रह्मभूतो न संशयः ॥ २८ ॥
प्रार्थयन्तं महादैत्यमङ्कुशेन जघान तम् ।
गणेशः सोऽपि सायुज्यं तस्य प्राप्तः प्रजापते ॥ २९ ॥
शङ्कराद्याः सुरास्तत्र मुनयो मोहसंयुताः ।
न विदुश्चेष्टितं तस्य बभुर्भ्रान्ता इव स्थिताः ॥ ३० ॥
हतं दैत्यं समालोक्य हर्षितास्ते तदाऽभवन् ।
गणेशोऽपि स्वकं रूपं लीनं कृत्वा स्थितः पुरः ॥ ३१ ॥
पूर्वाकारं च तं दृष्ट्वा तुष्टुवुस्ते सुरर्षयः ।
सम्पूज्य भक्तिभावेन नेमुश्च ननृतुः पुरः ॥ ३२ ॥
देवर्षय ऊचुः ।
नमस्ते गजवक्त्राय गजाननसुरूपिणे ।
पराशरसुतायैव वत्सलासूनवे नमः ॥ ३३ ॥
व्यासभ्रात्रे शुकस्यैव पितृव्याय नमो नमः ।
अनादिगणनाथाय स्वानन्दावासिने नमः ॥ ३४ ॥
रजसा सृष्टिकर्त्रे ते सत्त्वतः पालकाय वै ।
तमसा सर्वसंहर्त्रे गणेशाय नमो नमः ॥ ३५ ॥
प्रकृतेः पुरुषस्यापि रूपिणे परमात्मने ।
बोधाकाराय वै तुभ्यं केवलाय नमो नमः ॥ ३६ ॥
स्वसंवेद्याय देवाय योगाय गणपाय च ।
शान्तिरूपाय तुभ्यं वै नमस्ते ब्रह्मनायक ॥ ३७ ॥
विनायकाय वीराय गजदैत्यस्य शत्रवे ।
मुनिमानसनिष्ठाय मुनीनां पालकाय च ॥ ३८ ॥
देवरक्षाकरायैव विघ्नेशाय नमो नमः ।
वक्रतुण्डाय धीराय चैकदन्ताय ते नमः ॥ ३९ ॥
त्वयाऽयं निहतो दैत्यो गजनामा महाबलः ।
ब्रह्माण्डे मृत्युसंहीनो महाश्चर्यं कृतं विभो ॥ ४० ॥
हते दैत्येऽधुना कृत्स्नं जगत् सन्तोषमेष्यति ।
स्वाहास्वधायुतं पूर्णं स्वधर्मस्थं भविष्यति ॥ ४१ ॥
एवमुक्त्वा गणाधीशं सर्वे देवर्षयस्ततः ।
प्रणम्य तूष्णीम्भावं ते सम्प्राप्ता विगतज्वराः ॥ ४२ ॥
कर्णौ सम्पीड्य गणपचरणे शिरसो ध्वनिः ।
मधुरः प्रकृतस्तैस्तु तेन तुष्टो गजाननः ॥ ४३ ॥
तानुवाच मदीया ये भक्ताः परमभाविताः ।
तैश्च नित्यं प्रकर्तव्यं भवद्भिर्नमनं यथा ॥ ४४ ॥
तेभ्योऽहं परमप्रीतो दास्यामि मनसीप्सितम् ।
एतादृशं प्रियं मे च नमनं नात्र संशयः ॥ ४५ ॥
एवमुक्त्वा स तान् सर्वान् सिद्धिबुद्ध्यादिसंयुतः ।
अन्तर्दधे ततो देवा मुनयः स्वस्थलं ययुः ॥ ४६ ॥
पिता पराशरस्तस्य माता वै वत्सला प्रभोः ।
शोकसागरमग्नौ तौ श्रुत्वा वार्तां निपेततुः ॥ ४७ ॥
ततः कारुणिको देवस्तयोश्चित्तप्रकाशकः ।
योगशान्तिमयं ज्ञानं बोधयामास शाश्वतम् ॥ ४८ ॥
मूर्तिं मदीयां वै कृत्वा संस्थाप्य ब्राह्मणैः सह ।
तस्याः पूजा प्रकर्तव्या भवद्भ्यां नित्यमादरात् ॥ ४९ ॥
देहव्यापारिता तत्र कर्तव्या हृदि शान्तिदम् ।
योगरूपधरं दृष्ट्वा कालमाक्रमतं सदा ॥ ५० ॥
[[७१]]
एवमुक्त्वा हृदिस्थोऽसौ गणेशोऽन्तर्दधे ततः ।
कृतवन्तौ महाभागौ तथा दक्षसुयोगिनौ ॥ ५१ ॥
अचला स्थापिता मूर्तिः सिद्धिदा साऽभवत्परा ।
दर्शनान् मोक्षदा दक्ष सकामानां प्रकामदा ॥ ५२ ॥
एतत्ते कथितं सर्वं गजासुरवधाश्रितम् ।
चरितं गणनाथस्य सर्वपापहरं शुभम् ॥ ५३ ॥
यः शृणोति नरो भक्त्या पठेद्वा तु प्रजापते ।
तस्मै भुक्तिप्रदं पूर्णं मुक्तिदं प्रभविष्यति ॥ ५४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते गजासुरवधाख्यानं नाम त्रयस्त्रिंशोऽध्यायः ॥