३२ गजासुरसैन्यवधः

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

एकदा तं सभायां वै संस्थितं दैत्यनायकम् ।
आययौ सहसा तत्र नारदो कौतुकी मुनिः ॥ १ ॥

दैत्येन मानितो दक्ष तमुवाच महामुनिः ।
शृणु दैत्याधिप प्राज्ञ हितं ते वचनं महत् ॥ २ ॥

अरण्ये मुनिभिर्देवैर्गणेशो भक्तिभावितः ।
आराधितो वधार्थं ते पराशरसुतोऽभवत् ॥ ३ ॥

इत्युक्त्वा प्रययौ तस्मान्नारदो दिव्यदर्शनः ।
दैत्यो रोषसमाविष्टो देवर्षीणां वधे रतः ॥ ४ ॥

आययौ यत्र देवाश्च मुनयः संस्थिताः खलः ।
दैत्यैः समावृतः सर्वैर्महाबलपराक्रमैः ॥ ५ ॥

[[६७]]

धृत्वा स सकलान् देवान् खलः सर्षिगणांस्तदा ।
तान् हन्तुं शस्त्रमादत्ते तावत्तैर्विघ्नपः स्मृतः ॥ ६ ॥

स्मृतमात्रो गणाध्यक्षो बुद्धिभेदं चकार ह ।
दैत्यस्य तेन दैत्येन मानसे धारितं महत् ॥ ७ ॥

ममाधीना इमे विप्रा देवाश्चैव न संशयः ।
एषां दण्डः प्रकर्तव्यो येन सत्वं गमिष्यति ॥ ८ ॥

पश्चात्कियति कालेऽहं हनिष्यामि बलात्किल ।
एवं निश्चितसङ्कल्पस्तानुवाच गजासुरः ॥ ९ ॥

गजासुर उवाच ।

देवा मुनिगणाः सर्वे वचः शृण्वन्तु मे हितम् ।
कर्तव्यं जीवितुं तच्च यदीच्छथ च सत्वरैः ॥ १० ॥

कर्णौ सम्पीड्य पाणिभ्यामुत्तमाङ्गं धरातले ।
नित्यमास्फालयध्वं वै मम पादस्य सन्निधौ ॥ ११ ॥

तदा मुञ्चामि देवेशान्नान्यथा मुनिसत्तमान् ।
शिरच्छेदं च सर्वेषां करिष्यामि न संशयः ॥ १२ ॥

भवद्भिः प्रार्थितो देवो गणेशो देववल्लभः ।
पराशरसुतो जातः कुरुध्वं तेन संयुताः ॥ १३ ॥

एवं तस्य वचः श्रुत्वोवाच तं विष्णुरादरात् ।
गणेशं मनसा स्मृत्वा सामयुक्तं वचः शुभम् ॥ १४ ॥

त्वया यः कथितो दण्डो वयं तं करवामहै ।
सर्वान् देवमुनीन् मुञ्च गमिष्यामो गजाननम् ॥ १५ ॥

आनयित्वा च देवेशं तेन सार्धं प्रयत्नतः ।
त्वत्पादकमले नित्यं करिष्यामो यथातथम् ॥ १६ ॥

गणेशमायया भ्रान्तो दैत्यराजः प्रतापवान् ।
सकलान् मोचयामास देवानृषिसमन्वितान् ॥ १७ ॥

दिवसे पञ्चमे प्राप्ते नागता मे प्रसन्निधौ ।
तदा सर्वान् हनिष्यामि गणेशेन समन्वितान् ॥ १८ ॥

तथेत्युक्त्वा गताः सर्वे पराशरगृहं प्रति ।
गजाननं तत्र दृष्ट्वा प्रणेमुर्दण्डवत् क्षितौ ॥ १९ ॥

पराशरो विस्मितोऽसौ पूजयामास तान् स्वयम् ।
सहसा सकलान् प्राप्तान मुनीन् देवान् विशेषतः ॥ २० ॥

पराशरेण संयुक्ताः सर्वे तेऽकथयंस्तदा ।
स्तुत्वा च विविधैः स्तोत्रैर्गजासुरविचेष्टितम् ॥ २१ ॥

कर्णौ सम्पीड्य देवेश शिरःस्फालनमञ्जसा ।
कथं कुर्मोऽसुरस्याग्रे चरणावनताः प्रभो ॥ २२ ॥

नीचस्य नमनाद्देव मरणं हि वरं स्मृतम् ।
तस्मात्त्वं जहि देवान् वा मुनीन् दैत्यान् गजानन ॥ २३ ॥

मुद्गल उवाच ।

देवादीनां वचः श्रुत्वा स्मित्वा तानब्रवीत् प्रभुः ।
भक्तवत्सलभावेन यन्त्रितः स प्रजापते ॥ २४ ॥

गणेश उवाच ।

चिन्ता नैव प्रकर्तव्या हनिष्याम्यसुरं क्षणात् ।
कुरुध्वं मे वचो रम्यं सर्वेषां सुखदं भवेत् ॥ २५ ॥

दैत्येन्द्रेण प्रकथितो दण्ड एव स मे प्रियः ।
मम पादस्य सामीप्ये कुरुध्वं सर्वभावतः ॥ २६ ॥

तदा दैत्यं महाघोरं हनिष्यामि प्रपश्यताम् ।
भवतां नात्र सन्देहः क्षणार्धेन च सत्तमाः ॥ २७ ॥

गणेशस्य वचो रम्यं श्रुत्वा देवर्षिसत्तमाः ।
परस्परं मुखालोकमकुर्वन् स्मितपूर्वकम् ॥ २८ ॥

तत्र शम्भुरुवाचेदं वचनं हितकारकम् ।
अस्माकं कुलदेवोऽयं तस्मात् कुर्वन्तु सत्तमाः ॥ २९ ॥

इत्युक्त्वा शङ्करस्तत्र पाणिभिः श्रवसि स्वयम् ।

[[६८]]

पीडयित्वा शिरोभिस्तच्चरणे ध्वनिमाचरत् ॥ ३० ॥

मृदुर्मधुररूपः स शब्दश्च शिरसाऽभवत् ।
श्रुत्वा गजाननो हृष्टो बभूव परमं तदा ॥ ३१ ॥

ततो विष्ण्वादिभिर्देवैर्भृग्वादिप्रमुखैस्तथा ।
मुनिभिश्च कृतं दक्ष ततोऽत्यन्तं मुमोद सः ॥ ३२ ॥

भूत्वा तु मूषकारूढो चतुरायुधभूषितः ।
गजासुरवधार्थाय ययौ गणपतिः स्वयम् ॥ ३३ ॥

महिषाख्ये पुरे गत्वा सिंहनादं चकार सः ।
तेन भ्रान्ताश्चासुरास्ते गजदैत्यस्तथा स्वयम् ॥ ३४ ॥

एतस्मिन्नन्तरे तत्र गुल्मस्था असुरा ययुः ।
छिन्नभिन्नीकृताङ्गा वै शसंसुर्देवचेष्टितम् ॥ ३५ ॥

असुरा ऊचुः ।
गणेशेन समायुक्ता देवा मुनिगणाः प्रभो ।
आययुर्योद्धुमत्यन्तं मदयुक्ता गजासुर ॥ ३६ ॥

तेषां वचनमाकर्ण्य गजदैत्यः प्रतापवान् ।
सर्वानाज्ञापयामास दैत्यान् सज्जीभवन्त्विति ॥ ३७ ॥

स्वयं सुसज्जितो भूत्वा रथारूढश्च निर्ययौ ।
अनु तं दैत्यसैन्येशा दैत्यास्ते निर्ययुः पुरात् ॥ ३८ ॥

अपारसेनया युक्तं तं ददर्श गजासुरम् ।
गजाननः प्रसन्नात्मा कालस्य भयदायकः ॥ ३९ ॥

ततो गजासुरः कोपाद्दैत्यानाज्ञापयत्तदा ।
संहरध्वं सुरान् सर्वान् मुनीन् यक्षादिसंयुतान् ॥ ४० ॥

दैत्येन्द्रेण समाज्ञप्ता असुरा जयशालिनः ।
अस्त्रैः शस्त्रैश्च ते देवान् पीडयामासुरोजसा ॥ ४१ ॥

देवाः क्रोधसमाविष्टा मरणे कृतनिश्चयाः ।
दैत्यान् प्रहरणैर्जघ्नुः शस्त्रैर्नानाविधैस्तदा ॥ ४२ ॥

दैत्यानां चैव देवानां युद्धं परमदारुणम् ।
बभूव तुमुलं तत्र परस्परविनाशनम् ॥ ४३ ॥

?असृङ्नदी प्रवृत्ता च महौघा वीरमोहिनी ।
भग्ना दैत्यगणास्तत्र प्रहारपरिपीडिताः ॥ ४४ ॥

त्यक्त्वा दैत्यगणा लज्जां पलायन्त दिशो दश ।
तत् दृष्ट्वा दैत्यराजस्तु विस्मितोऽभूत् प्रजापते ॥ ४५ ॥

ततो दैत्याधिपाः क्रूराः प्रधानप्रमुखा रणम् ।
आययुर्देवसेनां ते निर्जघ्नुश्च महाबलाः ॥ ४६ ॥

तत इन्द्रादिभिस्ते वै रणं कृत्वा सुदारुणम् ।
निहता मूर्च्छिताः केचिद्रणे भूमौ निपातिताः ॥ ४७ ॥

हा हा दैत्यगणाः कृत्वा पलायन्त दिशो दश ।
तत् दृष्ट्वा दैत्यराजः स विस्मयं परमं ययौ ॥ ४८ ॥

विपरीतं मया दृष्टं वह्निः शीतो यथाऽभवत् ।
तथा देवैर्मदीयेयं सेना सर्वा पराजिता ॥ ४९ ॥

एवं मनसि सन्तप्तः क्रोधारुणविलोचनः ।
रथारूढः स्वयं योद्धुमाययौ स गजासुरः ॥ ५० ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकन्दतचरिते गजासुरसैन्यवधो नाम द्वात्रिंशोऽध्यायः ॥

[[६९]]