३१ पराशरसुतोत्पत्तिकथनम्

॥ श्रीगणेशाय नमः ॥

दक्ष उवाच ।

कोऽसौ गजासुरो नाम्ना दैत्यः परमदारुणः ।
वद तस्य चरित्रं मे वधपर्यन्तमुत्तमम् ॥ १ ॥

यदर्थे गणराजोऽयं मुनिपुत्रोऽभवत्प्रभो ।
तन्न मुद्गल सामान्यं धन्यं जन्मासुरस्य च ॥ २ ॥

सूत उवाच ।

दक्षस्य वचनं रम्यं श्रुत्वा योगीन्द्रसत्तमः ।
जगाद सकलं तस्य चेष्टितं दैत्यपस्य वै ॥ ३ ॥

मुद्गल उवाच ।

शृणु दक्ष पुरावृत्तमितिहासं वदामि तम् ।
पापप्रशमनं पूर्णं भुक्तिमुक्तिफलप्रदम् ॥ ४ ॥

महिषासुरनाशं च चकार जगदम्बिका ।
तस्य पुत्रो महातेजा गजासुर इति स्मृतः ॥ ५ ॥

पितुर्वधेन सन्तप्तो देवानां वधकाङ्क्षया ।
शुक्रोपदिष्टमन्त्रेण शङ्कराराधने रतः ॥ ६ ॥

तताप स तपो घोरं निराहारसमन्वितः ।
पञ्चाक्षरविधानेन तोषयामास शङ्करम् ॥ ७ ॥

दशवर्षसहस्रैस्तु प्रसन्नोऽभूच्छिवः स्वयम् ।
आययौ तं वरं दातुं गजासुरतपोवने ॥ ८ ॥

काष्ठवत्संस्थितं दैत्यं दृष्ट्वा विस्मयमागतः ।
जगाद तं स्वभक्तं वै शङ्करः करुणानिधिः ॥ ९ ॥

शिव उवाच ।

वरं वरय मत्तस्त्वं गजासुर महामते ।
तपसा परितुष्टोऽहं तव दास्यामि दुर्लभम् ॥ १० ॥

शङ्करस्य वचः श्रुत्वा हर्षयुक्तो महासुरः ।
उपचारैः षोडशभिः प्रणम्यापूजयच्छिवम् ॥ ११ ॥

अथर्वशिरसा शम्भुं तुष्टावासुरनायकः ।
वरं वव्रे महाक्रूरं तच्छ्रुणुष्व प्रजापते ॥ १२ ॥

गजासुर उवाच ।

यदि तुष्टोऽसि देवेश वरं देहि महेश्वर ।
ब्रह्माण्डवासिनः सर्वे तेभ्यो मृत्युर्न मे भवेत् ॥ १३ ॥

राज्यं ब्रह्माण्डगोलस्य देहि सामर्थ्यमुत्तम् ।
सर्वातिगं महेशान नान्यं याचे परं वरम् ॥ १४ ॥

तथेति तमुवाचाथ शिवोऽन्तर्धानगोऽभवत् ।
हर्षयुक्तो महादैत्यस्ततो गेहं समाययौ ॥ १५ ॥

मात्रा सम्मानितः सोऽपि सुहृद्भिश्च गजासुरः ।
दैत्याः समाययुः सर्वे गृहे तस्य महात्मनः ॥ १६ ॥

स्वयं गत्वा गुरुं शुक्रमानयामास दैत्यपः ।
ततो मुनिगणैः सार्धमभिषेकं चकार सः ॥ १७ ॥

दैत्यानां दानवां च राजाभूत् स गजासुरः ।
तैर्युक्तः पृथिवीं जित्वा ययौ स्वर्गं महाबलः ॥ १८ ॥

देवाः पलायिताः सर्वे ज्ञात्वा क्रूरं गजासुरम् ।
शङ्करं ते समाश्रित्य स्थिताः सर्वे भयातुराः ॥ १९ ॥

दैत्यैः समावृतः सोऽपि कैलासमगमत्ततः ।
शङ्करः क्रोधसंयुक्तस्तं ययौ देवसंवृतः ॥ २० ॥

युद्धाय शङ्करं तेनागतं ज्ञात्वा महासुरः ।
स्वयं सैन्यं पुरस्कृत्याययौ रणविधित्सया ॥ २१ ॥

देवानां दानवानां च युद्धं परमदारुणम् ।
सञ्जातं च ततो दैत्याः पलायनपरा ययुः ॥ २२ ॥

तं दृष्ट्वा क्रोधसंयुक्तो गजदैत्यः प्रतापवान् ।
बाणवृष्टिं महोग्रां स ससर्ज सुरनाशिनीम् ॥ २३ ॥

बाणैर्निपतितास्तस्य देवाः सर्वे धरातले ।
छिन्नाङ्गा मरणप्रायाः प्रलयं मेनिरे तदा ॥ २४ ॥

इन्द्रादयश्च दिक्पालाः पतिता बाणपीडिताः ।
गदया विष्णुमहनत् सोऽपि भूतलमाश्रितः ॥ २५ ॥

ततः क्रोधसमायुक्तः शङ्करः शूलमाददे ।
तेनाहनन् महादैत्यं प्रलयाग्निसमेन सः ॥ २६ ॥

[[६५]]

त्रिशूलेन हतः सोऽपि न चचाल सुराधिपः ।
वरदानप्रभावेण शस्त्राणि व्यर्थतां ययुः ॥ २७ ॥

सहसागत्य दैत्येशो धृत्वा पादं प्रहस्य वै ।
भ्रामयित्वा महेशानं चिक्षेप रणमूर्धनि ॥ २८ ॥

ततो देवगणाः सर्वे पलायनपरायणाः ।
ययुर्दश दिशो रक्षो दैत्यसन्त्रासतापिताः ॥ २९ ॥

दैत्योऽपि शिवलोकं तं दैत्यैः सह समाययौ ।
स्थापयामास देवानां पदेषु श्रेष्ठदानवान् ॥ ३० ॥

विकुण्ठादिपदेष्वेते स्थितास्तेन सुमानिताः ।
स्वर्गभोगकराः सर्वे कृता दैत्याः सुरारिणा ॥ ३१ ॥

कैलासे संहरं दैत्यं स्थापयामास वीर्यवान् ।
स्वयं समागतो दक्ष पृथिव्यां दैत्यपैर्वृतः ॥ ३२ ॥

महिषाख्यपुरे दुष्टः संस्थितो दैत्यपैः सह ।
चकार सोऽतुलं राज्यं त्रैलोक्यस्य महाबलः ॥ ३३ ॥

गते बहुतरे काले देवाः सर्वे भयातुराः ।
पर्वतान्तरसङ्गुप्ताः संस्थिता अभवन् द्विजैः ॥ ३४ ॥

विचारमखिलाश्चक्रुर्गजासुरवधाय ते ।
तत्र विष्णुर्जगादेदं वचनं सर्वतोषदम् ॥ ३५ ॥

विष्णुरुवाच ।
ब्रह्माण्डवासिनो ये वै तेभ्यो मृत्युर्न विद्यते ।
दैत्यस्य वरदानेन तेन सर्वे पराजिताः ॥ ३६ ॥

स्वानन्दलोकगः साक्षाद्गणेशो देवनायकः ।
ब्रह्माण्डवर्जितो ब्रह्म तस्मात्तस्य मृतिर्भवेत् ॥ ३७ ॥

अतस्तं देवदेवेशं तपसा पुष्कलेन वै ।
सर्व आराधयामैव देवाः सर्षिगणाः परम् ॥ ३८ ॥

स हत्वा तं महादैत्यं प्रदास्यति पदानि वः ।
हितं यदि सुराः कार्यं वचनं मे सुखप्रदम् ॥ ३९ ॥

विष्णोर्वचनमाकर्ण्य देवा मुनिगणास्तथा ।
साधुसाध्विति तत्रोचुर्बभुस्तपसि संस्थिताः ॥ ४० ॥

केचिन् मन्त्रजपं चक्रुः केचिन्नामजपं तथा ।
केचिन् मानसपूजायां निरताश्च बभूविरे ॥ ४१ ॥

केचिद् ध्यानं गणेशस्य चक्रुः केचित् स्तुतिं विभोः ।
निराहारं तथा केचिद्वायुपत्रादिभक्षकाः ॥ ४२ ॥

केचिद्धोमं च पञ्चाग्निं धूम्रपानं तथाऽपरे ।
इत्यादि तपसा देवं तोषयामासुरादरात् ॥ ४३ ॥

शतवर्षे तु तेषां वै प्रादुर्भूतो गजाननः ।
पुरतस्तानुवाचेदं वचनं भक्तवत्सलः ॥ ४४ ॥

गणेश उवाच ।

देवाश्च मुनयः सर्वे वरं ब्रूत हृदीप्सितम् ।
दुर्लभं त्वपि तद्दास्ये तपसा तोषितो भृशम् ॥ ४५ ॥

गणेशवचनं श्रुत्वा दृष्ट्वा देवं पुरःस्थितम् ।
प्रणेमुर्मुनयो देवा दण्डवत् पृथिवीतले ॥ ४६ ॥

परयाऽपूजयन् भक्त्या ब्रह्मेशं ब्रह्मभाविताः ।
तुष्टुवुः सम्प्रहृष्टाश्च सरोमाञ्चाः प्रजापते ॥ ४७ ॥

देवर्षय ऊचुः ।
नमो नमो गणेशाय गणपालकमूर्तये ।
गणरूपेण सर्वत्र संस्थिताय नमो नमः ॥ ४८ ॥

मूषकारूढकायैवानादिरूपाय ते नमः ।
आकारादिविहीनायाकारिरूपाय ते नमः ॥ ४९ ॥

हेरम्बाय नमस्तुभ्यं भक्तसंरक्षकाय च ।
भक्तवत्सलभावाय विघ्नेशाय नमो नमः ॥ ५० ॥

नमस्तुभ्यं सिद्धिपते सिद्धिदात्रे च ढुण्ढये ।
बुद्धिदात्रे धियः पात्रे सर्वान्तश्चारिणे नमः ॥ ५१ ॥

स्वानन्दपतये तुभ्यं स्वसंवेद्याय ते नमः ।
योगरूपाय शान्ताय योगानां पतये नमः ॥ ५२ ॥

आदिमध्यान्तहीनाय कर्त्रे हर्त्रे नमो नमः ।
पालकाय त्रिभिर्हीनगुणेशाय नमो नमः ॥ ५३ ॥

[[६६]]

वक्रतुण्डाय देवाय लम्बोदरधराय च ।
सर्वेषां हृदि संस्थाय विनायक नमोऽस्तु ते ॥ ५४ ॥

यं स्तोतुं न समर्थाश्च वेदाः साङ्गाः कदाचन ।
वयं तत्र च के देव वेदैर्ज्ञानधरा यतः ॥ ५५ ॥

एवं स्तुत्वा गणेशानं पेतुस्ते तस्य पादयोः ।
धृत्वा मनसि तद्रूपं भक्तिभावेन यन्त्रिताः ॥ ५६ ॥

पुनरुत्थाय ते सर्वे तमूचुर्भयविह्वलाः ।
कृताऽञ्जलिपुटा देवं गणेशं सर्वनायकम् ॥ ५७ ॥

यदि तुष्टोऽसि देवेश जहि दैत्यं गजासुरम् ।
पदभ्रष्टा वयं तेन कृताः कर्मविवर्जिताः ॥ ५८ ॥

भक्तिं ते देहि विघ्नेश सर्वदुःखविनाशिनीम् ।
एष एव वरोस्माभिर्वाञ्छितो द्विरदानन ॥ ५९ ॥

देवर्षीणां वचः श्रुत्वा भक्तवत्सलभावतः ।
उवाच तान् गणाध्यक्षो हर्षयन् वचनं शुभम् ॥ ६० ॥

गजासुरवधं देवा मुनयश्च सुदुष्करम् ।
तथापि भवतां वाक्यात् करिष्येऽहं न संशयः ॥ ६१ ॥

मदीया भक्तिरचला भविष्यति सुदुर्लभा ।
पराशरस्य पुत्रोऽहं भविष्यामि वधाय वै ॥ ६२ ॥

भवत्कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् ।
भुक्तिमुक्तिप्रदं पूर्णं भविष्यति न संशयः ॥ ६३ ॥

पठतां शृण्वतां विप्रा देवाः सर्वार्थसिद्धिदम् ।
दुःखघ्नं सततं तेषां भविष्यति सुबुद्धिदम् ॥ ६४ ॥

इत्युक्त्वान्तर्दधे देवो गणेशः सर्वसिद्धिदः ।
वत्सलोदरगो भूत्वा पराशरसुतोऽभवत् ॥ ६५ ॥

जातकर्मादिकं सर्वं चकार मुनिसत्तमः ।
ब्राह्मणैर्हर्षितो भूत्वा पत्न्या स्वयमुदारधीः ॥ ६६ ॥

स बालो ववृधे तत्र हर्षयन् मातरं निजाम् ।
पितरं चेष्टितैः स्वीयैर्बालक्रीडनकैस्तथा ॥ ६७ ॥

पञ्चमे व्रतबन्धं च चकार मुनिसत्तमः ।
वेदानध्यापयामास साङ्गांस्तान् गणपाय च ॥ ६८ ॥

विवाहमकरोत्तस्य सिद्धिर्बुद्धिश्च शाश्वते ।
मरीचेश्च सुते जाते दत्ते तेन विधानतः ॥ ६९ ॥

इति ते कथितं सर्वं पराशरसुतस्य च ।
चरितं गणनाथस्य दैत्यस्य शृणु चेष्टितम् ॥ ७० ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते पराशरसुतोत्पत्तिकथनं नामैकत्रिंशोऽध्यायः ॥