३० पराशरवरप्रदानम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

आगतं गणराजं स दृष्ट्वा हर्षसमन्वितः ।
ननाम दण्डवद्भूमौ तं तुष्टाव यथामति ॥ १ ॥

वसिष्ठ उवाच ।

अद्येयं धरणी धन्या पितरौ तप आश्रमः ।
विद्याव्रतादि मे धन्यं दर्शनात्ते पदस्य च ॥ २ ॥

त्वं कर्ता कारणं चैव कारणानां न संशयः ।
गम्यागम्यमयः प्रोक्तो वेदे वै वेदवादिभिः ॥ ३ ॥

सर्वरूपश्च सर्वैस्त्वं हीनः सर्वप्रकाशकः ।
योगाभेदमयस्त्वं त्वां कथं स्तौमि गणाधिप ॥ ४ ॥

तथाऽपि भक्तिपाशेन यन्त्रितस्त्वं गजानन ।
अनुग्रहार्थमायातो नामरूपधरः प्रभो ॥ ५ ॥

त्वद्दर्शनजबोधेन स्तौमि त्वां ब्रह्मनायकम् ।
वेदादिभिः सहाद्यैश्च संस्तुतं योगिभिः परम् ॥ ६ ॥

नमस्ते गणनाथाय नमस्ते सर्वसाक्षिणे ।
सर्वाकाराय वै तुभ्यं स्वसंवेद्याय ते नमः ॥ ७ ॥

सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रदाय च ।
अमेयशक्तये देव देव तुभ्यं नमो नमः ॥ ८ ॥

असम्प्रज्ञाततुण्डाय सम्प्रज्ञातशरीरिणे ।
तयोर्योगे च योगात्मदेहाय तु नमो नमः ॥ ९ ॥

शान्तियोगप्रकाशाय शान्तियोगमयाय ते ।
योगिभ्यो योगदात्रे च योगेशाय नमो नमः ॥ १० ॥

वक्रतुण्डाय वै तुभ्यमेकदन्तधराय च ।
ब्रह्माकारात्मकानां ते चिह्नानां धारिणे नमः ॥ ११ ॥

स्तुवतस्तस्य हर्षेण कण्ठरोधः समाभवत् ।
ननर्त हृष्टरोमा वै देहभानविवर्जितः ॥ १२ ॥

निमग्नं तं भक्तिरसे वीक्ष्य देवो गजाननः ।
तमुवाच महाभक्तं भावज्ञो भावपूरकः ॥ १३ ॥

गणेश उवाच ।

त्वया कृतमिदं वै यत् स्तोत्रं भक्तिरसप्रदम् ।
धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ १४ ॥

मदीया भक्तिरचला तवानघ भविष्यति ।
स्मृतमात्रश्च ते गेहं यास्यामि मुनिसत्तम ॥ १५ ॥

एवमु?क्त्वा गणाधीशोऽन्तर्दधे मम पश्यतः ।
सोहं तं हृदये पश्यन् स्थितः शान्तिसमन्वितः ॥ १६ ॥

गाणपत्यस्वभावेन मूर्तिपूजापरायणः ।
वसिष्ठोऽहं महाभागो योगिवन्द्यो बभूव ह ॥ १७ ॥

[[६३]]

वसिष्ठ उवाच ।

एतत्ते कथितं वत्स शान्तियोगप्रदं शुभम् ।
ज्ञानं तेनैव मार्गेण गणेशं भज भक्तितः ॥ १८ ॥

एवमुक्तः प्रणम्यादौ मुनिं पौत्रः पराशरः ।
वने गत्वा चकाराऽसौ तपः परमदारुणम् ॥ १९ ॥

पितामहेन यज्ज्ञानं कथितं योगदं महत् ।
तादृशं साधितं तेन योगभूमिक्रमेण च ॥ २० ॥

त्यक्त्वा भूमिं स्वयं योगी गाणपत्यो बभूव ह ।
तस्य पुत्रत्वमापन्नो व्यासो विष्णुः स्वयं प्रभुः ॥ २१ ॥

तथापि मुनिना तेन पत्न्या वत्सलया सह ।
तपस्तप्तं महाघोरं गणेशस्य महात्मनः ॥ २२ ॥

सङ्कल्पं पुत्रकामार्थं चकार स महामुनिः ।
गणराजः स्वयं मे वै भविता पुत्र उत्तमः ॥ २३ ॥

दशवर्षसहस्रैस्तं प्रसन्नो गणनायकः ।
वरं दातुं समायातो भक्तिभावेन तोषितः ॥ २४ ॥

तं दृष्ट्वा सहसोत्थाय प्रणम्य प्रकृताञ्जलिः ।
तुष्टाव सुस्थिरो भूत्वा पत्न्या साकमुदारधीः ॥ २५ ॥

पराशर उवाच ।

नमस्ते गजवक्त्राय नराकाराय ते नमः ।
नरकुञ्जररूपाय गणेशाय नमो नमः ॥ २६ ॥

निर्गुणाय गुणाधाररूपिणे परमात्मने ।
परात्पराय देवायानादिसिद्धाय ते नमः ॥ २७ ॥

अनन्ताननधारायानन्तपाण्यङ्घ्रिरूपिणे ।
अनन्तविभवायैव गकाराय च ते नमः ॥ २८ ॥

सर्वहीनाय देवाय मायाभ्यां वर्जिताय ते ।
सदा ब्रह्ममयायैव णकाराय नमो नमः ॥ २९ ॥

तयोश्च स्वामिने तुभ्यं गणेशाय नमो नमः ।
स्वानन्दवासिने पूर्णभुक्तिमुक्तिप्रदाय ते ॥ ३० ॥

किं स्तौमि देवदेवेश वेदवेदान्तकादिभिः ।
सम्पादितं परं ब्रह्म त्वामतः प्रणमाम्यहम् ॥ ३१ ॥

यदि तुष्टोऽसि देवेश तदा पुत्रो भव प्रभो ।
आवयोर्गणनाथ त्वं तदा मे स्यात् स्थिरं मनः ॥ ३२ ॥

अस्माकं कुलदेवश्च त्वमेव गणनायक ।
ब्रह्मभावेन नित्यं त्वां भजामस्तत्र विघ्नप ॥ ३३ ॥

पुत्रभावेन देवेश भजेयं संसृतौ गतः ।
संसारः सफलस्तेन ब्रह्मरूपो भवेच्च मे ॥ ३४ ॥

श्रुत्वैवं वचनं तस्य पराशरमुनेरिदम् ।
तमुवाच गणाधीशो भक्तं योगधरं परम् ॥ ३५ ॥

गणेश उवाच ।

त्वया यत्प्रार्थितं विप्र तत्सर्वं सफलं भवेत् ।
तव पुत्रो भविष्यामि गजासुरवधाय च ॥ ३६ ॥

त्वया स्तोत्रं कृतं यच्च तत्सर्वेच्छितदं भवेत् ।
भुक्तिमुक्तिकरं तेषां पठतां शृण्वतां नृणाम् ॥ ३७ ॥

एवमुक्त्वान्तर्दधेऽसौ गणेशो ब्रह्मनायकः ।
पराशरः प्रसन्नात्मा सपत्नीको बभूव ह ॥ ३८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते पराशरवरप्रदानं नाम त्रिंशोऽध्यायः ॥

[[३१]]