२९ वसिष्ठतपोवर्णनम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

तृणबिन्दोः सुता श्रेष्ठा नाम्नेलविलका स्मृता ।
पुलस्त्याय स राजर्षिर्ददौ विनयसंयुतः ॥ १ ॥

तस्यां जज्ञे पुलस्त्याद्वै विश्रवा मुनिसत्तमः ।
तस्य पत्न्यश्चतस्रस्तु सुरूपा वामलोचनाः ॥ २ ॥

पुष्पोत्कटा तथा राका कैकसी देववर्णिनी ।
ज्येष्ठं वैश्रवणं तस्मात् सुषुवे देववर्णिनी ॥ ३ ॥

कैकस्यजनयत्पुत्रं रावणं लोकरावणम् ।
कुम्भकर्णं शूर्पणखां पुत्रीं तं च बिभीषणम् ॥ ४ ॥

रावणः कुम्भकर्णश्च प्रतापी च बिभीषणः ।
तपस्तेपुः सुविपुलं सहस्त्रदशकाब्दकम् ॥ ५ ॥

प्रसन्नश्च ततो ब्रह्मा वरदस्तान् समाययौ ।
रावणो वरयामास राज्यं निहतकण्टकम् ॥ ६ ॥

भूर्भुव:स्वस्त्रयाणां स लोकानां बलगर्वितः ।
सर्वेभ्यश्चामृतिं तद्वद्विस्मृतौ कपिमानुषौ ॥ ७ ॥

कुम्भकर्णोऽभवद्वाण्या मोहितो वरमुत्तमम् ।
षण्मासनिद्रया युक्तं वव्रे तं वरदं प्रभुम् ॥ ८ ॥

बिभीषणस्तु धर्मात्मा स्वधर्मरुचिदं वरम् ।
वरयामास धातारं विष्णुभक्तिं सुभावतः ॥ ९ ॥

ब्रह्मा दत्वा वरांस्तेभ्यो ययौ स्थानं निजं ततः ।
ते रक्षःप्रवरा जातास्त्रिषु लोकेषु विश्रुताः ॥ १० ॥

जित्वा त्रिभुवनं दक्ष रावणः षष्टिलक्षकम् ।
वर्षाणां मानुषाणां स राज्यं चक्रे सहानुजः ॥ ११ ॥

रामेण स हतो दुष्टः कुम्भकर्णश्च रावणः ।
बिभीषणं ततो राज्ये स्थापयामास राघवः ॥ १२ ॥

तपस्तप्त्वा वैश्रवणो गणेशस्य महात्मनः ।
एकाक्षरविधानेन तोषयामास विघ्नपम् ॥ १३ ॥

दशवर्षसहस्रैस्तु प्रसन्नोऽभूद्गजाननः ।
भक्तिं स्वचरणे तस्मै ददौ शङ्करमित्रताम् ॥ १४ ॥

उत्तराशापतिं चक्रे धनपालाभिधं तथा ।
ततो देवेषु विख्यातः कुबेरः प्रबभूव ह ॥ १५ ॥

पुष्पोत्कटा विश्रवसोऽजनयच्च महोदरम् ।
महापार्श्वं प्रहस्तं च खरं कुम्भीनसीं सुताम् ॥ १६ ॥

राका सञ्जनयामास त्रिशिरस्कं च दूषणम् ।
विद्युज्जिह्वं महाकालं विश्रवस्तः प्रजापते ॥ १७ ॥

इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दश ।
विख्याताः पुरुषश्रेष्ठा राक्षसानां महाबलाः ॥ १८ ॥

पुलहस्य मृगाः सर्वे पुत्रा व्यालाश्च दंष्ट्रिणः ।
पिशाचा बहवो भूताः शूकरा हस्तिनस्तथा ॥ १९ ॥

अनपत्यः क्रतुश्चात्र स्मृतो वैवस्वतान्तरे ।
मरीचेः कश्यपः पुत्रः स जातो वै प्रजापतिः ॥ २० ॥

भृगोः पुत्रस्तु मेधावी दैत्याचार्यो महायशाः ।
स्वाध्यायनिरतः काव्यो बभूवे च प्रजापते ॥ २१ ॥

शैवमार्गरतो भूत्वा सदा शङ्करपूजकः ।
कैलासं प्राप शान्त्यर्थं बोधितोऽभूत् हरेण च ॥ २२ ॥

शान्तियोगस्य सिद्ध्यर्थं गणेशमभजत् कविः ।
क्रमेण शान्तिमापन्नो गाणपत्यो बभूव सः ॥ २३ ॥

अत्रेः पुत्रोऽभवत् सोमोऽमृतरूपमयो महान् ।
अरुन्धत्यां वसिष्ठाद्वै शक्तिः पुत्रो बभूव ह ॥ २४ ॥

तस्मात् पराशरः साक्षात्तपोनिधिरजायत ।
शङ्करस्य सदा भक्तिं चकार परमादरात् ॥ २५ ॥

[[६१]]

वसिष्ठं योगशास्त्रज्ञं पितामहमनिन्दितम् ।
स्वकर्मकुशलं शान्तमपृच्छच्छान्तिहेतवे ॥ २६ ॥

पराशर उवाच ।

शिवोऽयं मोहहीनश्च नेति कर्ताव्ययः स्मृतः ।
कथं ब्रह्मणि निर्मोहे भवेन् मोहो भ्रमपदः ॥ २७ ॥

मुद्गल उवाच ।

पराशरवचः श्रुत्वा वसिष्ठस्तमुवाच ह ।
हर्षयुक्तः स्वपौत्राय शान्तियोगं सनातनम् ॥ २८ ॥

वसिष्ठ उवाच ।

शृणु पुत्र प्रवक्ष्यामि ब्रह्मणा कथितं च मे ।
योगं शान्तिकरं तुभ्यं कथयामि विशेषतः ॥ २९ ॥

अहं शान्त्यर्थमत्यन्तं भ्रमितो ना लभे च ताम् ।
गतो लोके प्रविख्याते ब्रह्मणः परमेष्ठिनः ॥ ३० ॥

तत्र सम्पूजयन्तं वै ब्रह्माणं दृष्टवानहम् ।
गणेशमूर्तिं वै पुत्र संस्थितोऽहं प्रणम्य ताम् ॥ ३१ ॥

पूजाविधिं समाप्याऽसौ सभायां समुपागतः ।
तत्राऽहं विनतो भूत्वा ह्यवदं तं महाद्युतिम् ॥ ३२ ॥

त्वत्तः सर्वाणि भूतानि जायन्ते नात्र संशयः ।
त्वयि नाथ प्रलीयन्ते परं त्वत्तो न विद्यते ॥ ३३ ॥

त्वयाऽसौ पूजितः कस्मात् कः श्रेष्ठो वद साम्प्रतम् ।
बहुवर्षमहं भ्रान्तो नाऽलभे शान्तिमुत्तमाम् ॥ ३४ ॥

मदीयवचनं श्रुत्वा ब्रह्मा हर्षसमन्वितः ।
जगाद मां यथायोग्यं पात्रं दृष्ट्वा पितामहः ॥ ३५ ॥

ब्रह्मोवाच ।
शृणु पुत्र महाभाग गणेशो योगशान्तिदः ।
अस्माकं कुलदेवश्च सर्वेषां सोऽपि निश्चितम् ॥ ३६ ॥

तस्माद्वयं समुत्पन्नास्तेन संस्थापिताः पदे ।
सर्वसिद्धिप्रदातारं तं भजामि निरन्तरम् ॥ ३७ ॥

अन्ते तत्रैव लीनाश्च वयं पुत्र न संशयः ।
तस्मादादौ गणेशानः पूज्यो माता पिता स्मृतः ॥ ३८ ॥

ज्येष्ठराजपदं पश्य वेदेषु कथितं सुत ।
तस्माज्ज्येष्ठो न वेदेष्वादिः सर्वेभ्यो गणेश्वरः ॥ ३९ ॥

य आदिः स भवेदन्ते कथितं शास्त्रसम्मतम् ।
अतस्तत्र वयं लीना भविष्यामो न संशयः ॥ ४० ॥

मध्ये नानाविधः सोऽपि कलांशेन गजाननः ।
प्रक्रीडति कलांशाश्च वयं तस्य स्मृताः सुत ॥ ४१ ॥

शान्तिमिच्छसि चेत्पुत्र तां वदामि समासतः ।
पञ्चधा चित्तवृत्तिं त्वं त्यक्त्वा शान्तो भविष्यसि ॥ ४२ ॥

क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् ।
चिन्तामणिः समाख्यातस्तेन चित्तं प्रकाशितम् ॥ ४३ ॥

अहं गणेशरूपश्चेत् संयोगायोगता च मे ।
नास्ति ह्यतो भिन्नभावस्तेन भ्रान्तिर्गता भवेत् ॥ ४४ ॥

जगत् सुब्रह्म सुप्रोक्तमैश्वर्यमतुलं बुधैः ।
जानीहि सिद्धिरूपं त्वं भ्रान्तिदायकमञ्जसा ॥ ४५ ॥

जगद्ब्रह्ममयाकारा बुद्धिः शास्त्रेषु कथ्यते ।
पञ्चधा सा समाख्याता चित्तरूपा न संशयः ॥ ४६ ॥

तयोः प्रकाशकं बिम्बं गणेशस्य महात्मनः ।
मोहितं पश्य मायाभ्यां तदाकारं हृदि स्थितम् ॥ ४७ ॥

बिम्बभावं त्यज त्वं वै तदा शान्तिं गमिष्यसि ।
चित्तमैश्वर्यमोहश्च बिम्बं नैव प्रदृश्यते ॥ ४८ ॥

एवमुक्त्वा स्वयं मां स विरराम पितामहः ।
अहं प्रणम्य तं देवं प्रादक्षिण्येन निर्गतः ॥ ४९ ॥

[[६२]]

गत्वा वनान्तरं पुत्र अतपं तप उत्तमम् ।
एकाक्षरेण मन्त्रेण ध्यात्वा जपपरायणः ॥ ५० ॥

क्रमेण योगभूमीनां भ्रान्तिं त्यक्त्वा महामुने ।
चिन्तामणिः स्वयं साक्षादभवं शान्तियोगधृक् ॥ ५१ ॥

तथाऽपि गणराजस्य मन्त्रध्यानं महात्मनः ।
दर्शनार्थं तपश्चोग्रमकार्षं च हितावहम् ॥ ५२ ॥

पूर्णे वर्षशते वै मां ययौ देवो गजाननः ।
प्रत्यक्षं मूषकारूढो योगशान्तिस्वरूपधृक् ॥ ५३ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते वसिष्ठतपोवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥