२८ कश्यपसृष्टिवर्णनम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

दक्षः प्राचेतसो राजा तताप तप उत्तमम् ।
शतवर्षैर्गणाध्यक्षः प्रसन्नो वरदोऽभवत् ॥ १ ॥

गणेशवरदानेन स सिद्धः ससृजे प्रजाः ।
देवा यक्षा मनुष्याश्च पिशाचाद्याः सहस्रशः ॥ २ ॥

नानाविधाः प्रजाः सृष्ट्वाऽवर्धन्त नयदा तदा ।
धरण्यां मैथुनीं सृष्टिं ससृजे स प्रजापतिः ॥ ३ ॥

दशाभवन् सहस्राणां पुत्रास्तस्मान् महौजसः ।
तानुवाच स्वयं दक्षः सृजध्वं तपसा युताः ॥ ४ ॥

तथेति तं प्रणम्यादौ गतास्तपस आदरात् ।
तेषां मार्गे ब्रह्मपुत्रो नारदः सहसाऽऽगतः ॥ ५ ॥

उवाच विधिवत्तान् स योगमार्गं सनातनम् ।
तेन युक्ताश्च ते सर्वे न चक्रुः सृष्टिमुत्तमाम् ॥ ६ ॥

कर्ममार्गं परित्यज्य गाणपत्याश्च तेऽभवन् ।
गताः स्वेच्छाचराः सर्वे भ्रमहीना जितेन्द्रियाः ॥ ७ ॥

ज्ञात्वा नष्टान् स्वपुत्रान् स पुनर्दक्षः ससर्ज ह ।
असिक्न्यां चैव पुत्राणां सहस्रं तेजसा युतम् ॥ ८ ॥

स तानुवाच प्रीतात्मा तपसा स्मृष्टिमुत्तमाम् ।
कुरुध्वं ते प्रणम्याऽऽदौ तं वनं ययुरादरात् ॥ ९ ॥

पुनस्तान्नारदस्तद्वद्ददौ ज्ञानं सुनिर्मलम् ।
तेऽपि योगयुताः सर्वे ययुः स्वेच्छाविहारिणः ॥ १० ॥

ज्ञात्वा वृत्तान्तमुग्रं वै दक्षः क्रोधसमन्वितः ।
शशाप नारदं ब्रह्मपुत्रं परमभाविकम् ॥ ११ ॥

त्वया पुत्रा मदीयाश्च नाशिताः कर्ममार्गतः ।
वर्णाश्रमक्रमेणैव युक्ता भ्रष्टाः कृताः खलु ॥ १२ ॥

नारद त्वमतो दुष्ट प्रजाहीनो भविष्यसि ।
द्विमुहूर्तात् परं कालं न स्थातुं शक्यते त्वया ॥ १३ ॥

यत्र कुत्र महीदेशे स्वर्गे पातालके पदे ।
भ्रमिष्यसि महादुष्ट मच्छापान्नात्र संशयः ॥ १४ ॥

एवं शप्त्वा स्वयं दक्षो ययौ ब्रह्माणमादरात् ।
तं प्रणम्य जगन्नाथमुवाच विनयान्वितः ॥ १५ ॥

सृष्टिं करोमि देवेश केन मार्गेण तद्वद ।
नारदो दुष्टभावेन मोघां सृष्टिं स मेऽकरोत् ॥ १६ ॥

तमुवाच ततो ब्रह्मा सृज कन्याः सुलोचनाः ।
तथेति स ययौ स्थानं स्वकीयं स्रष्टुमारभत् ॥ १७ ॥

षष्टिं दक्षोऽसृजत्कन्या वीरिण्यां तेजसान्वितः ।
चारुरूपा महाभागा मातरः सर्वदेहिनाम् ॥ १८ ॥

ददौ स दश धर्माय कश्यपाय त्रयोदश ।
सप्तविंशतिमब्जाय चतस्रोऽरिष्टनेमये ॥ १९ ॥

द्वे ददौ बहुपुत्राय द्वे कृशाश्वाय भावतः ।
द्वे चाप्यङ्गिरसे तद्वद्वक्ष्ये तासां च विस्तरम् ॥ २० ॥

मरुत्वती वसुर्यामी लम्बा भानुररुन्धती ।
सङ्कल्पा च मुहूर्ता वै साध्या विश्वा च भामिनी ॥ २१ ॥

धर्मपत्न्यो दशैताश्च तासां पुत्रान्निबोध च ।
विश्वेदेवाश्च विश्वायाः साध्यासाध्यानजीजनत् ॥ २२ ॥

मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवः स्मृताः ।
भानोश्च भानवः सर्वे मुहूर्ताया मुहूर्तकाः ॥ २३ ॥

लम्बाया नादघोषौ च यामीजो नागवीथिकः ।
पृथिव्यां विषमं सर्वमरुन्धत्यामजायत ॥ २४ ॥

सङ्कल्पायास्तु सङ्कल्पा धर्मपुत्रा इमे स्मृताः ।
तेषां पुत्रैश्च पुत्रीभिरखिलं वर्धितं जगत् ॥ २५ ॥

[[५९]]

आपो ध्रुवोऽथ सोमश्च धन्यश्चैवानलोऽनिलः ।
प्रत्यूषोऽथ प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ २६ ॥

अदितिश्च दितिः कद्रुररिष्टा सुरसा दनुः ।
सुरभिर्विनता चैव ताम्रा क्रोधवशा त्विरा ॥ २७ ॥

मुनिः खशा च धर्मज्ञा तासां पुत्रान्निबोध वै ।
विवस्वानथ धाता च भगस्त्वष्टा तथांशकः ॥ २८ ॥

वरुणाद्याश्च ये देवा ते सर्वे चादितेः सुताः ।
दितेश्च सकला दैत्याः पुत्राः शास्त्रेषु सम्मताः ॥ २९ ॥

तथैव च दनोः पुत्रास्ताराद्या दानवाः स्मृताः ।
तारोऽथ विप्रचित्तिश्च शम्बरः कपिलस्तथा ॥ ३० ॥

स्वर्भानुः सङ्करश्चैव वृषपर्वा च वीर्यवान् ।
प्राधान्येनासुराः श्रेष्ठा दानवाः कथिता मया ॥ ३१ ॥

सुरसायाः सहस्रं च सर्पाणामभवत्तथा ।
अरिष्टा जनयामास गन्धर्वाणां सहस्रकम् ॥ ३२ ॥

शेषाद्याश्च महानागाः कद्रोः पुत्राः प्रजापते ।
ताम्रा च जनयामास कन्याषट्कं सुलोचनम् ॥ ३३ ॥

शुकी श्येनी च भासी च सुग्रीवा ग्रन्थिका शुचिः ।
तासां पुत्रादिभिः सर्वं पक्षिवृन्दं बभूव ह ॥ ३४ ॥

सुरभिर्जनयामास महिषीर्गाः प्रजापते ।
इरा वृक्षलता वल्ली तृणजातीश्च सर्वशः ॥ ३५ ॥

मुनेः पुत्रास्तथा प्रोक्ता यक्षाः पुण्यजनास्तथा ।
रक्षोगणं क्रोधवशा जनयामास दारुणम् ॥ ३६ ॥

विनतायाश्च पुत्रौ द्वावरुणो गरुडोऽपरः ।
खशायाः खेचराः पुत्राः प्रेताद्याश्च प्रजापते ॥ ३७ ॥

एते कश्यपदायादा जङ्गमस्थावरात्मकाः ।
वैवस्वतेन्तरे ह्यस्मिन् प्रख्याताः कथिता मया ॥ ३८ ॥

अरिष्टनेमिपुत्राश्च वेधसो रूपधारकाः ।
बहुपुत्रस्य पत्न्योस्तु चतस्रो विद्युतः स्मृताः ॥ ३९ ॥

तथा चाङ्गिरसः पत्न्योर्ऋषयो वृषसत्कृताः ।
कृशाश्वस्य च देवर्षिदेवः प्रहरणः सुतः ॥ ४० ॥

एते युगसहस्रान्ते जायन्ते पुनरेव च ।
मन्वन्तरेषु सर्वेषु तुल्यकार्यैः स्वनामभिः ॥ ४१ ॥

पुत्रान् ब्रह्मर्षिरुत्पाद्य कश्यपस्तोषवर्जितः ।
तताप तप उग्रं वै पुत्रार्थे परमार्थवित् ॥ ४२ ॥

तस्यैवं तपतः पुत्रौ प्रादुर्भूतौ महौजसौ ।
वत्सरश्चासितो नाम्ना तावुभौ ब्रह्मवादिनौ ॥ ४३ ॥

वत्सरान्नैध्रुवो जज्ञे रैभ्यश्च सुमहायशाः ।
रैभ्याच्च जज्ञिरे रुद्राः पुत्रा द्युतिमतां वराः ॥ ४४ ॥

च्यवनस्य सुता भार्या नैध्रुवस्य महात्मनः ।
सुमेधा जनयामास पुत्रान् वै कुण्डपायिनः ॥ ४५ ॥

असिताच्चैकपर्णायां ब्रह्मिष्ठः समपद्यत ।
नाम्ना वै देवलः पुत्रो योगाचार्यश्च स स्मृतः ॥ ४६ ॥

शाण्डिल्यः परमो योगी सर्वतत्त्वार्थविच्छुचिः ।
इत्याद्या बहवः पुत्राः कश्यपस्य मयोदिताः ॥ ४७ ॥

एते च स्मरणाज्जन्तोः कामपूरा भवन्ति च ।
पठनान्नात्र सन्देहो मूलरूपाः प्रकीर्तिताः ॥ ४८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते कश्यपसृष्टिवर्णनं नाम अष्टाविंशतितमोऽध्यायः ॥

[[६०]]