॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
प्राचीनबर्हिषः पुत्रास्तेपुस्ते तप उत्तमम् ।
सहस्रवर्षपर्यन्तं ततस्तुष्टो जनार्दनः ॥ १ ॥
आययौ तान् वरं दातुं गरुडस्थश्चतुर्भुजः ।
तं दृष्ट्वा ते प्रणेमुश्चापूजयंस्तुष्टुवुर्मुदा ॥ २ ॥
प्रचेतस ऊचुः ।
नमस्ते केशवायैव नमस्ते भूतभावन ।
निराकाराय कृष्णाय विष्णवे प्रभविष्णवे ॥ ३ ॥
आदिमध्यान्तहीनाय वासुदेवाय ते नमः ।
सर्वाज्ञानविनाशाय ज्ञानदात्रे कृपालवे ॥ ४ ॥
लक्ष्मीपते नमस्तुभ्यं भक्तसंरक्षकाय च ।
भक्तिप्रियाय देवाय शेषशायिन्नमोऽस्तु ते ॥ ५ ॥
भक्तिमुक्तिप्रदायैव विकुण्ठपतये नमः ।
नारायणाय शान्ताय सत्त्वयुक्ताय ते नमः ॥ ६ ॥
वयं सपितरो धन्या यैः प्रदृष्टो जनार्दनः ।
वरं देहि विशेषेण सृष्टिसामर्थ्यदायकम् ॥ ७ ॥
एवं स्तुतः प्रसन्नात्मा तानुवाच स्वयं हरिः ।
सामर्थ्यमतुलं सृष्टौ भविष्यति च वः सुखम् ॥ ८ ॥
तपसा सिद्धरूपाश्च भवन्तो नात्र संशयः ।
यद्यदिच्छथ तत्तद्वः सफलं प्रभविष्यति ॥ ९ ॥
भवत्कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ।
पठतां शृण्वतां चैव मत्प्रसादकरं परम् ॥ १० ॥
एवमुक्वान्तर्दधेऽसौ विष्णुः परपुरञ्जयः ।
तेऽपि त्यक्त्वाऽऽश्रमं सद्यो जग्मुः स्वगृहमुत्तमम् ॥ ११ ॥
गच्छतां पथि तेषां वै मार्गे वृक्षा अनेकशः ।
अराजके समुत्पन्ना मार्गरोधनकारकाः ॥ १२ ॥
[[५७]]
तान् दृष्ट्वा क्रोधयुक्तास्ते ससृजुर्वह्निमुल्बणम् ।
तेन दग्धा वने वृक्षाः सकला यत्र तत्र च ॥ १३ ॥
तेषु स्वल्पस्थितेष्वेव चन्द्रस्तत्र समागतः ।
प्रगृह्य वृक्षजां कन्यां ददौ तेभ्यो यथाविधि ॥ १४ ॥
ऋषिवीर्यात्समुत्पन्नाऽप्सरः सुद्रुमपालिता ।
प्रगृह्य तां शान्तिमाप्ता अग्निं चक्रुः सुशान्तिदम् ॥ १५ ॥
स्वराज्यं प्राप्य ते सर्वे पालयामासुरादरात् ।
प्रजाः पुत्रानिवाध्यक्षा यन्त्रितास्ते प्रचेतसः ॥ १६ ॥
मारिषायां प्रचेतोभ्यो दक्ष त्वं त्वभवस्तदा ।
रुद्रशापेन सर्वज्ञस्तथा वै तेजसा युतः ॥ १७ ॥
गणेशवरदानेन ब्रह्मपुत्र त्वमञ्जसा ।
न गमिष्यति ते दक्ष प्रजापालो भविष्यसि ॥ १८ ॥
त्वां च राज्ये समास्थाप्य वनं चायुः प्रचेतसः ।
तेपुस्तत्र तपो घोरं योगशान्त्यर्थमादरात् ॥ १९ ॥
तत्राऽपि नारदो योगी गणेशे गानतत्परः ।
आययौ परमप्रीतः प्रचेतसां हितं चरन् ॥ २० ॥
तं दृष्ट्वा हर्षिताः सर्वे महौजस्काः प्रचेतसः ।
नेमुः सम्पूज्य तं भक्त्या स्थिताःप्राञ्जलयोऽभवन् ॥ २१ ॥
तानुवाच मुनिश्रेष्ठः किमिच्छावः प्रचेतसः ।
ब्रूत तां पूरयिष्यामि भवतां भावतोषितः ॥ २२ ॥
नारदस्य वचः श्रुत्वा प्रोचुस्तं ते प्रचेतसः ।
वद त्वं शान्तिदं योगं कृपया करुणानिधे ॥ २३ ॥
श्रुत्वा स वचनं तेषां हर्षेण महताऽऽवृतः ।
उवाच सकलं योगं योगशान्तिपदप्रदम् ॥ २४ ॥
नारद उवाच ।
शान्तियोगात्मकं भूपा गणेशं कथयन्ति वै ।
योगज्ञा ब्रह्मभूताश्च तं भजध्वं प्रचेतसः ॥ २५ ॥
अहं गणेशाभिन्नश्च योगोऽयं शान्तिदायकः ।
कथितो विष्णुना पूर्वं मह्यं शान्तिप्रदः परः ॥ २६ ॥
तेन शान्तिं समास्थाय चरामि गणपं स्मरन् ।
गतभ्रान्तिश्च सर्वत्र हर्षयुक्तेन चेतसा ॥ २७ ॥
चित्तस्य पञ्चभूमीनां भ्रान्तिं त्यक्त्वा नरः सदा ।
योगरूपो न सन्देहो भवेद्वै शान्तिरूपगः ॥ २८ ॥
सर्वं मायामयं प्रोक्तं भ्रान्तिदं बुद्धिलालितम् ।
त्यक्त्वा तद् योगिनः शान्ता भवेतैव प्रचेतसः ॥ २९ ॥
एवमुक्त्वा महायोगी नारदः स्वेच्छया ययौ ।
हेरम्बेति स्मरन् स्वर्गे कैलासे हर्षसंयुतः ॥ ३० ॥
तेऽपि प्रचेतसः सर्वे कथितं योगमादरात् ।
क्रमेण साधयित्वा तं गाणपा अभवन् पराः ॥ ३१ ॥
अन्ते गणेशदेहे ते तदाकाराः प्रजापते ।
जाता ब्रह्ममयाः शान्ता महौजस्काः प्रचेतसः ॥ ३२ ॥
प्रचेतसां चरित्रं यः पठेद्वै यः शृणोति वा ।
तस्य भुक्तिश्च मुक्तिर्वै भविष्यति सुखप्रदा ॥ ३३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते प्रचेतसां चरितं नाम सप्तविंशतितमोऽध्यायः ॥
[[५८]]