२६ प्राचीनबर्हिषश्चरितम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

तदन्वये च सम्भूतो बर्हिषो नाम पार्थिवः ।
धर्मात्मा शस्त्रधारी स प्रजानां पालने रतः ॥ १ ॥

स यज्ञान्विविधान् चक्रे कर्ममार्गपरायणः ।
प्राचीनाग्रकुशैः सर्वान् छादयामास मेदिनीम् ॥ २ ॥

मृगयार्थं वनं यातः समुद्रतनयां तदा ।
उपयेमे स भूपालस्तस्यां पुत्रा दशाऽभवन् ॥ ३ ॥

सर्वे समानवर्णास्ते समाचाराः प्रजापते ।
समानमानसास्तेन नाम्नाऽऽख्याताः प्रचेतसः ॥ ४ ॥

प्रजार्थं ते समुद्रस्य समीपे तपसि स्थिताः ।
सरो नारायणाख्यं च तत्र विष्णुमपूजयन् ॥ ५ ॥

प्राचीनबर्हिराजर्षिं स्वगृहे कर्मकारकम् ।
स्थितं ज्ञात्वा समायातो नारदः करुणानिधिः ॥ ६ ॥

तं राजाऽपूजयत् भक्त्या कृताञ्जलिपुटः स्थितः ।
तमुवाच मुनिश्रेष्ठो राजानं ज्ञानदायकः ॥ ७ ॥

नारद उवाच ।

किं राजन् कर्मणा ते वै भविष्यति वद प्रभो ।
बन्धदं कर्म वेदेषु प्रोक्तं तन्नात्र संशयः ॥ ८ ॥

यज्ञैर्नानाविधैः सर्वं कृतं कर्म त्वया महत् ।
घोरं हिंसात्मकं नित्यं नानापशुवधाश्रयम् ॥ ९ ॥

प्रहताः पशवः सर्वे त्वां प्रतीक्षन्त ओजसा ।
वधार्थं तव चात्यन्तं क्रोधयुक्ता न संशयः ॥ १० ॥

अधुना वृद्धरूपस्त्वं त्यक्त्वा कर्म महीपते ।
कर्माङ्कुराग्निरूपं वै ज्ञानमार्गं समाश्रय ॥ ११ ॥

[[५५]]

मुद्गल उवाच ।

नारदस्य वचः श्रुत्वा विस्मितः स नृपोऽब्रवीत् ।
तं पुनस्तस्य भावज्ञो विनयेन समन्वितः ॥ १२ ॥

प्राचीनबर्हिरुवाच ।
अहं कर्मपरं भावं जानामि मुनिसत्तम ।
कर्मणा लभते जन्तुर्जानामि न च संशयः ॥ १३ ॥

वद ज्ञानं विभो किं तत् कर्म मूलनिकृन्तनम् ।
दयया च दयासिन्धो मां तारय भवार्णवात् ॥ १४ ॥

तस्य तद्वचनं श्रुत्वा ज्ञात्वा कर्मपरायणम् ।
कर्मणा शुद्धरूपं तमुवाच मुनिसत्तमः ॥ १५ ॥

नारद उवाच ।

ज्ञानं योगमयं विद्धि योगोऽभेदात्मकः स्मृतः ।
ब्रह्मणि ब्रह्मभूतश्च योगी योगेन जायते ॥ १६ ॥

देहेऽस्मिन् पश्य राजेन्द्र बिम्बं गणपतेः स्मृतम् ।
मोहयुक्तं तदाकारं जीवरूपं हृदि स्थितम् ॥ १७ ॥

पञ्चधा चित्तवृत्तिश्च वर्तते नृपसत्तम ।
क्षिप्ता मूढा च विक्षिप्तैकाग्राऽपि च निरोधिका ॥ १८ ॥

यत्र क्षिप्तं नरेणैव चित्तं तज्ज्ञायते हृदा ।
तदेव क्षिप्तरूपं त्वं चित्तं जानीहि पार्थिव ॥ १९ ॥

क्षिप्तं चित्तं नरेणैतन् मूढवत्तन्न बुध्यति ।
अन्यथा च भवेज्ज्ञानं मूढरूपं च तत्स्मृतम् ॥ २० ॥

मुमुक्षूणां भवेच्चित्तं विक्षिप्तं ब्रह्मलालसम् ।
न संसारसुखे मग्नं तन्न ब्रह्मणि सङ्गतम् ॥ २१ ॥

एकाग्रं सर्वभावेषु ह्यात्माकारेण संस्थितम् ।
अन्तर्ज्ञानेन तद्रूपं पश्येद्वै योगसेवया ॥ २२ ॥

निरोधं देहदेहिभ्यो हीनं निर्वृतिदायकम् ।
संयोगायोगरूपान्तं लभते योगसेवया ॥ २३ ॥

पञ्चधा कथितं भूप चित्तं सा बुद्धिरुत्तमा ।
जानीहि हृदये स्थित्वा गणपेन च खेलति ॥ २४ ॥

पञ्चधा चित्तवृत्तिर्या तत्र मोहः प्रकीर्तितः ।
स्वस्वस्थानकरूपस्थैश्चर्यरूपो महीपते ॥ २५ ॥

ऐश्वर्यभ्रान्तिरूपा सा सिद्धिः सर्वत्र वर्तते ।
धर्मार्थकाममोक्षाणां ब्रह्मणः पञ्चधा स्मृता ॥ २६ ॥

भ्रामयन्तीह भूतानि गणपेन च खेलति ।
मया सा कथिता माया नृप नास्त्यत्र संशयः ॥ २७ ॥

ज्ञानरूपा स्वयं बुद्धिरैश्वर्यात् सिद्धिरुच्यते ।
तयोर्बिबं गणेशस्य भ्रमाढ्यं जीवसञ्ज्ञितम् ॥ २८ ॥

मायामयं सदा जातं माया सौख्ये प्रलालसम् ।
बन्धयुक्तं महीपाल हृदि पश्य प्रकाशकम् ॥ २९ ॥

पञ्चधा चित्तवृत्तिश्च तेन सर्वा प्रकाशिता ।
चिन्तामणिरिति ख्यातिं गणेशस्य वदन्त्यतः ॥ ३० ॥

देहश्चतुर्विधः प्रोक्तः स्थूलः सूक्ष्मः समात्मकः ।
नादरूपश्चतुर्थो वै बिन्दुस्तेषां परा गतिः ॥ ३१ ॥

देहेषु देहभोगस्थो देही भ्रान्त्या चतुर्विधः ।
एकोऽपि ब्रह्म तेषां वै सोऽहं विद्धि नराधिप ॥ ३२ ॥

तद्योगे स्वत उत्थानं ब्रह्म वेदे प्रतिष्ठितम् ।
सत्यं परत उत्थानरूपं सौख्यमयं परम् ॥ ३३ ॥

तयोर्योगे स्वसंवेद्यं ब्रह्म पञ्चविधं स्मृतम् ।
सत्यासत्यसमाकारनेतिभेदात्मकं परम् ॥ ३४ ॥

संयोगो ब्रह्मणां यत्र योगाभेदेन शाश्वतः ।
समाधिसुखदः प्रोक्तः स्वानन्द इति कथ्यते ॥ ३५ ॥

अयोगमेतद्रहितं ब्रह्मनिर्वृतिदायकम् ।
संयोगायोगयोर्नाशे योगः शान्तिप्रदायकः ॥ ३६ ॥

[[५६]]

गणेशोऽयं महाराज समूहानां पतिः स्मृतः ।
समूहा ब्रह्मरूपाश्च ज्ञातव्या ज्ञानचक्षुषा ॥ ३७ ॥

तं भजस्व महीपाल हृदिस्थं गणनायकम् ।
बुद्धिप्रकाशकं पूर्णं बुद्धीशं शान्तिदायकम् ॥ ३८ ॥

एवमुक्त्वा महायोगी नारदो विरराम ह ।
सोऽपि श्रुत्वा प्रणम्यादावुवाच मुनिपुङ्गवम् ॥ ३९ ॥

प्राचीनबर्हिरुवाच ।
भो भो योगिन् दयासिन्धो तारितोऽहं त्वयाधुना ।
मत्समीपस्थिता विप्रा न जानन्ति त्विदं परम् ॥ ४० ॥

नारदोऽन्तर्दधे सद्यः प्रययौ गणपं स्मरन् ।
वीणागानरतो योगी स्वेच्छाचारी सदासुखी ॥ ४१ ॥

प्राचीनबर्हिराजर्षिस्त्यक्त्वाऽमात्येषु सत्वरम् ।
राज्यं वनं ययौ सोऽपि गणेशध्यानतत्परः ॥ ४२ ॥

नारदेन यथा तस्य कथितं ज्ञानमुत्तमम् ।
यथायोगं क्रमेणापि योगी गाणेशकोऽभवत् ॥ ४३ ॥

अन्ते लयं ययौ राजा गणेशे ब्रह्मरूपिणि ।
ब्रह्मभूतो नृपश्रेष्ठः कथितोऽसौ प्रजापते ॥ ४४ ॥

प्राचीनबर्हिराजर्षेश्चरितं यः शृणोति च ।
पठेद्वा तस्य पापं हि नाशयेत् सर्वदं भवेत् ॥ ४५ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते प्राचीनबर्हिषश्चरितं नाम षड्विंशतितमोऽध्यायः ॥