॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
जनानां धर्ममार्गं सो शिक्षयन्नृपसत्तमः ।
विष्णुरूपः स्वयं साक्षाद्विष्णुतुल्यपराक्रमः ॥ १ ॥
संस्थितः स्वपुरे राजा लोकान् संरञ्जयन् प्रभो ।
तत्राऽऽजग्मुश्च योगीन्द्राः सनकाद्या विधेः सुताः ॥ २ ॥
चत्वारः सूर्यसङ्काशाः सदा बालवयोन्विताः ।
पूर्वेषां पूर्वजा मान्या गतभ्रान्तय एव ते ॥ ३ ॥
तान् दृष्ट्वा सहसोत्थाय सम्भ्रमेण नरोत्तमः ।
ननाम दण्डवद्भूमौ शिरः संस्थाप्य पादयोः ॥ ४ ॥
उत्थाय तान् महाभक्त्या पाद्यार्घ्यैर्विष्टरादिभिः ।
अपूजयत्स विधिवत् हर्षितोऽत्यन्तभावतः ॥ ५ ॥
[[५२]]
पादसंवाहनं तेषां चकार स्वयमादरात् ।
उवाच मधुरं वाक्यं पृथुर्वाक्यविशारदः ॥ ६ ॥
पृथुरुवाच ।
धन्येयं धरणी त्वद्य धन्यं नगरमुत्तमम् ।
मन्दिरं सत्कृतं सर्वं भवतामागमेन मे ॥ ७ ॥
धन्यो वंशो कुलं धन्यं पितरौ ज्ञानमाश्रमः ।
तपो विद्यादिकं मे च भवतां पाददर्शनात् ॥ ८ ॥
सनाथोऽहं कृतोऽनाथो भवद्भिर्नात्र संशयः ।
अनुग्रहः कृतोऽत्यन्तं विशेषेण दयालुभिः ॥ ९ ॥
पूर्वजन्मार्जितं मे किं फलितं पुण्यमुत्तमम् ।
अन्यथा दर्शनं न स्याद्भवतां ब्रह्मरूपिणाम् ॥ १० ॥
निःस्पृहा योगनिष्ठा ये सर्वज्ञाः स्वपरायणम् ।
दृष्ट्वा कुर्वन्ति कार्यार्थमाज्ञां तस्य हिताय च ॥ ११ ॥
अत आज्ञां महाभागा मम कुर्वन्तु साम्प्रतम् ।
तयाऽहं कृतकृत्यश्च भवामि न च संशयः ॥ १२ ॥
मुद्गल उवाच ।
पृथोर्वचनमाकर्ण्य सनकाद्यास्तमब्रुवन् ।
तृप्ता भावेन तस्याथ योगीन्द्रा योगभाविताः ॥ १३ ॥
सनकाद्या ऊचुः ।
धन्योसि नृपवर्य त्वं पृथो पृथुपराक्रम ।
विनयं तेऽद्य दृष्ट्वा वै सन्तुष्टा वयमादरात् ॥ १४ ॥
न कार्यलिप्सया युक्ता वयं नग्ना महामते ।
दर्शनार्थं च ते याताः साधो स्वर्गे श्रुतं यशः ॥ १५ ॥
आज्ञां देहि गमिष्यामि ब्रह्मलोकं सनातनम् ।
कीर्तिः श्रुता तथा दृष्ट्वा तृप्ता हर्षसमन्विताः ॥ १६ ॥
तेषां तद्वचनं श्रुत्वा पृथुस्तान् विनयान्वितः ।
जगाद भक्तिसंयुक्तो योगीन्द्रान्नृपसत्तमः ॥ १७ ॥
पृथुरुवाच ।
भुक्तं राज्यं महाभागा नानाभोगसमन्वितम् ।
अधुना शान्तिसिध्यर्थं योगं ब्रूत तपोधनाः ॥ १८ ॥
पृथोर्वचनमत्यन्तं श्रुतं योगिभिरादरात् ।
पात्रं दृष्ट्वा महाभागा ऊचुस्तं ब्रह्म शाश्वतम् ॥ १९ ॥
सनकाद्या ऊचुः ।
धन्योऽसि नृपशार्दूल बुद्धिस्ते परमाद्भुता ।
निर्वेदं राज्यभोगेभ्यः सम्प्राप्ता पृथुलश्रवः ॥ २० ॥
योगशान्तिमयं पूर्णं गाणेशं विद्धि भूमिप ।
तं भजस्व महाभक्त्या तया शान्तिं गमिष्यसि ॥ २१ ॥
एकदा स्म वयं सर्वे सङ्गताः शङ्करालयम् ।
वटमूले समासीनमद्राक्ष्म ध्यानसंस्थितम् ॥ २२ ॥
तं प्रणम्य स्थिताः सर्वे वयं विनयसंयुताः ।
स्तोत्रैस्तं बोधयन्तश्च ततः शर्वो बुबोध वै ॥ २३ ॥
त्यक्त्वा ध्यानं गणेशाय नम इत्यवदत्ततः ।
श्रुत्वा भ्रान्ता वयं तं स्म पृच्छामः संशयान्विताः ॥ २४ ॥
कोऽसौ गणाधिपः स्वामिन् कथं नमसि तं प्रभो ।
शिवः सहजरूपस्त्वं स्वाधीनः सततं मतः ॥ २५ ॥
अस्माकं वचनं श्रुत्वा शिवो हर्षसमन्वितः ।
जगाद ज्ञानमाद्यं यद्गाणपत्यं सुशान्तिदम् ॥ २६ ॥
शिव उवाच ।
ब्रह्म यत्कथ्यते वेदैः कथं तत्र प्रवर्तते ।
स्वाधीनं सहजं विप्राः पराधीनं त्रिधा भवेत् ॥ २७ ॥
कर्मयोगादिभेदेन वेदे वै वेदवादिभिः ।
नानाविधं वर्णितं यद्ब्रह्म तन्माययान्वितम् ॥ २८ ॥
कर्मणां सकलानां संयोगो ब्रह्मणि जायते ।
तेन कर्मात्मकं ब्रह्म तद्वद् ज्ञानात्मकं मतम् ॥ २९ ॥
समूहवाची शब्दश्च गण इत्यभिधीयते ।
बाह्यान्तरादिभेदानां संयोगे तु समूहकः ॥ ३० ॥
[[५३]]
अन्नप्राणादिका शब्दा ब्रह्मणो वाचका मताः ।
ते सर्वे गणरूपाश्च तेषां स्वामी गणेश्वरः ॥ ३१ ॥
संयोगायोगकाद्या ये नाना योगा मता बुधैः ।
योगानां योगरूपोऽयं गणेशो नात्र संशयः ॥ ३२ ॥
गणो योगात्मकः प्रोक्तस्तस्मात्तस्य गणा वयम् ।
योगरूपा विशेषेण नमामो भक्तिसंयुताः ॥ ३३ ॥
माया विघ्नात्मिका प्रोक्ता भ्रान्तिदा बिम्बभावतः ।
तां जयन्ति जना ईशा विघ्नराजस्य सेवया ॥ ३४ ॥
ब्रह्मभूतास्ते भवन्ति योगीन्द्रा गाणपाः स्मृताः ।
अहं गणेशरूपो वै भिन्नं मायामयं मतम् ॥ ३५ ॥
चित्तं पञ्चविधं प्रोक्तं सा बुद्धिर्विविधात्मिका ।
तत्रैश्वर्यं च यत्प्रोक्तं सिद्धिः सा परमाद्भुता ॥ ३६ ॥
तत्र यद्बिम्बभावेन गणेशः प्रतितिष्ठति ।
मायाभ्यां मोहितोऽत्यन्तं सर्वत्राऽसौ विराजते ॥ ३७ ॥
बिम्बिभावं परित्यज्य गणेशस्यैव सेवया ।
पञ्चधा चित्तमुत्सृज्य स्वयं चिन्तामणिर्भवेत् ॥ ३८ ॥
गणेशोऽहं यदा विप्रास्तदा कुत्र प्रवर्तते ।
संयोगश्च तथा योगः शान्तियोगं लभे ततः ॥ ३९ ॥
न भिन्नोऽहं कदा तस्माद्गणेशान्नात्र संशयः ।
योगीन्द्रः शान्तियोगेन ब्रह्मभूतो भविष्यति ॥ ४० ॥
एतदेव मदीयं यत् गुह्यं ध्यानं प्रकीर्तितम् ।
अतो गणेशदासोऽहं तं नमामि सदा द्विजाः ॥ ४१ ॥
एवमुक्त्वा महायोगी विरराम स शङ्करः ।
उच्छिन्नसंशया जाताः सनकाद्या वयं नृप ॥ ४२ ॥
विचरामो महीमेतां स्वर्गेषु विवरेषु च ।
योगमार्गेण योगीशा गाणपत्याः स्वभावतः ॥ ४३ ॥
गणेशदर्शने जातलालसा वयमादरात् ।
तस्मिन् काले गणाधीशः कश्यपस्यात्मजोऽभवत् ॥ ४४ ॥
काशीराजो महाभक्तो गाणपत्यपरायणः ।
तस्य गेहे गतो देवः स्वस्य वै कार्यसाधनात् ॥ ४५ ॥
दर्शनार्थं वयं तत्र गताः काश्यां महामते ।
प्रपश्यामो गणेशं स्म ब्रह्मचारिस्वरूपिणम् ॥ ४६ ॥
तं प्रणम्य वयं राजन् स्थिता भक्त्या समन्विताः ।
बालरूपधरं देवं स्म स्तुमो बालयूथगम् ॥ ४७ ॥
सनकादय ऊचुः ।
नमो विनायकायैव कश्यपप्रियसूनवे ।
अदितेर्जठरोत्पन्नब्रह्मचारिन्नमोऽस्तु ते ॥ ४८ ॥
गणेशाय सदा मायाधार चैतद्विवर्जित ।
भक्त्यधीनाय वै तुभ्यं हेरम्बाय नमो नमः ॥ ४९ ॥
त्वं ब्रह्म शाश्वतं देव ब्रह्मणां पतिरोजसा ।
योगायोगादिभेदेन क्रीडसे नात्र संशयः ॥ ५० ॥
आदिमध्यान्तरूपस्त्वं प्रकृतिः पुरुषस्तथा ।
नादानादौ च सूक्ष्मस्त्वं स्थूलरूपो भवान् प्रभो ॥ ५१ ॥
सुरासुरमयः साक्षान्नरनागस्वरूपधृक् ।
जलस्थलादिभेदेन शोभसे त्वं गजानन ॥ ५२ ॥
सर्वेभ्यो वर्जितस्त्वं वै मायाहीनस्वरूपधृक् ।
मायामायिकरूपं त्वां को जानाति गतिं पराम् ॥ ५३ ॥
कथं स्तुमो गणाधीशं योगाकारमयं सदा ।
वेदा न शम्भुमुख्याश्च शक्ताः स्तोतुं कदाचन ॥ ५४ ॥
वयं धन्या वयं धन्या येन प्रत्यक्षतां गतः ।
अस्माकं योगिनां ढुण्ढे कुलदेवस्त्वमञ्जसा ॥ ५५ ॥
[[५४]]
इत्युक्त्वा मौनमास्थाय नमामो दण्डवत् स्म तम् ।
उवाच नो गणाधीशो भक्तिभावनियन्त्रितः ॥ ५६ ॥
विनायक उवाच ।
भवद्भिर्यत्कृतं स्तोत्रं मदीयं योगशान्तिदम् ।
भविष्यति महाभागाः पठते शृण्वते सदा ॥ ५७ ॥
यं यमिच्छति तं तं वै दास्यामि स्तोत्रभावितः ।
भवन्तो गाणपत्याश्च भविष्यथ यथा शिवः ॥ ५८ ॥
एवमुक्त्वा स्वयं बालश्चिक्रीड प्राकृतो यथा ।
बालकैः सह योगात्मा काश्यपः पूर्ववन्नृप ॥ ५९ ॥
वयं काशीपते राजन् दर्शनार्थं गतास्ततः ।
तेनाऽपि मानिताः सम्यक् भुक्त्वा याताः पदे पुनः ॥ ६० ॥
एतत्ते कथितं सर्वं योगशान्तिमयं महत् ।
ज्ञानपूर्णं गणेशाख्यं तं भजस्व नराधिप ॥ ६१ ॥
मुद्गल उवाच ।
एवमुक्त्वा विधेर्लोके ययुस्ते सनकादयः ।
पृथुः पुत्रेषु राज्यं स्वं विभज्य च वनं ययौ ॥ ६२ ॥
तत्र योगक्रमणैव गाणपत्यो बभूव ह ।
पत्न्या सह विनीतात्मा गणेशेऽन्ते लयं ययौ ॥ ६३ ॥
एतत् पृथुलकीर्तेश्च चरितं कथितं पृथोः ।
शृणुयाद्यः पठेद्वापि सर्वदं तस्य तद् भवेत् ॥ ६४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदतञ्चरिते पृथुचरित्रं नाम पञ्चविंशतितमोऽध्यायः ॥