॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
ध्रुवस्यान्वयसम्भूतोऽङ्गस्तेजस्वी महीपतिः ।
धर्मात्मा सर्वमान्यश्च पितृवत् पालकोऽभवत् ॥ १ ॥
मृत्युकन्याऽभवद्भार्या राज्ञस्तस्य महात्मनः ।
तस्यां तस्मात् समुत्पन्नः पुत्रो वेनःसुदारुणः ॥ २ ॥
तं पिता शिक्षयन् श्रान्तो न साधुरभवत् सुतः ।
राज्यं त्यक्त्वा वनं राजा दुःखयुक्तो जगाम ह ॥ ३ ॥
ततो राजविहीने च देशे चोराः प्रबभ्रमुः ।
तैर्लुण्ठितं जनानां स्म सर्वस्वं यत्र तत्र हि ॥ ४ ॥
प्रजाः सर्वा भयोद्विग्ना ब्राह्मणान् शरणं ययुः ।
ब्राह्मणै राज्य आसिक्तः स वेनः पैतृके ततः ॥ ५ ॥
स राज्यं प्राप्य दुर्धर्षश्चोरान् हत्वा समन्ततः ।
राज्यं चकार देशेषु कम्पयन् वसुधातलम् ॥ ६ ॥
नयमार्गं परित्यज्य यथेच्छाचारकोऽभवत् ।
तेन वर्णाश्रमाचारसंयुता दुःखिताः कृताः ॥ ७ ॥
पुनस्ते तापसांस्तान्वै शरणं जग्मुरादरात् ।
तापसैर्वारितो वेनस्तानुवाच द्विजोत्तमान् ॥ ८ ॥
वेन उवाच ।
अहं पूज्यश्च सर्वेषां पालको नात्र संशयः ।
मां भजध्वं मुनीन्द्रा वै योगक्षेमकरं सदा ॥ ९ ॥
तस्य तद्वचनं श्रुत्वा कुपिता ब्राह्मणास्ततः ।
शापेन मारयामासुस्तं नृपं नयवर्जितम् ॥ १० ॥
तस्याङ्गं वाममेवादौ ममन्थुर्नृपहेतवे ।
तस्मात् क्रूरः समुत्पन्नस्यस्य पापमयो नरः ॥ ११ ॥
ह्रस्वकायः श्यामवर्णः श्मश्रुलः पिङ्गलोचनः ।
तं दृष्ट्वा ब्राह्मणाः प्रोचुर्निषीदेति प्रजापते ॥ १२ ॥
ततो निषादनामाऽसौ जातस्तस्मै वनान्तरे ।
स्थानं ददुर्द्विजश्रेष्ठा निषादास्तत् समुद्भवाः ॥ १३ ॥
[[५०]]
पुनश्च दक्षिणाङ्गं ते ममन्थुर्द्विजसत्तमाः ।
वेनस्य दम्पती तस्मात् समुद्भूतौ महौजसौ ॥ १४ ॥
विष्णोः कलायुतौ साक्षाद्ब्राह्मणान्नेमतुः पुरा ।
ब्राह्मणैर्नृपवर्यः स संसिक्तो राज्यकर्मणि ॥ १५ ॥
पृथुनामा महीपालो विख्यातोऽभूच्च मण्डले ।
स्वधर्मनिरतः साक्षात् क्षात्रधर्मप्रवर्तकः ॥ १६ ॥
तेन संवर्धिता लोका वर्णाश्रमयुता विधे ।
पुरे मुमुदिरे देशे यत्र तत्र सुसत्कृताः ॥ १७ ॥
गते कियति काले वै लोका अन्नविवर्जिताः ।
क्षुधया पीडिताः सर्वे तं नृपं शरणं ययुः ॥ १८ ॥
वेनस्याधर्मभावेन भूम्या सर्वं समाहृतम् ।
पुनर्दातुमशक्ता वै धर्मरूपे नराधिपे ॥ १९ ॥
लोकानां दुःखमाकर्ण्य कुपितोऽसौ नराधिपः ।
विचार्य धनुरादाय शरं श्रेष्ठं युयोज च ॥ २० ॥
भूमिं हन्तुं मनश्चक्रे ह्याकर्णाकर्षितं धनुः ।
यावद्बाणं स चिक्षेप तावद्भीता वसुन्धरा ॥ २१ ॥
गोरूपेण भयोद्विग्ना यत्र तत्र पलायत ।
आत्तबाणो नृपः पश्चाद्ययौ यम इवापरः ॥ २२ ॥
शरणं नाऽपतद्भूमिस्तमेव शरणं ययौ ।
उवाच प्राञ्जलिर्भूत्वा नृपं कम्पसमन्विता ॥ २३ ॥
स्त्रियं मां गां कथं हंसि भूमिपाल वसुन्धराम् ।
शरणागतरूपां ते रक्ष क्षत्रकुलोद्भव ॥ २४ ॥
भूमेर्वचनमाकर्ण्य तां जगाद नृपोत्तमः ।
शृणु त्वां मारयिष्यामि मच्छासनपराङ्मुखीम् ॥ २५ ॥
जीवितुं चेच्छसि प्राज्ञे तदान्नं विविधं धरे ।
कुरु प्रकटरूपं त्वं सर्वकालं न संशयः ॥ २६ ॥
ततस्तं विनयं कृत्वा सा जगाद वसुन्धरा ।
मया ग्रस्ता समग्रा या ओषध्यश्च नृपात्मज ॥ २७ ॥
भक्षितास्ताः पुनर्दातुं कथं शक्ता भवामि भोः ।
अतस्त्वं मां समामादौ कुरु पार्थिवसत्तम ॥ २८ ॥
गोरूपाहं स्थिता भूप वत्सं कृत्वा स्वभावजम् ।
सकला दुग्धरूपेणौषधीस्ते प्रददाम्यहम् ॥ २९ ॥
दोहकः कल्प्यतां शीघ्रं तदा सर्वं शुभं भवेत् ।
अन्यथा मां महीपाल हनिष्यसि वृथा कथम् ॥ ३० ॥
तस्या वचनमाकर्ण्य धनुष्कोट्या नृपोत्तमः ।
पर्वतांश्चूर्णयामास समां भूमिं चकार ह ॥ ३१ ॥
पुरग्रामादिकानां तु रचना रचिता ततः ।
तेनैव पृथुना दक्ष यथायोग्यं धरातले ॥ ३२ ॥
तदादिर्नगराद्यानां रचना सम्प्रवर्तिता ।
पुत्रीत्वे स धरां चक्रे पृथ्वी नाम्नी ततोऽभवत् ॥ ३३ ॥
मनुं वत्सं ततः कृत्वा दोहकश्चाऽभवत्स्वयम् ।
षड्रसान्नमयं दुग्धं दुदोह नृपसत्तमः ॥ ३४ ॥
ततः सर्वे त्रिलोकस्था दुदुहुस्तां वसुन्धराम् ।
स्वस्वान्नमयदुग्धं ते जगृहुः परमादृताः ॥ ३५ ॥
ब्रह्माणं वेदरूपं सुवत्सं कृत्वा बृहस्पतिः ।
दोहको दुग्धमादाय संस्थितो विगतज्वरः ॥ ३६ ॥
रुद्रं वत्सं ततः कृत्वा दोहकः पिशितात्मकम् ।
कालाग्निरुद्रसञ्ज्ञश्च दुदोह हरजीवनम् ॥ ३७ ॥
विष्णुं वत्सं समादाय यजमानश्च दोहकः ।
यज्ञाधारमयं दुग्धं दुदोह खलु कर्मजम् ॥ ३८ ॥
[[५१]]
सूर्यं वत्सं चकारापि दोहको ध्रुव आदरात् ।
ज्योतिषां जीवनं दुग्धं दुदोह सकलं ततः ॥ ३९ ॥
शेषं वत्सं च सङ्गृह्य दुदोहाऽपि च वासुकिः ।
सर्पाणामन्नरूपं वै दुग्धं दुग्धप्रियस्ततः ॥ ४० ॥
शिवं वत्सं प्रकल्प्यैव दोहको नन्दिकेश्वरः ।
विद्यात्मकं महद् दुग्धं दुदोह गतमत्सरः ॥ ४१ ॥
एवं सर्वे च दुदुहुर्भूमिं गां पृथुभाविताम् ।
चराचरमया जीवा ईश्वराश्च प्रजापते ॥ ४२ ॥
पृथुस्तां पूजयामास धरणीं धरणीप्रियः ।
पुत्रीत्वे पालिता हर्षात्सा स्थिता मुदिता तथा ॥ ४३ ॥
एवं दुग्ध्वा धरित्रीं स पृथुः पृथुपराक्रमः ।
राज्यं चकार नीतिज्ञः पृथिव्यामेकराट् स्वयम् ॥ ४४ ॥
ततो यज्ञांश्चकाराऽसौ शतसङ्ख्यान् महाबलः ।
अश्वमेधाभिधान् राजा भूरिदक्षिणसंयुतान् ॥ ४५ ॥
तस्य यज्ञे स्वयं ब्रह्मा विष्णुः शङ्कर एव च ।
इन्द्राद्या आययुः सर्वे गन्धर्वाद्या महामते ॥ ४६ ॥
ऋषयः कश्यपाद्याश्च शेषाद्या नागमुख्यकाः ।
जना नानाविधा जग्मुः सस्त्रीकाश्च विशेषतः ॥ ४७ ॥
अन्त्ये यज्ञे समारब्धे शक्रश्चिन्तातुरो भृशम् ।
जटाचीरधरो भूत्वा तस्याश्चं सहसाऽऽहरत् ॥ ४८ ॥
तस्य पुत्रेण सन्दृष्टस्तपस्वीति च मोचितः ।
हयं त्यक्त्वा भयोद्विग्नोन्तर्धानं तु चकार सः ॥ ४९ ॥
पुनरस्थिधरो भूत्वा भस्मना लेपकारकः ।
जहाराश्वं तथा राजपुत्रेण न स ताडितः ॥ ५० ॥
एवं षड्वारमश्वं स सञ्जहार पुरन्दरः ।
ततस्तं हन्तुमुद्युक्तः पृथुः पृथुपराक्रमः ॥ ५१ ॥
तं ब्रह्मा सान्त्वयामास महेन्द्रं न जघान ह ।
एकोनशतयज्ञान् स चक्रे वै तेजसा युतः ॥ ५२ ॥
ब्रह्मणा नोदितः साक्षादिन्द्रस्तं प्रणनाम ह ।
पृथुर्वैरं समुत्सृज्य देवेन्द्रं तं प्रसस्वजे ॥ ५३ ॥
सकलाः पूजितास्तेन देवाद्याः स्वस्थलं ययुः ।
सोऽपि राज्यं स्वधर्मस्थश्चक्रे वै पालयन् प्रजाः ॥ ५४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते पृथुयशोवर्णनं नाम चतुर्विंशोऽध्यायः ॥