॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
स्वायम्भुवमनोः पुत्र उत्तानपादसञ्ज्ञितः ।
स राज्यं मध्यदेशस्य चक्रे वै धर्मसंयुतः ॥ १ ॥
तस्य भार्ये प्रविख्याते सुनीतिः सुरुचिस्तथा ।
सुनीत्यां च ध्रुवो जज्ञे सुरुच्यामुत्तमस्ततः ॥ २ ॥
सुरुच्या स्ववशं नीतो तया राजा विमोहितः ।
सुनीतिं मन्यते न स्म मनसाऽपि प्रजापते ॥ ३ ॥
एकदा ध्रुवपुत्रश्चाययौ राज्ञः समीपकम् ।
आरोढुमिच्छन्नुत्सङ्गे संस्थितस्तस्य सन्निधौ ॥ ४ ॥
तत्रावमानितस्तेन सुरुच्या दुष्टभावतः ।
ततो ध्रुवो वनं दक्ष जगाम क्रोधसंयुतः ॥ ५ ॥
मार्गे वै गच्छतस्तस्य नारदो दृष्टिमागतः ।
तं ननाम महाबुद्धिर्बालोऽयं धर्मधारकः ॥ ६ ॥
वृत्तान्तमखिलं ज्ञात्वा नारदेन महात्मना ।
उपदिष्टो महामन्त्रो विष्णोश्च द्वादशाक्षरः ॥ ७ ॥
नारदं स प्रणम्याऽऽदौ मथुरायां ययौ ततः ।
तपश्चकार तत्राऽसौ ध्यायन्विष्णुं सनातनम् ॥ ८ ॥
सहस्रवर्षमत्यन्तं तताप परमं तपः ।
प्रसन्नो भगवांस्तत्र तं ययौ भक्तिभावतः ॥ ९ ॥
ददौ राज्यमखण्डं वै पृथिव्याः परमाद्भुतम् ।
अन्ते स्वर्गस्य राज्यं च पदं विष्णोर्ध्रुवात्मकम् ॥ १० ॥
ततः स्वगृहमागत्य ननाम पितरौ ध्रुवः ।
तं राजा मानयामास बहुलं तेजसा युतम् ॥ ११ ॥
कालेन तं ध्रुवं राजा चकार स नराधिपः ।
वनं ययौ महातेजास्तताप परमं तपः ॥ १२ ॥
तत्रागत्य च गाणेशो नारदस्तमुवाच सः ।
भेदाभेदादिहीनं त्वं गणेशं भज पार्थिव ॥ १३ ॥
शिवविष्ण्वादयो देवा योगिनः सनकादयः ।
वसिष्ठाद्या ऋषिगणा भजन्ते तं न संशयः ॥ १४ ॥
न गणेशं विना शान्तिर्लभ्यते नात्र संशयः ।
स्वायम्भुवादिभूपालैः सेवितो गणनायकः ॥ १५ ॥
एवमुक्त्वा गणेशस्य ददौ मन्त्रं षडक्षरम् ।
राजा मन्त्रप्रभावेण गाणपत्यो बभूव ह ॥ १६ ॥
मरणे गणनाथं वै सस्मार स नृपोत्तमः ।
सायुज्यं गणनाथस्य प्राप्तं तस्य महात्मनः ॥ १७ ॥
ध्रुवो राज्यं चकाराथ धर्मयुक्तो महीपतिः ।
जगाम सहसा तत्र नारदः करुणानिधिः ॥ १८ ॥
तं दृष्ट्वा प्रणनामाऽसौ पूजयामास भक्तितः ।
स्वगुरुं पूर्णभावेन कृताञ्जलिपुटः स्थितः ॥ १९ ॥
तमुवाच महायोगी नारदो दिव्यदर्शनः ।
स्वशिष्यं भक्तिसंयुक्तं दयया च दयानिधिः ॥ २० ॥
नारद उवाच ।
शृणु ध्रुव वचो रम्यं विकुण्ठादागतोऽधुना ।
विष्णुना प्रेषितोऽहं वै तव हेतोर्महामते ॥ २१ ॥
मयूरेशस्य यत्क्षेत्रं भुवि ब्रह्ममयं परम् ।
तत्र गत्वा महायात्रां कुरु त्वं विधिवत्सुत ॥ २२ ॥
तेनाक्षयपदं ते वै भविष्यति मदीयकम् ।
अन्यथा विघ्नसंयुक्तः पतिष्यसि न संशयः ॥ २३ ॥
अन्यच्च कथितं तेन विष्णुना करुणावता ।
एकाक्षरं गणेशस्य महामन्त्रं जपेति वै ॥ २४ ॥
तेन मन्त्रप्रभावेण लये ब्रह्मदिनात्यये ।
लयं ध्रुवपदं गच्छेत्तदा त्वं शान्तिमेष्यसि ॥ २५ ॥
ब्रह्मणि ब्रह्मभूतश्च भविष्यसि न संशयः ।
अन्यथा योगशान्तिं त्वं न प्राप्स्यसि कदाचन ॥ २६ ॥
[[४९]]
ततस्तं नारदो योगी ददौ मन्त्रं विधानतः ।
एकाक्षरं गणेशस्य राजा सिद्धो बभूव सः ॥ २७ ॥
मयूरेशस्य वै क्षेत्रे ध्रुवः सद्यः समागतः ।
चकार विधिवद्यात्रां द्वाराणां चिह्नसंयुताम् ॥ २८ ॥
गणेशं स्थापयामास ब्राह्मणैर्मन्त्रकोविदैः ।
अर्धक्रोशे गणेशात् नापूर्वद्वारसमीपगम् ॥ २९ ॥
देवालयं चकाराऽसौ महामौल्यं सुविस्तृतम् ।
सुवर्णशिखरं रम्यं पूजितं वै सुभक्तितः ॥ ३० ॥
नाम तस्याऽकरोद्राजा तदा ध्रुवविनायकः ।
वर्षमासं निवासं च ध्रुवस्तत्र चकार ह ॥ ३१ ॥
पश्चात् स्वनगरे गत्वा राज्यं चक्रे महाबलः ।
जगाम स्वर्गमन्ते स ध्रुवाख्यं ज्योतिषां धरम् ॥ ३२ ॥
तस्मिन् गणपतिं ध्यायन् संस्थितोऽसौ महायशाः ।
ध्रुवस्थानस्य नाशेऽन्ते गतः स्वानन्दमञ्जसा ॥ ३३ ॥
ध्रुवं विनायकं दृष्ट्वा भुक्तिं मुक्तिं सुनिश्चलाम् ।
लभते मानवस्तत्र श्रुत्वा ध्रौव्यमिदं तथा ॥ ३४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते ध्रुवचरित्रं नाम त्रयोविंशोऽध्यायः ॥