२२ जडभरतचरितम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

तत आङ्गिरसो योगी विचचार महीतले ।
मयूरेशस्य स क्षेत्रं आययौ दैवयोगतः ॥ १ ॥

तत्र पूर्वावतारं च गणेशस्य महात्मनः ।
दृष्ट्वा ज्ञात्वा स्थितस्तं स ध्यायन्नेकत्र मूढवत् ॥ २ ॥

वर्षमात्रे गते तस्य दर्शनार्थं ययौ स्वयम् ।
गणेशो मूषकारूढः सिद्धिबुद्धिसमन्वितः ॥ ३ ॥

तं दृष्ट्वा प्रणनामादौ तुष्टाव प्राञ्जलिः प्रभुम् ।
रोमाञ्ची साश्रुनेत्रः स भक्तिभावनिमज्जितः ॥ ४ ॥

जडभरत उवाच ।

नमः शान्तिस्वरूपाय शान्तिदाय कृपालवे ।
विघ्नेशाय नमस्तुभ्यं हेरम्बाय नमो नमः ॥ ५ ॥

सिद्धेः पते च तद्दात्रे भक्तानां भयभञ्जन ।
भक्तिप्रियाय वै तुभ्यं भक्तभक्ताय ते नमः ॥ ६ ॥

[[४७]]

बुद्धेः पते धियो दात्रे सर्वविद्याकलात्मने ।
ज्ञानरूपप्रकाशाय गणेशाय नमो नमः ॥ ७ ॥

मूषकारूढ वै तुभ्यं चतुर्बाहुधराय च ।
स्वानन्दवासिने देव वक्रतुण्डाय ते नमः ॥ ८ ॥

नानाविहारयुक्तायानन्तरूपाय ते नमः ।
अमेयाय सदायोगशान्तिस्थाय नमो नमः ॥ ९ ॥

धन्योऽहं कृतकृत्योऽहं येन दृष्टो गजाननः ।
वेदादौ गोचरोऽयं न कृपया सहसाऽऽगतः ॥ १० ॥

मया किं ते कृतं देव दर्शनार्थं किमागतः ।
भक्त्या समं न किञ्चित्ते प्रियं ज्ञातं मयाधुना ॥ ११ ॥

भक्त्या त्वां हृदि सन्ध्यायन् संस्थितो जडवत्प्रभो ।
त्वमेव मोहितो भक्त्या मम सन्न्निधिगः कृतः ॥ १२ ॥

अहो भक्तिसमं किञ्चिन्नैव दृष्टं न च श्रुतम् ।
यया त्वं शान्तियोगस्थो मोहितः सहसाऽऽगतः ॥ १३ ॥

त्वदीयांशसमुत्पन्नं सकलं ब्रह्मनायक ।
किं ददामि गणेशान येन तुष्टो भविष्यसि ॥ १४ ॥

अतस्त्वां नमनं कुर्वे देहोऽयं ते निवेदितः ।
वरं देहि महाबाहो येन तृप्तो भवाम्यहम् ॥ १५ ॥

भक्तिं दृढां त्वच्चरणे व्यभिचारविवर्जिताम् ।
देहि नाथ दयासिन्धो नान्यद् याचे कदाचन ॥ १६ ॥

एवमुक्त्वा गणाध्यक्षं ननाम स पुनः पुनः ।
प्रेम्णा ननर्त योगीन्द्रस्तमुवाच गणाधिपः ॥ १७ ॥

गणेश उवाच ।

भविता सुदृढा भक्तिर्मम ते मुनिसत्तम ।
व्यभिचारविहीना ते न चाङ्गिरस संशयः ॥ १८ ॥

त्वया कृतमिदं स्तोत्रं मदीयं योगशान्तिदम् ।
भविष्यति महाभाग मम प्रीतिकरं परम् ॥ १९ ॥

यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठकः ।
शृणुयात्तस्य तद्वच्च भविष्यति न संशयः ॥ २० ॥

एवमुक्वान्तर्दधेऽसौ गणनाथः प्रजापते ।
स मुनिर्भक्तिसंयुक्तोऽभवत्तत्रैव संस्थितः ॥ २१ ॥

अन्ते गणेशरूपोऽसौ जातो योगीन्द्रसत्तमः ।
गुहा तत्र प्रसिद्धा वै वर्ततेऽद्य महामुनेः ॥ २२ ॥

गणेशोत्तरभागे च सम्मुखे क्रोशदूरकम् ।
स्थानमाङ्गिरसस्याऽपि भरतस्य जडात्मनः ॥ २३ ॥

कुर्वन्ति दर्शनं तस्य तत्र ये मानवादयः ।
तेषां मुक्तिर्भवेद्दक्ष शाश्वती नात्र संशयः ॥ २४ ॥

चरितं भरतस्येदं कथितं परमाद्भुतम् ।
शृणुयाद्यो नरो भक्त्या पठेद्वा भुक्तिमुक्तिदम् ॥ २५ ॥

एवमाद्याश्च राजानः प्रियव्रतकुलेऽभवन् ।
उत्पन्नाः सर्वधर्मज्ञा नानादेवपरायणाः ॥ २६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते जडभरतचरितं नाम द्वाविंशोऽध्यायः ॥

[[४८]]