॥ श्रीगणेशाय नमः ॥
जडभरत उवाच ।
आह माङ्गिरसो नाम जडभरतः प्रकथ्यते ।
स्वायम्भुवश्च भरतोऽधुना जडश्च तेन वै ॥ १ ॥
मा चिन्तां कुरु राजर्षे ह्यज्ञानेन त्वया कृतम् ।
हेलनं मम देहस्य पापदं न भविष्यति ॥ २ ॥
गच्छ राजन्यथेच्छ त्वं मत्तो वै न भयं तव ।
गमिष्यामि स्वतन्त्रोऽहं प्रारब्धेन नियन्त्रितः ॥ ३ ॥
मुद्गल उवाच ।
तस्य योगीन्द्रमुख्यस्य श्रुत्वा वचनमुत्तमम् ।
रहूगण उवाचाथ तं प्रणम्य महायशाः ॥ ४ ॥
रहूगण उवाच ।
धन्यं कुलं मदीयं वै पितरौ ज्ञानमाश्रमः ।
तपो विद्या यशो दानं तवाङ्घ्रियुगदर्शनात् ॥ ५ ॥
अहं सिन्धुमहीपालो रहूगण इति स्मृतः ।
राज्यादिविषयं त्यक्त्वा निःसृतो मुनिसत्तम ॥ ६ ॥
शान्त्यर्थं कपिलं यामि गौतमीतीरवासिनम् ।
त्वं साक्षाद् ब्रह्मरूपश्च दैवेन दर्शनं गतः ॥ ७ ॥
मां शिष्यं तारय मुने योगबोधेन सत्तम ।
साक्षात् शान्तिं वद विभो यया शान्तो भवाम्यहम् ॥ ८ ॥
तस्य तद्वचनं श्रुत्वा कृपया परया युतः ।
जगाद तं नृपेन्द्रं स आङ्गिरसो महाद्युतिः ॥ ९ ॥
शृणु राजन् त्वया पृष्टं वेदगुह्यं च दुर्गमम् ।
कथयामि तथापि त्वां योगशान्तिकरं परम् ॥ १० ॥
देहश्चतुर्विधः प्रोक्तस्तत्र देही चतुर्विधः ।
भ्रान्त्या भिन्नत्वमाश्रित्यैकोऽपि भाति तदात्मकः ॥ ११ ॥
देहानां ब्रह्म यत्प्रोक्तं बिन्दुमात्रं च दृश्यते ।
देहीनां ब्रह्मरूपं वै सोऽहं मात्रात्मकं किल ॥ १२ ॥
तयोः संयोग एवाऽसौ बोधात्मक उदाहृतः ।
स्वतोत्थानमिदं ब्रह्म विकल्पाद्विविधं मतम् ॥ १३ ॥
बोधनाशे महीपाल उत्थानं जायते न च ।
साङ्ख्यरूपं हि तद्ब्रह्म केवलं स्वसुखे रतम् ॥ १४ ॥
यत्र परसुखं नास्ति तत्र वै स्वसुखं कथम् ।
ततः परत उत्थानयुक्तं ब्रह्म प्रकीर्तितम् ॥ १५ ॥
तत्रोत्थानस्य बीजं यत्स्थितं भिन्नात्मकं परम् ।
स्वसौख्यनिष्ठरूपं हि बोधहीनप्रभावतः ॥ १६ ॥
स्वतः परत उत्थानहीनं स्वानन्दवाचकम् ।
संयोगाभेदरूपं वै जानीहि नृपसत्तम ॥ १७ ॥
स्वानन्द पञ्चभेदं च स्वयं सर्वत्र संस्थितम् ।
सत्यासत्यसमं चेति नेतिरूपं चतुर्थकम् ॥ १८ ॥
स्वतः परत उत्थानमेतन्नाम प्रकीर्तितम् ।
तयोरनुभवो यः स्यात्तस्य रूपं तदेव च ॥ १९ ॥
[[४६]]
ताभ्यां नानाविधं ब्रह्मान्नादि वेदे प्रकीर्तितम् ।
जगन्नानाविधं तद्वज्जानीहि नृपसत्तम ॥ २० ॥
नामरूपमयं सर्वमसत्यं परिकीर्तितम् ।
शाक्तं ब्रह्म समाख्यातं वेदे वै वेदवादिभिः ॥ २१ ॥
नामरूपात्मकं यत्तत्सदा खण्डमयं स्मृतम् ।
अमृतं सौरमात्मा तद्ब्रह्म सर्वप्रकाशकम् ॥ २२ ॥
तयोरभेदकर्ताऽसौ विष्णुरानन्दसञ्ज्ञितः ।
द्वयोः समं च तद्ब्रह्म भावाभावमयं परम् ॥ २३ ॥
त्रिभिर्हीनं तुरीयं यन्नेति कर्ता शिवः स्मृतः ।
अव्यक्तं मोहहीनं यत् स्वाधीनं ब्रह्म तन्मतम् ॥ २४ ॥
चतुर्णां चैव संयोगो यत्राभेदमयः स्मृतः ।
स एव स्वस्वरूपाख्यो मायायुक्तो विनायकः ॥ २५ ॥
संयोगनाशकारी चायोगः सर्वत्र समन्तः ।
निर्मायिको गणेशः स कथितो योगिभिर्नृप ॥ २६ ॥
अयोगे योगिनां राजन्निवृत्तिरुपजायते ।
स्वकीयभेदहीनत्वात्तद्ब्रह्मायोगसञ्ज्ञकम् ॥ २७ ॥
अत एव स्वनाशाख्यनिवृत्या तच्च लभ्यते ।
मायया सर्वसंयोगे तद्धीनं ब्रह्म तत् स्मृतम् ॥ २८ ॥
अयोगश्चैव संयोगो योगे तौ न प्रपश्यति ।
तदेव गणनाथो हि योगशान्तिमयः स्मृतः ॥ २९ ॥
मायायुक्तश्च मायावी मायाहीनश्च केवलः ।
तदेव भ्रान्तिमात्रं यत्त्यक्तव्यं योगिभिः सदा ॥ ३० ॥
चित्तं पञ्चविधं प्रोक्तं तदैश्वर्यं महामते ।
मोहदं द्विविधं त्यक्त्वा शान्तिरूपो भविष्यसि ॥ ३१ ॥
एवमुक्त्वा महायोगी विरराम प्रजापते ।
सोऽपि तं प्रणनामाथ राज्यं त्यक्त्वा वनं ययौ ॥ ३२ ॥
एवं रहूगणो राजा साधयित्वा विधानतः ।
शान्तिं प्राप्तो महातेजा गाणपत्यो बभूव ह ॥ ३३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते रहूगणसिद्धिप्राप्तिवर्णनं नामैकविंशोऽध्यायः ॥