॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
सिन्धुदेशाधिपो राजा रहूगण इति स्मृतः ।
पूर्वसंस्कारयोगेन ह्यन्तर्निष्ठो बभूव ह ॥ १ ॥
राजा शान्त्यर्थमत्यन्तं यत्नवान प्राप तां न सः ।
ययौ गङ्गासमीपस्थं कपिलाश्रममादरात् ॥ २ ॥
गौतम्या दक्षिणे कूले श्रुतवान् द्विजपुङ्गवात् ।
निर्जगाम पुराद्राजा शिबिकायां समास्थितः ॥ ३ ॥
गच्छन्मार्गे त्वरायुक्तः श्रान्तवाहो महीपतिः ।
धृत्वाऽन्यान्योजयामासुर्वाहार्थं स्वजनास्तदा ॥ ४ ॥
तत्र दैवप्रसङ्गेन समालब्धं महामुनिम् ।
आङ्गिरसवरं तं ते चक्रुवार्हकमञ्जसा ॥ ५ ॥
ज्ञात्वा देहं महायोगी प्रारब्धाधीनमादरात् ।
वाहको नृपतेर्दक्ष बभूव विगतज्वरः ॥ ६ ॥
अहिंसापरमो योगी मार्गे जन्तुमवेक्ष्य सः ।
स्वपादक्षेपणं तत्र चकार प्राणिवर्जिते ॥ ७ ॥
तेन सर्वे बभूवुश्च वाहका मन्दगामिनः ।
दोलायिता च शिबिस्का तया राजा सुदुःखितः ॥ ८ ॥
[[४४]]
ततः क्रोधसमाविष्टो रहूगण उवाच तान् ।
सम्यक् च शिबिकां वाहा वहध्वं सुप्रयत्नतः ॥ ९ ॥
ततो भीताश्च ते सर्व तमूचुरधुना नृप ।
आनीतः सुदुरात्मायं यथा चलति मद्यपः ॥ १० ॥
ततो राजा महात्मानमुवाच शठ किं त्वया ।
उन्मत्तवद्गतिर्दुष्टा क्रियते मम सन्निधौ ॥ ११ ॥
ततो भाविबलेनासावाङ्गिरस उवाच ह ।
ज्ञात्वा तं योगमिच्छन्तं पात्रभूतमनादरात् ॥ १२ ॥
जडभरत उवाच ।
मायामयमिदं सर्वं भ्रान्तिरूपमसत्यकम् ।
तत्र राजजनानां वै जनः कुत्र प्रदृश्यते ॥ १३ ॥
वयं द्वन्द्वं प्रेषयित्वा समभावेन संस्थिताः ।
शिक्षाकर्ता न भविताऽस्माकं राजा महाबलः ॥ १४ ॥
तेन किं योगमार्गं वै त्यक्त्वा तिष्ठेम साम्प्रतम् ।
तदधीना भवामः किमज्ञानेन वदत्ययम् ॥ १५ ॥
इत्युक्त्वा मौनमास्थाय शिबिकां पूर्ववद्वहन् ।
आङ्गिरसो महायोगी चचाल गणपं भजन् ॥ १६ ॥
राजा श्रुतं महावाक्यं योगग्रन्थितमुत्तमम् ।
भयभीतश्च तेनासावुत्पपात महीतले ॥ १७ ॥
दृष्ट्वा तं मलिनं विप्रं यज्ञोपवीतसंयुतम् ।
बिभ्राणं चीरवसनं ब्रह्मतेजः सनातनम् ॥ १८ ॥
प्रणनाम स साष्टाङ्गं कृताञ्जलिपुरः स्थितः ।
जगाद भयभीतो वै रहूगणः स धर्मवित् ॥ १९ ॥
रहूगण उवाच ।
क्षमापराधमतुलं मम ब्रह्मन् दयानिधे ।
अज्ञानेन कृतं कर्म किं विप्रोऽसि वदस्व माम् ॥ २० ॥
अवधूता महात्मानश्चरन्ति यत्र कुत्र वै ।
तथा त्वमपि मे भासि यज्ञोपवीतधारक ॥ २१ ॥
कपिलः किं नारदश्चाङ्गिरा पुलहकः क्रतुः ।
दत्तो वा याज्ञवल्क्यश्च वद मां करुणानिधे ॥ २२ ॥
अहं बिभेमि विपेन्द्र ब्राह्मणानामधर्षणात् ।
न ब्राह्मणसमं किञ्चिद्दैवतं सचराचरे ॥ २३ ॥
साक्षात् परमेश्वरस्याऽपि तनवो ब्राह्मणा मताः ।
कर्माधाराश्च ज्ञानानामाधारा ब्रह्मधारकाः ॥ २४ ॥
ब्राह्मणस्य मुखेनैव यच्छ्रुतं तत्समागतम् ।
देवस्थानेषु देवानामुदरे नात्र संशयः ॥ २५ ॥
ब्राह्मणेभ्यश्च यद्दत्तं तदक्षयपदप्रदम् ।
उद्धाराय जनानां वै ब्राह्मणाः सम्मताः किल ॥ २६ ॥
मन्त्राधीना देवगणा मन्त्रा विप्राधीना मताः ।
देवानां जीवनं सर्वं द्विजाधीनं च तेन वै ॥ २७ ॥
मन्त्रहीनं च यत्कर्म निष्फलं जायते किल ।
कर्माधीनं जगत् सर्वमतो ब्राह्मणमूलकम् ॥ २८ ॥
कर्मनिष्ठास्तपोनिष्ठा ज्ञाननिष्ठा द्विजोत्तमाः ।
योगिनश्च भवन्तीह तारका जगति स्थिताः ॥ २९ ॥
सर्वेषां गुरवो विप्रा ज्ञानदास्तेन सम्मताः ।
साक्षाद् ब्रह्मस्वरूपा वै ब्राह्मणा नात्र संशयः ॥ ३० ॥
तेषां हेलनमात्रेण पतन्ति शिवमुख्यकाः ।
सेवनेन च तेषां वै सर्वं स लभते जनः ॥ ३१ ॥
ब्राह्मणानां च शापेन विष्णुमुख्या सुरेश्वराः ।
पतिता ह्यवतारेषु पुनः संस्थापिता द्विजैः ॥ ३२ ॥
अतो बिभेमि विप्रेश वद कस्त्वं महामते ।
विष्णुशिवादिदेवेभ्यस्तथाऽहं न बिभेमि वै ॥ ३३ ॥
एवमुक्त्वा पुनः पादौ गृह्य तं प्रणनाम सः ।
पादपद्मे शिरः स्थाप्य रुरोद भयविह्वलः ॥ ३४ ॥
[[४५]]
ततोऽसौ करुणाविष्टो जडभरतस्तमब्रवीत् ।
उत्थाप्य नृपशार्दूलं प्रश्रयाऽवनतं वचः ॥ ३५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते जडभरतरहूगणमिलनो नाम विंशतितमोऽध्यायः ॥