॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
आङ्गिरसकुले विप्रो बभूव मुनिसत्तमः ।
ततः पुत्रोऽभवत्तस्य भरतो नृपसत्तमः ॥ १ ॥
तत्रापि सङ्गभीतोऽसौ ज्ञानयुक्तो महामुनिः ।
गणेशं मनसा ध्यायन् संस्थितो मुनिसन्निधौ ॥ २ ॥
तत्र वेदादिषु प्रोक्तं गणेशस्य महात्मनः ।
स्तवनं संश्रुतं ज्ञानं तेन पूर्वं दृढं कृतम् ॥ ३ ॥
जडवत्सङ्गसम्भीतो बभूव ब्राह्मणोत्तमः ।
चातुर्यं सकलं तेन गोपितं सर्वसन्निधौ ॥ ४ ॥
विवाहादिभयात् सर्वं जडत्वं सम्प्रकाशितम् ।
मूर्खवच्चेष्टया तत्र बालभावेन तिष्ठता ॥ ५ ॥
तस्योपवीतदानं स चकाराङ्गिरसो मुनिः ।
पश्चात् सन्ध्यादिकं कर्म शौचाचारमशिक्षयत् ॥ ६ ॥
पित्रा कथितमत्यन्तं न जग्राह महामतिः ।
अन्यथा स चकारापि ताडितो यदि योगिपः ॥ ७ ॥
हस्तं धृत्वा पिता तस्य कारयामास वैदिकम् ।
सर्वमाचमनाद्यं च तथा तेन कृतं किल ॥ ८ ॥
पुनः पित्रा च सम्पृष्टं न सस्मार तदा स्वयम् ।
जडवत्सर्व आचारस्त्यक्तस्तेन महात्मना ॥ ९ ॥
ततस्तस्य कृतं नाम सर्वैर्लोकैः प्रजापते ।
जड इत्येव सततं कथ्यते यत्र तत्र तैः ॥ १० ॥
तत्रादरापमानादि तिरस्कारादिकं महत् ।
सम्बभूव च तेनापि जडवत्त्यक्तमेव च ॥ ११ ॥
लोकाः सर्वेऽवदंस्तत्र ज्ञानमस्य न निश्चितम् ।
निन्दास्तुत्यादिकं सर्वं महामूर्खेण सह्यते ॥ १२ ॥
जडत्वादिकदोषेण विवाहादिकमस्य च ।
न कृतं जनकेनैव तेनानन्दमवाप सः ॥ १३ ॥
ततः कालेन निधनं गतस्तस्य पिता मुनिः ।
माता सती गुणयुता सहगा सम्बभूव ह ॥ १४ ॥
मातुः सपत्नीजाताश्च भ्रातरो नव चाऽभवन् ।
तेषामधीनतां यातो द्विजोऽसौ शान्तियोगधृक् ॥ १५ ॥
भ्रातृपत्न्यो मदोत्सिक्ताश्चक्रुः स्नेहं न चाल्पकम् ।
उच्छिष्टं कुत्सितं चान्नं ज्वलितं तद्ददुस्तुषम् ॥ १६ ॥
वस्त्राद्यैर्भ्रातरः सर्वे भाषणैः सत्कृतं न तम् ।
चक्रुः स्नेहं परित्यज्य कुलपांसुं वदन्ति ते ॥ १७ ॥
तथाप्यमृतवत्सर्वं कुत्सितं क्लिन्नदग्धकम् ।
अन्नं बभक्ष योगीशश्चीरवस्त्रैः समावृतः ॥ १८ ॥
तदपि भातृजायास्ता अन्नं तस्मै च नो ददुः ।
द्वित्रिवासरमध्ये स एकभुक् चाऽभवन्मुनिः ॥ १९ ॥
क्षुधया पीडितो योगी गाणपत्यः प्रजापते ।
भ्रमन्नन्नार्थमत्यन्तं गेहे गेहे विचक्षणः ॥ २० ॥
तत्र लोकैः स्वकार्यार्थे गृहीतो यत्र तत्र सः ।
चकार सकलं कार्यं तेषामन्नार्थमादरात् ॥ २१ ॥
ततस्ते हर्षिताः सर्वे वस्त्रान्नादिकमादरात् ।
ददुः सोऽपि प्रसन्नात्मा कर्मकारोऽभवत् स्वयम् ॥ २२ ॥
ततस्तैर्भ्रातृभिर्दृष्टं तमानीय स्वके गृहे ।
स्वकर्मकारिणं चक्रुर्भ्रातरो हर्षसंयुताः ॥ २३ ॥
तदपि भ्रातृजायास्ता कुत्सितान्नं ददुस्तुषम् ।
सुधासमं बभक्षान्नं सोऽपि भावं प्रदर्शयन् ॥ २४ ॥
कदाचित्पक्वशालीनं क्षेत्रेषु स्थापितो मुनिः ।
भ्रातृभी रक्षणार्थं स रात्रौ वै दिवसे प्रभो ॥ २५ ॥
तत्राऽयं संस्थितो विद्वांस्तत्तथैव चकार च ।
अन्नार्थं देहभावज्ञः सुखदुःखादिके समः ॥ २६ ॥
[[४३]]
तत्र चित्रमभूद्यत्तु तत् शृणुष्व प्रजापते ।
चौराणां स्वामिना देवी भद्रकालीति संस्तुता ॥ २७ ॥
लभेद्यदि मम द्रव्यं विपुलं च जगन्मयि ।
तदा पुरुषरूपं ते दास्यामि पशुमुत्तमम् ॥ २८ ॥
द्रव्यं तस्य तथा प्राप्तं तेन सम्प्रेषिताः स्वकाः ।
चौरा रात्रौ श्रमैर्युक्तास्तत्राजग्मुर्यदृच्छया ॥ २९ ॥
तं गृहीत्वा बलात्सर्वे जग्मुः स्थानं स्वकं खलाः ।
योगिना देहप्रारब्धं तदा ज्ञातं च तादृशम् ॥ ३० ॥
तत्र चौराधिपेनैव सत्कृतः पूजनादिभिः ।
भोजनं स चकारापि स्वादु विपेन्द्रसत्तमः ॥ ३१ ॥
तं पुरस्कृत्य वादित्रैर्निनदद्भिर्ययौ खलः ।
देवीसन्निधिमानन्दात् पूजितं परमादरात् ॥ ३२ ॥
पूजयित्वा महाकाली ततस्तं मुनिपुङ्गवम् ।
पुरस्कृत्यासिना हन्तुं नग्नं खड्गं चकार सः ॥ ३३ ॥
मरणं देहभावस्य दृष्ट्वाऽसौ योगिसत्तमः ।
न किञ्चित् क्षुब्धवांस्तत्र सस्मार गणपं हृदि ॥ ३४ ॥
अद्यैव पतितो देहोऽथवाऽस्तु चिरजीविकः ।
तत्र किं कारणं मे वै गजानन नमोऽस्तु ते ॥ ३५ ॥
एतस्मिन्नन्तरे तत्र देवी कोपसमन्विता ।
गाणपत्या महाकाली निःसृता मूर्तिमध्यतः ॥ ३६ ॥
खड्गं चौराधिपस्याऽपि हस्ताज्जग्राह लीलया ।
तेन तस्य शिरश्छित्वा पपौ रुधिरमुत्तमम् ॥ ३७ ॥
अन्ये समागताश्चौरास्तेऽपि खड्गेन नाशिताः ।
चिक्रीड स्वगणैर्देवी गणेशस्तवतत्परा ॥ ३८ ॥
तां प्रणम्य ययौ दक्ष बभ्राम परितस्तु सः ।
स्वेच्छाचारी महायोगी भिक्षाशी गणपं स्मरन् ॥ ३९ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते चौरवधो नामैकोनविंशोऽध्यायः ॥