१८ भरतमृगदेहत्यागः

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

क्रमेण योगशान्तिं च प्राप्तोऽसौ पुलहः स्वयम् ।
नित्यं गणेशमूर्तिं प्रापूजयत् भक्तिसंयुतः ॥ १ ॥

ध्याननिष्ठः सदा योगी तमेवाचिन्तयत् प्रभुम् ।
ततः कियति काले तं गणेशानो ययौ मुनिम् ॥ २ ॥

न बुबोध स तं विप्रो ध्याननिष्ठतया यदा ।
तदा हृदि स्थितो ढुण्ढिर्गणेशेन प्रलोपितः ॥ ३ ॥

अन्तर्हितं हृदिस्थं तं गणेशं न ददशे ह ।
तदा भ्रान्त इवापश्यद्ददर्श गणपं बहिः ॥ ४ ॥

उत्थाय सहसा विप्रस्तं ननाम कृताञ्जलिः ।
विधिवत् पूजयामास विनायकमनामयम् ॥ ५ ॥

पूजयित्वा नमस्कृत्य तं तुष्टाव कृताञ्जलिः ।
सरोमाञ्चशरीरः सन् हर्षगद्गदया गिरा ॥ ६ ॥

पुलह उवाच ।

नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे ।
विघ्नदात्रे ह्यभक्तानां गणेशाय नमो नमः ॥ ७ ॥

ब्रह्मणे ब्रह्मरूपाय निराकाराय ते नमः ।
साक्षिणे सर्वसंस्थायानादिसिद्धाय ते नमः ॥ ८ ॥

अनामयाय देवायाऽप्रतर्क्याय महौजसे ।
वक्रतुण्डाय वै तुभ्यं हेरम्बाय नमो नमः ॥ ९ ॥

स्वानन्दवासिने तुभ्यं भक्तसंरक्षकाय च ।
योगानां पतये चैव योगदायिन्नमो नमः ॥ १० ॥

शान्ताय शान्तरूपाय शान्तीनां पतये नमः ।
भक्तेभ्यः शान्तिदात्रे च योगशान्ताय ते नमः ॥ ११ ॥

नानावताररूपाय जगदाधारमूर्तये ।
सुरासुराणामीशाय सर्वगाय नमो नमः ॥ १२ ॥

सर्ववन्द्याय वै तुभ्यं सर्वादौ संस्थिताय च ।
सर्वान्त एकरूपाय मध्ये नानास्वरूपिणे ॥ १३ ॥

[[४१]]

आदिमध्यान्तहीनाय सृष्टिस्थित्यन्तकारिणे ।
अनन्तोदरसंस्थाय लम्बोदर नमोऽस्तु ते ॥ १४ ॥

गजवक्त्राय वै तुभ्यं गजाकाराय ते नमः ।
गजकर्णाय पूर्णाय गजानन नमोऽस्तु ते ॥ १५ ॥

मूषकध्वजरूपाय मूषकारूढरूपिणे ।
पाशाङ्कुशधरायैव स्तुताय च विभूतिभिः ॥ १६ ॥

चतुर्भुजधरायैव चतुर्वर्गमयाय च ।
ब्रह्मभूतस्वरूपाय देहधारिन्नमो नमः ॥ १७ ॥

यं वेदवादिनः स्तोतुं वेदाः साङ्गाश्च योगिनः ।
शिवविष्णुमुखा देवा न समर्था भवन्ति वै ॥ १८ ॥

तं कथं स्तौमि देवेशं योगरूपमयं प्रभुम् ।
अतो वै प्रणमामि त्वां प्रसन्नो भव सर्वदा ॥ १९ ॥

वरं मे देहि योगात्मन् तेन तुष्टो भवाम्यहम् ।
तव भक्तिं दृढां ढुण्ढे व्यभिचारविवर्जिताम् ॥ २० ॥

एवमुक्त्वा मुनिस्तत्र ननर्त प्रेमविह्वलः ।
तं भक्तिरससंयुक्तमुवाच गणनायकः ॥ २१ ॥

गणेश उवाच ।

मदीया सुदृढा भक्तिर्व्यभिचारविवर्जिता ।
भविष्यति महायोगिन् तव चानन्ददायिका ॥ २२ ॥

यदा मे स्मरणं त्वं वै करिष्यसि महामते ।
तदा मां द्रक्ष्यसि ब्रह्मन् संस्थितं तव सन्निधौ ॥ २३ ॥

भवत्कृतं मदीयं यत्स्तोत्रं भक्तिप्रदं भवेत् ।
भुक्तिमुक्तिप्रदं प्रोक्तं शान्तियोगप्रदायकम् ॥ २४ ॥

यः पठिष्यति वै मर्त्यः शृणुयात्सर्वसौख्यभाक् ।
भविष्यति न सन्देहो यथा त्वं स तथा भवेत ॥ २५ ॥

मुद्गल उवाच ।

एवमुक्त्वा गणाधीशस्तत्रैवान्तर्दधे प्रभुः ।
पुलहस्तत्र सन्तस्थावभजत्तं गणाधिपम् ॥ २६ ॥

मृगरूपधरस्तत्र भरतः पृथिवीपतिः ।
संस्थितस्तत्र शुश्राव पूर्णं ज्ञानं विधानतः ॥ २७ ॥

ब्रह्मणा कथितं यच्च पुलहाय सुधीमते ।
तदेव तेन भूपेन धृतं स्वहृदि सर्वदा ॥ २८ ॥

मनसि ध्यानसंयुक्तो बभूव मृगदेहजः ।
गणेशस्य सदा हृष्टस्तत्र वासं चकार सः ॥ २९ ॥

ततस्तेन च सङ्गीतं तच्छृणुष्व प्रजापते ।
अहो विघ्नो महाघोरो मया प्राप्तः सुदुर्जयः ॥ ३० ॥

राज्यं त्यक्त्वा वने नित्यं संस्थितोऽहं हरिं स्मरन् ।
तत्रापि मृगसङ्गेन सञ्जातो मृगरूपधृक् ॥ ३१ ॥

विष्णुमुख्यामरेशाना विघ्नयुक्ता न संशयः ।
तत्र कोऽहं मनुष्यो वै जयन् वै विनमुल्बणम् ॥ ३२ ॥

विघ्नराजप्रसादेन विघ्नं निघ्नन्ति दुर्जयम् ।
शिवविष्ण्वादयः सर्वे जन्तवश्च तथा परे ॥ ३३ ॥

धन्या भक्तिर्मत्कृता या वैष्णवी परमाद्भुता ।
यया संस्कारसंयुक्तं सम्प्राप्तं ज्ञानमुत्तमम् ॥ ३४ ॥

गाणपत्यो महायोगी दृष्टो वै पुलहो मया ।
अहो भाग्यमहो भाग्यं मदीयं परमं मतम् ॥ ३५ ॥

येनाहं गाणपत्यानां सङ्गे तिष्ठामि नित्यशः ।
विघ्नहीनः स्वभावेन भजामि गणनायकम् ॥ ३६ ॥

एवं गणेशभक्त्या वै संयुतो मृगसत्तमः ।
कालेन गणपं ध्यात्वा देहत्यागं चकार ह ॥ ३७ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते भरतमृगदेहत्यागो नामाष्टादशोऽध्यायः ॥