१७ पुलहोपदेशवर्णनम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

ऋषभेण कृता चर्या नानायोगप्रकाशिनी ।
आदौ तां भूमिपो दृष्ट्वा जगृहेऽर्हद्गृहे स्थितः ॥ १ ॥

दुर्बुद्धिः स तु तं भ्रष्टः कर्ममार्गं विमुच्य वै ।
पशुवद्धर्महीनांश्च कारयामास मानवान् ॥ २ ॥

?जैनमागः समुत्पन्नस्तदादिश्च प्रजापते ।
भरतेन स सञ्च्छन्नो कर्ममार्गानुसारिणा ॥ ३ ॥

स एव कलिकाले वै भविष्यति गृहे गृहे ।
नरास्तं सङ्ग्रहीष्यन्ति कलिदोषेण संयुताः ॥ ४ ॥

ऋषभेण गृहं त्यक्त्वा धृतः सन्न्यासिना महान् ।
गृहस्थैः सन्धृतो मार्गो नरकप्रद उच्यते ॥ ५ ॥

?ऋषभस्याग्रजः पुत्रो भरतो धर्मतत्परः ।
राज्यं चकार धर्मेण रञ्जयन् सकलाः प्रजाः ॥ ६ ॥

पुत्रे राज्यं समर्प्याऽसौ वनं यातो महायशाः ।
तत्र देहं क्रमेणैव तपसा शोषयन् स्थितः ॥ ७ ॥

शालिग्रामाश्रमे तिष्ठन्विष्णुध्यानपरायणः ।
तताप तप उग्रं स राजा परमधर्मवित् ॥ ८ ॥

एकदा स नदीतीरे संस्थितस्तर्पयन् पितॄन् ।
अकस्मात्सिंहसन्नादो बभूव भयदायकः ॥ ९ ॥

तं श्रुत्वा हरिणी तत्रान्तर्वत्नी सहसा स्वनम् ।
उत्पपात नदीं तां वै भयेन च पलायत ॥ १० ॥

उत्पतन्त्या नदीतोये गर्भस्तस्याः पपात ह ।
साऽपि दूरे ययौ दक्ष मृता दुःखेन तत्क्षणात् ॥ ११ ॥

भरतेन मृगो बालो जलस्थः सन्धृतोऽभवत् ।
करुणायुतचित्तेन पालितश्च स यत्नतः ॥ १२ ॥

ततो मृगशिशौ तस्य प्रीतिर्जाता महात्मनः ।
लालयामास भावेन खेलयामास भूमिपः ॥ १३ ॥

क्रमेण प्रगतं सर्वं कर्म तस्य तपोमयम् ।
मृगे चासक्तचित्तस्य सङ्गदोषमपश्यतः ॥ १४ ॥

एकस्मिन् दिवसे सोऽपि मृगो मृगसमन्वितः ।
ययौ वनान्तरे कुत्र न ज्ञातः साधुनाऽमुना ॥ १५ ॥

भरतस्तं मृगं तत्र न ददर्श यदा प्रभो ।
तदा दुःखसमायुक्तो बभ्राम स वने वने ॥ १६ ॥

न ददर्श मृगं कुत्र विललाप महीपतिः ।
नित्यं शोकसमायुक्तः कालेन स ममार च ॥ १७ ॥

मरणे स मृगस्तेन सन्दृष्टः स्वसमीपगः ।
बभूव मृगयोनौ स सङ्गदोषप्रभावतः ॥ १८ ॥

तत्र पूर्वतपोभिश्च पूर्वजातिस्मरोऽभवत् ।
ज्ञानयुक्तः स्वयं सङ्गात्स भीतो विचचार ह ॥ १९ ॥

मृगसङ्गं परित्यज्य ययौ पूर्वाश्रमे ततः ।
तत्राहिंसासमायुक्तो द्वन्द्वभावपराङ्मुखः ॥ २० ॥

शुष्कं तृणादिकं भक्षन् सोऽस्मरद्विष्णुमव्ययम् ।
तीर्थस्नानं तदा कुर्वन् साधुदर्शनलालसः ॥ २१ ॥

एकदा वनमध्ये स मृगो बभ्राम लीलया ।
अपश्यत्पूर्वपुण्येन पुलहाश्रममुत्तमम् ॥ २२ ॥

मुनीश्वरास्तत्र केचिदवसंस्तत्परायणाः ।
महाभागास्तपोयुक्ता गणेशभजने रताः ॥ २३ ॥

तत्राऽसौ मृगजातिस्थो भरतो मुनिसन्न्निधौ ।
वासं चकार संहृष्टः साधुसङ्गपरायणः ॥ २४ ॥

एकदा ब्रह्मदेवोऽथ जगाम पुलहाश्रमम् ।
तं दृष्ट्वा पुलहाद्यास्ते प्रणेमुस्तं पितामहम् ॥ २५ ॥

[[३९]]

तं सम्पूज्य महाभक्त्या पुलहः सर्वसंयुतः ।
तोषयित्वा स्वयं देवं पादसंवाहने स्थितः ॥ २६ ॥

परिपप्रच्छ तं स्तुत्वा पुलहो भावसंयुतः ।
आदिदेवं महाभागं गाणपत्यं स्वभावतः ॥ २७ ॥

पुलह उवाच ।

तात दुःखयुताः सर्वे जन्तवः केन भोगिनः ।
मोक्षिणो ब्रह्मभूताश्च जायन्ते तद्वदस्व मे ॥ २८ ॥

मुद्गल उवाच ।

पुलहस्य वचः श्रुत्वा प्रभुर्धाता तमब्रवीत् ।
पुत्रं विनयसंयुक्तं कृतप्राञ्जलिमास्थितम् ॥ २९ ॥

ब्रह्मोवाच ।
शृणु पुत्र प्रवक्ष्यामि यत्पृष्टं मे त्वया परम् ।
तत्सर्वं सर्वपापघ्नं शान्तिमार्गप्रकाशकम् ॥ ३० ॥

विघ्नराजमनादृत्य नरा दुःखसमन्विताः ।
जायन्ते सर्वलोकेषु विघ्नयुक्ता भयातुराः ॥ ३१ ॥

यद् यद् दुःखकरं तत्तद्विघ्नरूपं न संशयः ।
नरकादि महाघोरं विकर्मफलदं मतम् ॥ ३२ ॥

कर्मयुक्तं च सर्वं तत्स्वर्गभोगप्रदं मतम् ।
तदेव दुःखरूपं त्वं पुत्र जानीहि निश्चितम् ॥ ३३ ॥

स्वर्गेषु द्वन्द्वभावश्च विद्यते नात्र संशयः ।
स्त्रीपुंयुक्तं तथा विघ्नं मोहदं पश्य तत् स्थितम् ॥ ३४ ॥

दैत्यादिभ्यो भयैर्युक्ता देवास्तत्र वसन्ति ते ।
भयहीनाश्च तान् हत्वा लये मृत्युभयप्रदम् ॥ ३५ ॥

उत्पत्तिनाशसंयुक्तं ब्रह्माण्डं सकलं मतम् ।
त्रिगुणादि व्यथायुक्तं विघ्नेन ग्रसितं स्मृतम् ॥ ३६ ॥

अकर्मणा नरो मोक्षं लभते नात्र संशयः ।
स एव विघ्नसंयुक्तो मोक्षश्च शृणु तं सुत ॥ ३७ ॥

देही देहैश्चतुर्भिश्च मोहितो बन्धनं गतः ।
स एव साधनं कृत्वा बन्धहीनः प्रजायते ॥ ३८ ॥

मोहेन युक्तो हीनोऽयं देही सर्वत्र सम्मतः ।
तदेव विघ्नरूपं च तत्र प्राप्तं महामते ॥ ३९ ॥

देहदेहिमये योगे ब्रह्म तत्कल्पनात्मकम् ।
विकल्पेन द्विधाभूतं स्वत उत्थानसञ्ज्ञकम् ॥ ४० ॥

निर्विकल्पेन योगेन स्वमहिम्नि स्थितं भवेत् ।
तदेव विघ्नसंयुक्तं विकल्पयुतहीनतः ॥ ४१ ॥

साङ्ख्यं ब्रह्मात्मनिष्ठं यत्तत्र बाधो न विद्यते ।
अस्वात्मनिष्ठमन्यच्चेत्तदा स्वात्ममयं भवेत् ॥ ४२ ॥

स्वात्मनिष्ठं धृतं येन तस्मादस्वात्मनिष्ठकम् ।
समुत्पन्नं महाभाग न कृतं त्वपि पुत्रक ॥ ४३ ॥

तदेव विघ्नरूपं चाप्यपरोत्थानभावतः ।
साङ्ख्यं ब्रह्म न सन्देहो बीजमुत्थानधारकम् ॥ ४४ ॥

सबीजं तद्विनिर्बीजं तदेव भवति स्वयम् ।
अतो योगिभिरत्यन्तं मानितं न कदाचन ॥ ४५ ॥

स्वानन्दं ब्रह्म यत्प्रोक्तं समाधे रूपधारकम् ।
तत्र स्वकीयसंयोगस्तदाकारेण जायते ॥ ४६ ॥

सर्वाभेदस्वरूपेण संयोगात्मक उच्यते ।
स्वसंवेद्यात्परं नास्ति संयोगाभेददायकम् ॥ ४७ ॥

तदेव योगिभिस्तस्मात्कथितं विघ्नसंयुतम् ।
तस्माज्जातमिदं तत्र योगेनाभेदतां गतम् ॥ ४८ ॥

अन्वयात्मकदोषेण विघ्नरूपं प्रकाशितम् ।
अतो न मान्यतां प्राप्तं शान्तिमार्गेषु सर्वदा ॥ ४९ ॥

ततो योगस्वरूपं यत्सदा भिन्नं प्रकीर्तितम् ।
न तस्य कस्यचिद्योगस्तत्र कुत्रापि नो भवेत् ॥ ५० ॥

ब्रह्मभिन्नमयोगाख्यमतो विघ्नसमाकुलम् ।
व्यतिरेकात्मको दोषो ह्यशान्तिकर उच्यते ॥ ५१ ॥

[[४०]]

संयोगित्वमयोगत्वं त्यक्त्वा शान्तिमवाप्स्यसि ।
तत्र विघ्नविहीनत्वं प्राप्तं पुत्र न संशयः ॥ ५२ ॥

चित्तभूमिस्वरूपं यत् पञ्चधा त्यज विप्रप ।
योगाभेदस्वरूपस्त्वं भविष्यसि न संशयः ॥ ५३ ॥

पञ्चधा चित्तरूपा वै बुद्धिर्माया प्रकीर्तिता ।
पञ्चधैश्वर्यमोहेषु मोहदा सिद्धिरुच्यते ॥ ५४ ॥

तत्र बिम्बं गणेशस्य पतितं योगरूपतः ।
द्वैधं मायायुतं प्रोक्तं बिम्बभावं त्यज प्रभो ॥ ५५ ॥

आदौ पुरा मया पुत्र कथितं कुलदैवतम् ।
गणेशरूपमस्माकं त्वयाराधितमादरात् ॥ ५६ ॥

तेन त्वं पात्रभूतश्च योगशान्तेर्महामुने ।
अधुना कथितं पुत्र पूर्णशान्तिस्वरूपकम् ॥ ५७ ॥

शान्तियोगेन नित्यं त्वं तं भजस्व विधानतः ।
भविताऽसि गणेशानस्तदा वै नात्र संशयः ॥ ५८ ॥

एवमुक्त्वा स्वयं ब्रह्माऽन्तर्दधे स प्रजापते ।
पुलहस्तत्र योगं त्वसाधयत्तपसि स्थितः ॥ ५९ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते पुलहोपदेशवर्णनं नाम सप्तदशोऽध्यायः ॥