१६ ऋषभचरित्रवर्णनम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

प्रियव्रतात्मजश्चैवाग्नीध्रस्तस्याभवत्सुतः ।
नाभिस्तस्य च यज्ञाद्वै समुत्पन्नः सुतः परः ॥ १ ॥

यज्ञरूपः स्वयं विष्णुः कलारूपेण देहभृत् ।
पुत्रभावसमायुक्तः स्थितस्तस्य च सद्मनि ॥ २ ॥

तस्य पुत्रशतं जज्ञे भरताग्रं प्रजापते ।
एकाशीतिश्च पुत्रा वै ब्राह्मणास्तपसाऽभवन् ॥ ३ ॥

नवयोगिन एवान्येऽभवन् सर्वत्र सम्मताः ।
गाणपत्या महाभागाः सर्वदेहविवर्जिताः ॥ ४ ॥

कविर्हरिश्चान्तरिक्षः प्रबुद्धः पिप्पलायनः ।
आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥ ५ ॥

सदा योगधरा मुख्या ऊर्ध्वरेतस एव च ।
सर्वगाः सर्वसम्मान्या भ्रमन्ति भुवनेषु च ॥ ६ ॥

नव तत्र च राजानो जम्बुद्वीपे प्रजापते ।
खण्डेषु तेषु मुख्यो वै भरतो ज्येष्ठपुत्रकः ॥ ७ ॥

सभ्रातॄणां नवानां वै सम्राट् भावेन संस्थितः ।
एवं विभज्य राज्यं स्वमृषभश्च वनं ययौ ॥ ८ ॥

तत्र नाना तपः कृत्वा क्रमेण स बभूव च ।
अवधूतो महाभागो योगमभ्यस्य योगवित् ॥ ९ ॥

नानायोगविभेदेन नानाभूमिं विशोधयन् ।
जडोन्मत्तपिशाचादिं ततः सहजसंस्थितः ॥ १० ॥

सहजं शाङ्करं ब्रह्म मोहहीनं चतुर्थकम् ।
स्वाधीनं नेति रूपं यदव्यक्तं तेन संश्रितम् ॥ ११ ॥

तेनासौ शाम्भवो जातः शिवमार्गप्रकाशकः ।

[[३६]]

यत्रतत्राचरद्योगी जनानां बोधयन् शिवम् ॥ १२ ॥

ततो योगेन तत्रैव स्वाधीनब्रह्मदूषणम् ।
दृष्ट्वा शान्तिं परित्यज्य विस्मितः प्रबभूव सः ॥ १३ ॥

न ब्रह्मणि पराधीनस्वाधीनत्वं कदाचन ।
शिवः स्वाधीनरूपोऽयं न योगीन्द्रस्ततो भवेत् ॥ १४ ॥

एवं विचार्य विक्षेपाच्छङ्करालयमाययौ ।
तं प्रणम्य स्थितो योगी शिवसम्मानितो भृशम् ॥ १५ ॥

तत्र स्थिता महाभागा योगिनः शिवशिष्यकाः ।
गाणपत्याः स तान् दृष्ट्वा विस्मितो मानसेऽभवत् ॥ १६ ॥

ततोऽवसरमासाद्य शिवं नत्वा कृताञ्जलिः ।
जगाद तं स योगीन्द्रो भक्तियुक्तेन चेतसा ॥ १७ ॥

ऋषभ उवाच ।

नमस्ते शङ्करायैव नमस्ते योगरूपिणे ।
नमस्ते जगदाधार ब्रह्माधिपतये नमः ॥ १८ ॥

शान्तियोगं वद स्वामिन् पूर्णशान्तिप्रदायकम् ।
दासोऽहं तेऽधुना शिष्यो मह्यं देव दयानिधे ॥ १९ ॥

सहजान्न परं ब्रह्म मया ज्ञातं विवेकतः ।
तत्र स्वाधीनता दृष्टा तया शान्तिर्गता च मे ॥ २० ॥

मुद्गल उवाच ।

ऋषभस्य वचः श्रुत्वा शङ्करो हर्षनिर्भरः ।
जगाद तं महाभक्तं पूर्णपाशुपतं वचः ॥ २१ ॥

शिव उवाच ।

त्वया पृष्टं महायोगिंस्तारकं योगिनां मतम् ।
कथयामि महाप्रीत्या शृणुष्वैकाग्रमानसः ॥ २२ ॥

शान्तियोगात्मकः साक्षाद्वेदेषु कथितः पुरा ।
गणेशो योगरूपाख्यो योगिभिः सेवितः सदा ॥ २३ ॥

तस्मात् सर्वं समुद्भूतं तदाधारेण संस्थितम् ।
अन्ते चेदं तदाकारं योगेन भवति प्रभो ॥ २४ ॥

सामवेदे प्रकथितं शृणु वेदरहस्यकम् ।
येन त्वं शान्तिसंयुक्तो भविष्यसि न संशयः ॥ २५ ॥

मनोवाणीमयं सर्वं दृश्यादृश्यस्वरूपकम् ।
गकारात्मकमेतत्तु तत्र ब्रह्म गकारकः ॥ २६ ॥

मनोवाणीविहीनं च सयोगायोगसंस्थितम् ।
णकारात्मकमेतत्तु णकारस्तत्र संस्थितः ॥ २७ ॥

विविधानि गकाराच्च प्रसूतानि महामते ।
ब्रह्माणि तानि कथ्यन्ते तत्त्वरूपाणि योगिभिः ॥ २८ ॥

ब्रह्माणि तु णकाराच्च सम्प्रसूतानि योगिभिः ।
निरोधात्मकरूपाणि कथितानि समन्ततः ॥ २९ ॥

गकारश्च णकारश्चाह्वये गणपतेः स्थितौ ।
ततो जानीहि भो योगिन् ब्रह्माकारौ श्रुतेर्मुखात् ॥ ३० ॥

तयोः स्वामी गणेशानो योगरूपेण संस्थितः ।
तं भजस्व विधानेन शान्तिमार्गेण पुत्रक ॥ ३१ ॥

मनोवाणीमयं सर्वं गणेशाकारभावितम् ।
मनोवाणीविहीनं च तदाकारं प्रभावय ॥ ३२ ॥

मनोवाणीमयं सर्वं मायारूपं प्रकथ्यते ।
मनोवाणीविहीनं यत्तदेव तादृशं मतम् ॥ ३३ ॥

चित्तस्य पञ्च भूमीनां प्रकाशकृदयं स्मृतः ।
तेन चिन्तामणिर्नाम जातोऽसौ गणनायकः ॥ ३४ ॥

तं भजस्व महायोगिन् योगाकारेण संस्थितः ।
भूमीनां त्यागमार्गेण शान्तिं चित्तस्य चाप्स्यसि ॥ ३५ ॥

गणेशस्तु गणेशोऽयं संयोगायोगवर्जितः ।
मायया भ्रान्तिरुत्पन्ना तां त्यक्वा सुखमाप्स्यसि ॥ ३६ ॥

इत्युक्त्वा विररामाथ शिवः शिवकरः सताम् ।
ऋषभोऽपि प्रसन्नात्मा तं प्रणम्य ययौ वनम् ॥ ३७ ॥

[[३७]]

कथितं शङ्करेणैवमभ्यस्यन् योगमुत्तमम् ।
क्रमेण पूर्वयोगी स जातो शान्तिस्वरूपधृक् ॥ ३८ ॥

तथापि गणपं दक्ष न मुमोच क्षणं मुनिः ।
तेन तस्य समीपेऽसौ गणेशानः समाययौ ॥ ३९ ॥

आगतं गणपं दृष्ट्वा भक्तिभावेन यन्त्रितम् ।
प्रणनाम स साष्टाङ्गं हर्षगद्गदभाषणः ॥ ४० ॥

सरोमाञ्चशरीरश्च साश्रुनेत्रो महायशाः ।
तुष्ट्वाव तं गणाधीशं प्राञ्जलिर्हृष्टमानसः ॥ ४१ ॥

ऋषभ उवाच ।

नमस्ते ब्रह्मरूपाय गणेश करुणानिधे ।
भेदाभेदादिहीनाय गणानां पतये नमः ॥ ४२ ॥

निराकाराय नित्याय जगदाकारमूर्तये ।
अनन्ताय परेशाय परात्परतराय ते ॥ ४३ ॥

आदिमध्यान्तहीनाय गुणाकाराय ते नमः ।
गुणेशाय जगत्स्रष्ट्रे पालकाय हराय च ॥ ४४ ॥

नमो नानावताराय भक्तपालनहेतवे ।
सुरासुरमयायैव सुरासुरसुपूजित ॥ ४५ ॥

योगाय योगदात्रे च योगाकाराय ते नमः ।
योगानां पतये तुभ्यं ब्रह्मणां पतये नमः ॥ ४६ ॥

सर्वादये गणाध्यक्ष सर्वपूज्याय ढुण्ढये ।
सर्वान्ते ह्यवशिष्टाय विघ्नेशाय नमो नमः ॥ ४७ ॥

हेरम्बाय निजानन्दवासिने सिद्धसेवित ।
सिद्धिबुद्धिपते तुभ्यं नाना खेलकराय ते ॥ ४८ ॥

धर्मार्थकाममोक्षाणां दायकाय नमो नमः ।
ब्रह्मीभूतकरायैव ब्रह्मभूतमयाय च ॥ ४९ ॥

किं स्तौमि त्वां गणाधीश योगशान्तिमयं प्रभो ।
यं स्तोतुं न समर्थाश्च वेदाद्याः शिवमुख्यकाः ॥ ५० ॥

तथापि च यथाबुद्धिज्ञानं त्वं संस्तुतो मया ।
भक्तिं देहि त्वदीयां मे दृढामव्यभिचारिणीम् ॥ ५१ ॥

मुद्गल उवाच ।

इत्युक्त्वा निपपातोर्व्यां पदं धृत्वा महायशाः ।
गणेशस्य च तेनापि समुत्थापित आदरात् ॥ ५२ ॥

जगाद गणनाथः स ऋषभं भक्तमुत्तमम् ।
शिवशिष्यं शिवप्रज्ञं साक्षाद्विष्णुं सनातनम् ॥ ५३ ॥

गणेश उवाच ।

मदीया भक्तिरत्यन्तं भविष्यत्यचलानघ ।
स्तोत्रं त्वया कृतं मे तु शान्तिदं प्रभविष्यति ॥ ५४ ॥

यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः ।
श्रवणान्नात्र सन्देहो भावपूर्णं मतं मम ॥ ५५ ॥

इत्युक्त्वान्तर्दधे देवो गणेशो गणवल्लभः ।
ऋषभश्च सदा शान्तो योगी गाणेशतां गतः ॥ ५६ ॥

इदं चरित्रं मुख्यं वै यः शृणोति नरोत्तमः ।
ऋषभस्य महापुण्यं पठेद्वा तस्य सर्वदम् ॥ ५७ ॥

भविष्यति न सन्देहो ब्रह्मभूयप्रदायकम् ।
शान्तिदं शान्तचित्तेभ्यः कथितं भक्तिसंयुतम् ॥ ५८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकन्दतचरिते ऋषभचरित्रवर्णनं नाम षोडशोऽध्यायः ॥

[[३८]]