॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
अतलं वितलं चैव सुतलं च तलातलम् ।
महातलं रसातलं पातालं सप्तमं स्मृतम् ॥ १ ॥
अतलं श्यामवर्णं तदधोभूमेः सुसंस्थितम् ।
अयुते योजनानां वै विस्तारो लक्षयोजनः ॥ २ ॥
मयपुत्रेण संयुक्तं तथा नमुचिपूर्वकैः ।
तथान्यैर्विविधैर्नागैरतलं शोभितं प्रभो ॥ ३ ॥
वितलं श्वेतवर्णं तदधस्तस्मात्तथा स्मृतम् ।
अयुते योजनानां तद्विवरं चैव संस्थितम् ॥ ४ ॥
तत्र नागासुराश्चैव वसन्ति सुखभोगिनः ।
कम्बलः शङ्कुकर्णश्च हयग्रीवश्च जुम्भकः ॥ ५ ॥
[[३४]]
सुतलं पीतवर्णं तदधस्तद्वत्प्रतिष्ठितम् ।
तत्रैव वैनतेयादिपक्षिणो दैत्यपो बलिः ॥ ६ ॥
कालनेम्यादयश्चान्ये नानादैत्याः स्थिताः सुखम् ।
नागाश्च भयहीनास्ते संवसन्ति विहारिणः ॥ ७ ॥
तलातलं तथा ज्ञेयं शार्करं तत्र वासिनः ।
मयासुरादयश्चैव बाणान्धकमुखाः परे ॥ ८ ॥
वसन्ति सुखभावेनान्ये नागा विगतज्वराः ।
कालकेया महादेहा निवातकवचास्तथा ॥ ९ ॥
महातलं कृष्णवर्णं तत्र तक्षकपन्नगः ।
अन्ये च बहवो नागा वसन्ति सुखभोगिनः ॥ १० ॥
हिरण्यपुरधिष्ण्याश्च दैत्या अन्ये सहस्रशः ।
देवानां भयमुत्सृज्य निवसन्ति प्रजापते ॥ ११ ॥
रसातलं शैलमयमधस्तद्वत् स्थितं महत् ।
वासुकिप्रमुखैर्नागैर्दैत्यैर्नानाविधैस्तथा ॥ १२ ॥
विवरे सर्वशोभाढये नानासौख्यप्रदे परे ।
तत्र तेजस्विनस्तीक्ष्णविषोग्राः प्रवसन्ति वै ॥ १३ ॥
पातालं नीलवर्णं तदधस्तस्मात्प्रतिष्ठितम् ।
तत्र स्थानं च शेषेण कार्यार्थे च कृतं किल ॥ १४ ॥
तत्र दैत्याः सुरा नागास्तं सदा पर्युपासते ।
भक्तियुक्ता विवेकेन नागराजं महौकसम् ॥ १५ ॥
पातालविवरेष्वत्र गृहा नानाविधाः कृताः ।
वनानि च तथा ग्रामा नगराणि प्रजापते ॥ १६ ॥
विचित्रभोगयुक्ताश्च वृक्षा नानाविधाः खगाः ।
मन्दिराणि प्रभावन्ति सोत्पलानि सरांसि च ॥ १७ ॥
तत्र स्वर्गसमं दक्ष भोगं कुर्वन्ति जन्तवः ।
हृष्टपुष्टजनाः सर्वे नियुताब्दोपजीविनः ॥ १८ ॥
अपारायुः समायुक्ता महातेजस एव ते ।
देवादीनां सुदुर्धर्षा वसन्ति च्छन्दचारिणः ॥ १९ ॥
तस्मादधः सहस्राणि योजनानि प्रजापते ।
त्रिंशत्तत्र स्वयं शेषः सदा तिष्ठति नागपः ॥ २० ॥
गणेशभक्तिसंयुक्तो गणेशांशसमुद्भवः ।
विष्णोः कलावतारश्च कालरुद्रस्तथा स्मृतः ॥ २१ ॥
सहस्रानन एकोऽसौ महाभागो महाबलः ।
यस्य विषभवा ज्वाला दहेत्तु सकलं जगत् ॥ २२ ॥
मृत्युवर्जित एकोऽसौ तेनानन्तः प्रकीर्तितः ।
ब्रह्मणो दिवसान्ते वै लयं कृत्वा स्वयं स्थितः ॥ २३ ॥
अभजन्नागराजास्तं वासुकिप्रमुखाः सदा ।
असुराश्चैव प्रह्लादमुख्याः सेवापरायणाः ॥ २४ ॥
उपासते विलीनास्तं तथान्या नागयोषितः ।
नानाकामप्रसिद्धयर्थमनन्तं भक्तितत्पराः ॥ २५ ॥
तस्मादधः कच्छपस्य विष्णोश्चैवावतारिणः ।
स्थानं सहस्र एकस्मिन् योजनानां स्थितं प्रभो ॥ २६ ॥
तत्र तं वरुणाद्याश्च सेवन्ते भावतत्पराः ।
साक्षात् कूर्मस्वरूपस्थं नारायणमनामयम् ॥ २७ ॥
योजनानां ततोऽधस्तात् सहस्रे संस्थितः स्वयम् ।
वराहरूपधारी च विष्णुः परपुरञ्जयः ॥ २८ ॥
तं धरित्रीमुखाः सर्वे सेवन्ते भक्तितत्पराः ।
महादेवं करालास्यं स्वभक्तेभ्योऽभयप्रदम् ॥ २९ ॥
शेषाधारमिदं सर्वं कूर्माधारः स वै स्मृतः ।
कूर्मो वराहरूपस्याधारेण समवस्थितः ॥ ३० ॥
[[३५]]
वराहश्च निराधारो गणेशं हृदि संस्मरन् ।
स्थितस्तेन प्रभावेण सर्वाधारः स वै स्मृतः ॥ ३१ ॥
तस्मादधो रौरवाद्या नरकाश्च समाश्रिताः ।
यातनाकारिणः सर्वे पापिनां शुद्धिकारकाः ॥ ३२ ॥
रौरवैश्चैव तामिस्रो महारौरवसञ्ज्ञितः ।
अन्धतामिस्रसञ्ज्ञश्च तथा सूचीमुखोऽपरः ॥ ३३ ॥
लोहदण्डस्तप्तवालुकस्तथा खड्गपत्रकः ।
लालास्यः कृमिभक्ष्यश्च इत्याद्या बहवः स्मृताः ॥ ३४ ॥
नरकेषु प्रपच्यन्ते पापकारिण एव ये ।
एतावान् ब्रह्मगोलस्ते सङ्क्षेपेण निरूपितः ॥ ३५ ॥
विस्तरान्नैव शक्यश्च गदितुं वै प्रजापते ।
शापमोहस्य वेगेन तव भ्रान्तिः समागता ॥ ३६ ॥
गणेशाराधनेनाद्य भ्रान्तिनाशो भविष्यति ।
तदा त्वं तत्त्वतः सर्वं ज्ञास्यस्यत्र न संशयः ॥ ३७ ॥
एवं सर्वेषु सामान्यं ब्रह्माण्डेषु बभौ जगत् ।
अष्टावरणयुक्तेषु गुणेशाधारकेषु वै ॥ ३८ ॥
इदं गणपते रूपं ब्रह्माण्डात्मकमास्थितम् ।
कथितं ते समासेन सर्वसिद्धिप्रदं मया ॥ ३९ ॥
यः शृणोति नरो ?भक्त्या पठेद्वै तस्य सर्वदम् ।
भुक्तिमुक्तिकरं भावि पापकञ्चुकनाशनम् ॥ ४० ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते सप्तपातालवर्णनं नाम पञ्चदशोऽध्यायः ॥