१४ ऊर्ध्वस्थलोकवर्णनम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

ध्रुवादूर्ध्वं महर्लोकः कोटियोजनदूरगः ।
कल्पाधिकारिणस्तत्र वसन्ति सुखभोगिनः ॥ १ ॥

जनलोको महर्लोकात् कोटियोजनदूरगः ।
सनकाद्याः स्थितास्तत्र त्रसरेणुविमानगाः ॥ २ ॥

जनलोकात्तपोलोकः कोटियोजनदूरगः ।
वैराजास्तत्र वै देवाः स्थिता भयविवर्जिताः ॥ ३ ॥

सत्यलोकस्तपोलोकात्कोटियोजनदूरगः ।
अपुनर्भवरूपा च ब्रह्मणो वसतिः परा ॥ ४ ॥

तत्र लोकगुरुर्ब्रह्मा विश्वात्मा विश्वभावनः ।
आस्ते स योगिभिर्नित्यं पीत्वा योगामृतं परम् ॥ ५ ॥

वसन्ति यतयस्तत्र नैष्ठिका ब्रह्मचारिणः ।
व्रतिनस्तापसाः सिद्धा याजकाः परमेष्ठिनः ॥ ६ ॥

द्वारं तद्योगिनामेकं गच्छतां गणपं परम् ।
न तद्वर्णयितुं शक्यं ज्वालामालासमाकुलम् ॥ ७ ॥

तस्मादूर्ध्वं निरालम्बं विश्वरूपविवर्जितम् ।
सत्यलोकान्तमेतद्वै वैराटं रूपमुत्तमम् ॥ ८ ॥

पञ्चकोटियुतं पूर्णं तस्माद्दशगुणा मही ।
ब्रह्माकारा च विज्ञेया पञ्चाशत्कोटिविस्तरा ॥ ९ ॥

विधेर्लोकात्कोटियुग्मे योजनानां प्रजापते ।
शक्तिलोको निराधारो ज्योतिर्मयविराजितः ॥ १० ॥

तेजः पुञ्जमये दक्ष महामायासमाश्रिते ।
निष्कामाः शक्तिभक्ता ये तत्र गच्छन्ति योगिनः ॥ ११ ॥

दशसाहस्रविस्तारे समन्ताज्जनसङ्कुले ।
योजनानां महाभाग शक्तयस्तत्र संस्थिताः ॥ १२ ॥

स्वतेजसा विनिर्माय पुरुषान् समरूपिणः ।
तैः समं क्रीडने सक्ताः स्त्रीभावेन जगन्मया ॥ १३ ॥

तस्मात्कोटिचतुष्के च सूर्यलोकः पुरातनः ।
योजनानां महातेजः पुञ्जरूपो विराजते ॥ १४ ॥

निराधारे सदा नित्ये निष्कामास्तत्र यान्ति वै ।
शुक्लगत्या महाभागाः साक्षाद्भानुनिवासिनः ॥ १५ ॥

अन्ये सूर्यस्य ये भक्ता निष्कामभजने रताः ।
तत्र गच्छन्ति ते दक्ष भानुतेजःसमप्रभाः ॥ १६ ॥

तस्यापि विस्तरस्तावान् शक्तिलोकसमेन वै ।
तत्र क्रीडति यो भानुः पुरुषाकारसंस्थितः ॥ १७ ॥

स्ववामाङ्गाच्च निर्माय मायां कर्ममयीं प्रभुः ।
सञ्ज्ञां तया सदा रेमे पुरुषो ब्रह्मसञ्ज्ञितः ॥ १८ ॥

तस्माद्योजनकोटिष्वष्टासु विष्णुः समास्थितः ।
सदाविकुण्ठवासीय आनन्दमयमूर्तिमान् ॥ १९ ॥

विस्तारस्तस्य लोकस्य विकुण्ठस्य प्रमाणतः ।
अयुतं योजनानां च समन्ताच्च विराजते ॥ २० ॥

निराधारे सदा नित्ये ज्योतीरूपमये परे ।
तत्र गच्छन्ति निष्कामा वैष्णवा भक्तितत्पराः ॥ २१ ॥

सदानन्दसमायुक्तास्तत्र नित्यसुखे रताः ।
जनास्तिष्ठन्ति नार्यश्च स्वेच्छागतिविहारिणः ॥ २२ ॥

वामभागात्स निर्माय भोगलक्ष्मीं प्रजापते ।
दक्षिणाङ्गान् मुक्तिलक्ष्मीं ताभ्यां क्रीडति सर्वदा ॥ २३ ॥

सदानन्दमयः साक्षात् विष्णुः परमधर्मवित् ।
द्विविधं मायया कृत्वा खेलति स्वेच्छया प्रभुः ॥ २४ ॥

तस्मात्षोडशसङ्ख्यासु योजनानां च कोटिषु ।
दूरे शङ्करलोकश्च कैलासः परमाद्भुतः ॥ २५ ॥

[[३३]]

निराधारे सदा लोके मोहहीने सुखप्रदे ।
निष्कामाः शिवभक्ताश्च तत्र गच्छन्ति मानवाः ॥ २६ ॥

ज्योतिर्मयस्वरूपे च सदा कल्याणदायके ।
लोके तत्र स्वयं शम्भुर्वसति स्वेच्छया मुने ॥ २७ ॥

अयुतं योजनानां च तस्य विस्तार एव च ।
तत्र योगेन योगज्ञः शङ्करः क्रीडति प्रभुः ॥ २८ ॥

वामाङ्गं प्रकृत्याकारं दक्षिणाङ्गं प्रजापते ।
पुरुषाकारमेतस्य शङ्करस्य महात्मनः ॥ २९ ॥

संयोगे च तयोर्दक्ष आनन्दः परिकीर्तितः ।
नारायणमयी शक्तिरर्धनारीनरः शिवः ॥ ३० ॥

सा शक्तिस्तस्य देवस्य त्रिधा रूपधरा बभौ ।
कृता भिन्ना शिवेनापि जगदानन्ददायिनी ॥ ३१ ॥

तया व्यक्तो महादेवो मोहहीनः स्वभावतः ।
क्रीडत्यनारतं दक्ष मायाधारः स्वलोकगः ॥ ३२ ॥

तस्याः परं पृथिव्यास्तु ब्रह्म स्वानन्दसञ्ज्ञितम् ।
तत्पदान्न परं किञ्चिद्वेदादौ सुप्रतिष्ठितम् ॥ ३३ ॥

स्वसंवेद्यं हि यद्ब्रह्म चतुर्धा तद्बभौ स्वयम् ।
चतुर्णां तत्र संयोगस्तन्मयः कथितो बुधैः ॥ ३४ ॥

अव्यक्तं शिवसञ्ज्ञं च ब्रह्म निर्मोहरूपकम् ।
तस्मात् समं तथा ब्रह्म वैष्णवं परिकीर्तितम् ॥ ३५ ॥

तस्मादात्मस्वरूपं यत् सूर्याकारं च तत्स्मृतम् ।
तस्मादसन्मयं ब्रह्म शक्तिरूपेण संस्थितम् ॥ ३६ ॥

तेषामभेदसम्प्राप्तिः स्वानन्दः परिकीर्तितः ।
एवं तत्त्वेषु सर्वेषु स्वस्वस्वानन्द उच्यते ॥ ३७ ॥

ब्रह्म नानाविधं प्रोक्तमाकाशादिविभेदतः ।
तत्र क्रमार्थम्ं स्वानन्दः स्वमहिन्नि स्थितोऽभवत् ॥ ३८ ॥

अन्ते पूर्णत्वमापन्नः साक्षाद्गणपतेः स्मृतः ।
स्वानन्दः सर्वसंयोगे समाधिः पूर्व उच्यते ॥ ३९ ॥

स्थाने स्थाने निजानन्दे गणेशः संस्थितः स्वयम् ।
कलांशेन विहारार्थं सर्वेषां सर्वसिद्धये ॥ ४० ॥

एवमूर्ध्वस्थलोका ये कथितास्ते प्रजापते ।
अतिसङ्क्षेपभावेन श्रवणात् सर्वकामदाः ॥ ४१ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते ऊर्ध्वस्थलोकवर्णनं नाम चतुर्दशोऽध्यायः ॥