॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
रवेः कलांशसम्भूता द्वादशान्ये च भानवः ।
द्वादशस्वेव मासेषु ते तपन्ति रथस्थिताः ॥ १ ॥
सरथोऽधिष्ठितो देवैरादित्यैर्मुनिभिः तथा ।
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥ २ ॥
धातार्यमाऽथ मित्रश्च वरुणः शक्रसञ्ज्ञितः ।
विवस्वानथ पूषा च पर्जन्यश्चांशुरेव च ॥ ३ ॥
भगस्त्वष्टाऽथ विष्णुश्च द्वादशैते च भानवः ।
तपन्ति रथसंस्था वै वसन्तादिक्रमेण च ॥ ४ ॥
पुलस्त्यः पुलहोऽथात्रिर्वसिष्ठश्चाङ्गिरा भृगुः ।
भरद्वाजो गौतमश्च कश्यपः क्रतुरेव च ॥ ५ ॥
जमदग्निः कौशिकोऽथ मुनयो ब्रह्मवादिनः ।
स्तुवन्ति पुरतो देवं छन्दोभिर्विविधैस्तस्था ॥ ६ ॥
रथकृच्च रथौजा वै रथचित्रः स्वबाहुकः ।
रथस्वनोऽथ वरुणः सुषेणः सेनजित्तथा ॥ ७ ॥
तार्क्ष्यश्चारिष्टनेमिर्वै रथजित्सत्यजित्तथा ।
ग्रामण्यो देवदेवस्य कुर्वतेऽभीषुसङ्ग्रहम् ॥ ८ ॥
अथ हेतिः प्रहेतिश्च पौरुषेयो वधस्तथा ।
सर्पो व्याघ्रस्तथा व्याधो वातो विद्युद्दिवाकरः ॥ ९ ॥
ब्रह्मोपेतश्च भो दक्ष यज्ञोपेतस्तथापरः ।
राक्षसप्रवरा एते प्रयान्ति पुरतः क्रमात् ॥ १० ॥
वासुकिः कङ्कनीरश्च तक्षको नागमुख्यकः ।
एलापत्रः शङ्खपालस्तथैरावतसञ्ज्ञितः ॥ ११ ॥
धनञ्जयो महापद्मस्तथा कर्कोटकोऽपरः ।
कम्बलाश्वतरौ चैव वहन्त्येते प्रभाकरम् ॥ १२ ॥
नागा द्वादशमासेषु प्रजाधीश यथाक्रमम् ।
तुम्बरुर्नारदो हाहा हूहूर्विश्वावसुस्तथा ॥ १३ ॥
उग्रसेनो वसुरुचिरवीवसुरथापरः ।
चित्रसेनस्तथोर्णायुर्धृतराष्ट्रः प्रजापते ॥ १४ ॥
सूर्यवर्चा द्वादशैते गन्धर्वा गायनाः पुरः ।
घनस्तनी च रम्भा वै तथान्या पुञ्जिकस्थली ॥ १५ ॥
मेनका सहजन्या च प्रम्लोचाऽथ प्रजापते ।
अनुम्लोचा घृताची च विश्वाची चोर्वशी परा ॥ १६ ॥
अन्या च पूर्वचित्तिर्या भास्करं च तिलोत्तमा ।
ताण्डवैस्तोषयन्त्येनं वसन्तादिषु वै क्रमात् ॥ १७ ॥
एवं देवा वसन्त्यर्के द्वौ द्वौ मासौ क्रमेण तु ।
सूर्यमाप्याययन्त्येते तेजसा तेजसां निधिम् ॥ १८ ॥
ग्रथितैः स्ववचोभिस्तं स्तुवन्ति मुनयो रविम् ।
गन्धर्वाप्सरसश्चैनं गेयैर्नृत्यैरुपासते ॥ १९ ॥
[[३१]]
ग्रामणीर्ह्यक्षभूतानि कुर्वतेऽभीषुसङ्ग्रहम् ।
सर्पा वहन्ति देवेशं यातुधानाः प्रयान्ति तम् ॥ २० ॥
वालखिल्या नयन्त्यस्तं परिवार्योदयाद्रविम् ।
एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च ॥ २१ ॥
भूतानामशुभं कर्म व्यपोहन्त्यनुकीर्तिताः ।
एते सहैव सूर्येण भ्रमन्ति दिवि सर्वदा ॥ २२ ॥
विमानेऽधिष्ठिता नित्यं कामगे वातरंहसि ।
वर्षन्तश्च तपन्तश्च ह्लादयन्तः सदा प्रजाः ॥ २३ ॥
गोपायन्तीह भूतानि सर्वाण्येते युगक्षये ।
एतेषां रूपमास्थाय सूर्यस्तपति नित्यशः ॥ २४ ॥
अहोरात्रव्यवस्थानां कारणं स प्रजापतिः ।
पितृदेवमनुष्यादिनित्यमाप्याययेद्रविः ॥ २५ ॥
एवमेष गणेशांशो देवदेवो दिवाकरः ।
करोति नियतं कालं कालात्मा भगवान् स्वयम् ॥ २६ ॥
अन्ये चाष्टग्रहाः प्रोक्ता ध्रुवे बद्धा भ्रमन्ति ते ।
दिवाकरकरैः पुष्टा तं रविं वातरश्मिभिः ॥ २७ ॥
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः ।
वामदक्षिणतो युक्ता दश ते वै क्षपाकराः ॥ २८ ॥
वीथ्याश्रयेण नक्षत्रं चरत्येव रविर्यथा ।
ह्रासवृद्धिसमायुक्तो ध्रुवाधारेण सर्वदा ॥ २९ ॥
स सोमः शुक्लपक्षे तु भास्करे परतः स्थिते ।
आपूर्यते कलामात्रः सततं वर्धते ततः ॥ ३० ॥
कृष्णे पीतं सुरैः सोममाप्याययति नित्यदा ।
एकेन रश्मिना दक्ष सुषुम्नाख्येन भास्करः ॥ ३१ ॥
एवं सूर्यस्य वीर्येण सोमस्याप्यायिता तनुः ।
दृश्यते पौर्णमासीस्था सम्पूर्णा दिवसैः क्रमात् ॥ ३२ ॥
सम्पूर्णमर्धमासेन तं सोमममृतात्मकम् ।
पिबन्ति देवताः सर्वाः क्रमेणामृतभोजिनः ॥ ३३ ॥
ततः पञ्चदशे भागे किञ्चिच्छेषे कलात्मके ।
पितरश्चापराह्णे तं जघन्यं पर्युपासते ॥ ३४ ॥
पिबन्ति द्विलवं कालं शिष्टा तस्य कला तु या ।
स्वधामृतमयी पुण्या सा चन्द्रस्यामृतात्मिका ॥ ३५ ॥
निःसृतं तदमायां तु गभस्तिभ्यः स्वधामृतम् ।
मासतृप्तिकरं तेषां पितरः सन्ति निर्वृताः ॥ ३६ ॥
न सोमस्य विनाशः स्यात्सुधादेवस्य पानतः ।
एवं सूर्यनिमित्तोऽस्य क्षयो वृद्धिश्च सर्वदा ॥ ३७ ॥
सोमपुत्रस्य सिंहैश्च चतुर्भिर्वायुवेगिभिः ।
स्यन्दनस्तैः समायुक्तस्तेनासौ याति सर्वतः ॥ ३८ ॥
भार्गवस्य तथाष्टाश्वः स्यन्दनो हेमनिर्मितः ।
अष्टाभिरपि मेषैश्च रथो भौमस्य शोभनः ॥ ३९ ॥
बृहस्पतेश्च रक्ताश्वैरष्टभिर्हेमनिर्मितः ।
रथोऽष्टनीलगृध्रैश्च मन्दस्यायसनिर्मितः ॥ ४० ॥
स्वर्भानोः कृष्णसिंहैश्च युक्तः केतोः कपोतकैः ।
एते नवग्रहाणां वै समाख्याता महारथाः ॥ ४१ ॥
सर्वे ध्रुवे समाबद्धा वातरश्मिभिरादरात् ।
ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धानि सर्वदा ॥ ४२ ॥
भ्रमति भ्रामयत्येतान् सर्वाशानिलरश्मिभिः ।
अतो ध्रुवाधारमिदं ज्योतिश्चक्रं प्रजापते ॥ ४३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते नवग्रहरथादिवर्णनं नाम त्रयोदशोऽध्यायः ॥
[[३२]]