१२ सूर्यमण्डलवर्णनम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

प्रसङ्गात्सर्वलोकानां वच्मि वै संस्थितिं पराम् ।
स्वर्गाणामपि सङ्क्षेपान्मुख्यानां कथयामि ते ॥ १ ॥

भूर्लोकोऽथ भुवर्लोकः स्वर्लोकश्च महो जनः ।
तपोलोकस्तथासत्यो लोकास्त्वण्डोद्भवाः स्मृताः ॥ २ ॥

अर्यमा चन्द्रमा यावत्किरणैरवभासते ।
तावान् भूर्लोक आख्यातः पुराणेषु प्रजापते ॥ ३ ॥

पद्भयां नरैर्भवेद्गम्यः स एवं शास्त्रसम्मतः ।
भूर्लोकः कथितो दक्ष सप्तद्वीपात्मकः खलु ॥ ४ ॥

प्रमाणमखिलं यावद्भूर्लोकस्य समन्ततः ।
तावच्चैव भुवर्लोके परिमाणं च कथ्यते ॥ ५ ॥

भूर्लोकात्सूर्यपर्यन्तं भुवर्लोकः प्रकीर्तितः ।
तस्माच्च ध्रुवपर्यन्तं स्वर्लोकः कथितो बुधैः ॥ ६ ॥

तत्र वायोः समाख्याता नेमयोऽष्टविधाः प्रभो ।
आवहः प्रवहश्चैव तथैवान्नवहः परः ॥ ७ ॥

संवहो विवहश्वाथ तदूर्ध्वं च परावहः ।
तथा परिवहश्चोर्ध्वं वहस्तस्मात्परः स्मृतः ॥ ८ ॥

भूमेर्योजनलक्षे तु भानोर्वै मण्डलं स्थितम् ।
लक्षे दिवाकरात्प्रोक्तं चन्द्रमण्डलमास्थितम् ॥ ९ ॥

नक्षत्रमण्डलं कृत्स्नं तस्माल्लक्षे प्रकाशते ।
द्वे लक्षयोजने तस्मात् ग्रहाणां मण्डलं स्मृतम् ॥ १० ॥

तस्माल्लक्षे ऋषीणां यन्मण्डलं च प्रकाशते ।
ऋषीणां मण्डलादूर्ध्वं लक्षमात्रे स्थितो ध्रुवः ॥ ११ ॥

मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ।
वायुरश्मिधरः सोऽपि चालयन् ज्योतिषां गणम् ॥ १२ ॥

दशयोजनसाहस्रं मण्डलं भास्करस्य च ।
तथा द्वादशसाहस्रं मण्डलं शशिनः स्मृतम् ॥ १३ ॥

सूर्याधस्तात् स्थितो राहुर्दशसाहस्रयोजनः ।
त्रयोदशसहस्रं च मण्डलं तस्य कथ्यते ॥ १४ ॥

तमोमयं तमःस्थानं गत्या पर्वणि धावति ।
छायया सूर्यचन्द्रौ वा आच्छादयति सत्वरम् ॥ १५ ॥

तदेव ग्रहणं दक्ष कथ्यते शास्त्रवादिभिः ।
अखिलं तमसा व्याप्तं मण्डलं रविसोमयोः ॥ १६ ॥

[[२९]]

चन्द्रस्य षोडशो भागो मण्डलं भार्गवस्य च ।
भार्गवात्पादहीनं यत् द्विज तच्च बृहस्पतेः ॥ १७ ॥

बृहस्पतेः पादहीनं मण्डलं भौमसौरयोः ।
विस्ताराच्च तयोः पादहीनं सौम्यस्य मण्डलम् ॥ १८ ॥

तारानक्षत्ररूपाणि हीनानि तु परस्परात् ।
शतानि पञ्चचत्वारि त्रीणि द्वे योजनानि वै ॥ १९ ॥

सर्वेभ्योऽपि निकृष्टानि ताराणां मण्डलानि तु ।
योजनाध्यर्धमात्राणि तेभ्यो न्यूनं न विद्यते ॥ २० ॥

उपरिष्टात् त्रयस्तेषां ग्रहा ये दूरसर्पिणः ।
सौरोङ्गिराश्च भौमश्च विज्ञेया मन्दगामिनः ॥ २१ ॥

तेभ्योधस्ताच्च चत्वारः पुनरन्ये महाग्रहाः ।
सूर्यः सोमो बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥ २२ ॥

अयने द्वे समास्थाय भानुश्चरति सर्वदा ।
प्रभुः सर्वग्रहाणां स सर्वाधस्तात्प्रसर्पति ॥ २३ ॥

विस्तीर्णं मण्डलं कृत्वा चरत्यूर्ध्वं ततः शशी ।
नक्षत्रमण्डलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ॥ २४ ॥

नक्षत्रेभ्यः कविश्चोर्ध्वं तस्मादूर्ध्वं बुधः स्मृतः ।
भौमः सोमसुतादूर्ध्वं तस्मादूर्ध्वं बृहस्पतिः ॥ २५ ॥

शनैश्चरस्ततो ह्यूर्ध्वं तस्मात् सप्तर्षिमण्डलम् ।
ऋषीणां चैव सप्तानां ध्रुवश्चोर्ध्वं व्यवस्थितः ॥ २६ ॥

नवयोजनसाहस्रो भास्करस्य रथः स्मृतः ।
ईषादण्डस्तथैवास्य द्विगुणो वै प्रजापते ॥ २७ ॥

लक्षप्रमाणमक्षश्च ध्रुवाधारेण संस्थितः ।
द्वितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले ॥ २८ ॥

चक्रं राशिमयं तस्य द्वादशारं प्रकीर्तितम् ।
गायत्रीमुख्यकास्तस्य सप्त छन्दोमया हयाः ॥ २९ ॥

दक्षिणायनमासाद्य क्षिप्रं क्षिप्रं प्रसर्पति ।
यदोत्तरगतो भानुरक्षिप्रं चैव सर्पति ॥ ३० ॥

मानसोपरि माहेन्द्री प्राच्यां दिशि महापुरी ।
दक्षिणे धर्मराजस्य वरुणस्य च पश्चिमे ॥ ३१ ॥

उत्तरे तु कुबेरस्य तन्नामानि निबोध मे ।
अमरावती संयमनी सुखा चैव विभा क्रमात् ॥ ३२ ॥

ज्योतिषां चक्रमादाय देवदेवः प्रजापतिः ।
उदये च महेन्द्रस्य नगर्यां स प्रकाशते ॥ ३३ ॥

यमपुर्यां च मध्याह्ने सायाह्ने वरुणस्य तु ।
निशामध्ये च कौबेर्यामेवं चरति भास्करः ॥ ३४ ॥

उदयास्तमयेनायं सर्वकालसमानगः ।
अशेषासु दिशास्वेष सर्वासु विदिशासु च ॥ ३५ ॥

कुलालचक्रवल्लोके भ्रमत्येवं दिनेश्वरः ।
स्वस्वबोधसमानं च भिन्नं कालं प्रकाशयन् ॥ ३६ ॥

करोत्यहस्तथा रात्रिं किरणैः स्थापयन् प्रजाः ।
दिवाकरकरैरेतत् पूरितं भुवनत्रयम् ॥ ३७ ॥

जलं स्थलं नभः प्रोक्तं लोकानां स्थानमुत्तमम् ।
आदित्यमूलमेतच्च त्रिविधं नात्र संशयः ॥ ३८ ॥

भवत्यस्माज्जगत्कृत्स्नं सदेवासुरमानुषम् ।
मध्यभागे तदाधारमन्ते तत्र प्रतिष्ठितम् ॥ ३९ ॥

ब्रह्मविष्णुमहेशेन्द्रचन्द्रताराग्निनागजम् ।
वीरुद्विप्रोदकानां यत्तेजस्तद्रविसम्भवम् ॥ ४० ॥

द्युतिर्द्युतिमतां कृत्स्ना यत्तेजः सार्वलौकिकम् ।
विभज्य स्वयमेवेशः क्रीडति स्म दिवाकरः ॥ ४१ ॥

सर्वात्मा सर्वलोकेशो गणेशांशः प्रभाकरः ।
मूलं त्रिभुवनस्यापि कर्मरूपी च दैवतम् ॥ ४२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते सूर्यमण्डलवर्णनं नाम द्वादशोऽध्यायः ॥