॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
जम्बुद्वीपेऽश्वरस्याथ नवपुत्रा बभूविरे ।
नाभिः किम्पुरुषश्चैव तथा हरिरिलावृतः ॥ १ ॥
हिरण्मयः कुरू रम्यो भद्राश्वः केतुमालकः ।
स्वस्वनामाङ्कितान् खण्डान् पिता तेभ्यो ददौ स्वयम् ॥ २ ॥
एवं दत्त्वा च सप्तैते प्रियव्रतसुतास्ततः ।
ययुर्वनं तपस्तप्त्वा गाणपत्या बभूविरे ॥ ३ ॥
ययुर्गाणेश्वरं धाम ते त्वन्ते ब्रह्मवादिनः ।
पुनरावृत्तिशून्यं यद्योगाभेदं प्रभावतः ॥ ४ ॥
जम्बुद्वीपस्य विस्तार एकलक्षं समन्ततः ।
योजनानां तथा दक्ष लवणोदेन संवृतः ॥ ५ ॥
तत्र मध्ये महाशैलो मेरुर्हेममयः शुभः ।
नानाधातुविचित्राङ्गो नानौषधिसमन्वितः ॥ ६ ॥
नदीभिः सुजलाभिश्च युतोऽसौ कनकाचलः ।
गुहाभिश्च तथा दक्ष नानाजन्तुसमन्वितः ॥ ७ ॥
लक्षयोजन उत्सेधस्तस्य प्रोक्तो महात्मनः ।
षष्टिसाहस्रमेतस्य योजनानां प्रमाणकम् ॥ ८ ॥
बहिस्थितेस्तथा द्वात्रिंशत्सहस्रमधःस्थितेः ।
अष्टसाहस्रकं चैव योजनानां समन्ततः ॥ ९ ॥
अध ऊर्ध्वविभेदेन स्थितोऽसौ कनकाचलः ।
पद्माकारस्वरूपेण भूमिमध्ये स्थितो बभौ ॥ १० ॥
पद्मपत्रसमानेन ह्याकारेण व्यवस्थिताः ।
पर्वताः परितस्तस्य नानाधातुमया बभुः ॥ ११ ॥
तेषु सर्वत्र देवानां गुह्यकानां च पक्षिणाम् ।
योगिनां रक्षसां चैव सिद्धानां च महात्मनाम् ॥ १२ ॥
नागेन्द्राणां मुनीन्द्राणां गन्धर्वाणां प्रजापते ।
पिशाचानां च भूतानां निवासा अद्भुता बभुः ॥ १३ ॥
[[२७]]
उद्यानानि विचित्राणि देवक्रीडनकानि च ।
जराशोकहराण्येव जलानि खलु सर्वतः ॥ १४ ॥
कैलासाद्यष्ट ?शैलेन्द्रा दिक्षु तस्य व्यवस्थिताः ।
तेषु रुद्रादिदेवेन्द्रा वसन्ति दिगधीश्वराः ॥ १५ ॥
मध्ये स्थानं महारण्यं ब्रह्मणः परमेष्ठिनः ।
इत्येवं सर्वदेवानां सुखदः स गिरिर्बभौ ॥ १६ ॥
तस्य दक्षिणभागे च द्वीपखण्डास्त्रयोऽभवन् ।
उत्तरे च तथा खण्डास्त्रयस्तस्य प्रकीर्तिताः ॥ १७ ॥
पूर्वपश्चिमभागे द्वौ वर्षौ तस्य हि सम्मतौ ।
मध्ये समन्ततो वर्ष एकस्तस्य प्रजापते ॥ १८ ॥
एवं खण्डाः समाख्याता नव द्वीपे च मध्यमे ।
हिमाचलादयस्तेषु मर्यादागिरयः स्मृताः ॥ १९ ॥
द्विसहस्रं समुत्सेधो योजनानां प्रजापते ।
अष्टौ चैव प्रविस्तारा महाशैला समन्ततः ॥ २० ॥
सहस्रं योजनानां च खण्डे खण्डे च विस्तरः ।
प्रत्येकं भिन्नभावेन तेषु लोका वसन्ति च ॥ २१ ॥
वर्षेषु पर्वताश्चैव नद्यो नानाविधाः स्मृताः ।
तत्र सर्वे जना दक्ष वसन्ति सुखभोगिनः ॥ २२ ॥
अजनाभविहीनाश्च खण्डा अष्टौ प्रकीर्तिताः ।
तेषु स्वाभाविकी सिद्धिः स्थिरभावेन संस्थिता ॥ २३ ॥
सदा यौवनयुक्ताश्च नरा नार्यः सुरूपिणः ।
देववत्सुखभोक्तारो बभुः साधुगुणान्विताः ॥ २४ ॥
परस्परेषु संसक्ताः समकालप्रभोगिनः ।
वर्णाश्रमरताः सर्वे धर्मयुक्ता दयान्विताः ॥ २५ ॥
न तत्र युगधर्मश्च सदा सामान्यधर्मिणाम् ।
शीतोष्णादिभवं दुःखं नास्ति खण्डेषु मानद ॥ २६ ॥
एकादशशतान्येव सहस्रं तेषु कुत्रचित् ।
शतानि द्वादशाप्येव त्रयोदशशतानि च ॥ २७ ॥
शतानि कुत्रचित्पञ्च दशाप्येव प्रजापते ।
शतानि पञ्चवर्षाणि जीवन्ति किल मानवाः ॥ २८ ॥
नाभेः खण्डोऽजनाभश्च हिमाचलसमीपगः ।
कर्मात्मकः समाख्यातः सर्वमान्यो बभूव ह ॥ २९ ॥
तत्र कर्माणि कृत्वा तु नरा यान्ति समन्ततः ।
द्वीपेषु खण्डेषु तथा तथा पातालभूमिषु ॥ ३० ॥
स्वर्गेषु भोगप्राप्त्यर्थं कर्मणां फलमेव च ।
तेषु भुक्त्वा पुनर्ह्यत्र यान्ति कर्मार्थमञ्जसा ॥ ३१ ॥
अथवा पापकर्माणि कृत्वात्रैव व्रजन्ति ते ।
नरकेषु नरा नार्यः पुनरत्र प्रयान्ति च ॥ ३२ ॥
अत्र योगेन योगीन्द्रो भवेद्वै नात्र संशयः ।
गाणपत्यस्वरूपं च तद्भक्त्या लभते नरः ॥ ३३ ॥
अतः श्रेष्ठतमः प्रोक्तो वर्षोऽयं च हिमालयः ।
सर्वदातृत्वमापन्नो मान्यस्तेषां प्रजापते ॥ ३४ ॥
भोगेषु स्वल्परूपोऽयं सर्वेभ्यः कथितो बुधैः ।
शीतोष्णादिसमायुक्तो नानारोगसमन्वितः ॥ ३५ ॥
तत्र वर्णाश्च चत्वारस्तेषां वै व्यभिचारतः ।
वर्णा नानाविधाः प्रोक्ता भिन्नधर्मात्मकाः प्रभो ॥ ३६ ॥
अस्मिन् युगभवं मानं युगधर्माः समन्ततः ।
नराः प्रकृतिभिन्नाश्च स्वार्थादिकसमन्विताः ॥ ३७ ॥
बहवोऽग्रे बभुः शैला विन्ध्यसह्याद्रिकादयः ।
तेभ्यः प्रसूता नद्यश्च बह्व्यः सर्वत्र संस्थिताः ॥ ३८ ॥
पुण्यदाः स्नानमात्रेण मिष्टतोया महामते ।
नराः कर्मकरास्तत्र त्रिविधाचारसंयुताः ॥ ३९ ॥
तीर्थानि सर्वदेवानां स्थानानि त्वग्रजन्मनाम् ।
तत्सेवकानामधिककर्मोत्थफलदानि वै ॥ ४० ॥
एवमाद्यगुणैर्युक्तो जना भो वर्ष एव च ।
कर्मणां भरणात्सुज्ञैर्भारतोऽयं प्रकीर्तितः ॥ ४१ ॥
एतद्भूमण्डलं कृत्स्नं कथितं ते समासतः ।
श्रवणात्पठनाच्चापि पापापहरणं भवेत् ॥ ४२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरित्रे भूगोलवर्णनं नामैकादशोऽध्यायः ॥