॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
प्रियव्रतस्य पुत्राश्च दशोत्पन्ना महौजसः ।
तेजस्विनो धर्मशीला विख्याता बलवत्तराः ॥ १ ॥
आग्नीध्र इध्मजिह्वश्च यज्ञबाहुस्तथा महान् ।
वीरो हिरण्यरेताश्च सवनो घृतपृष्ठकः ॥ २ ॥
मेधातिथिर्वीतिहोत्रः कविः पितृसमा बभुः ।
कविः सवनवीरौ च न राज्ये दधिरे मतिम् ॥ ३ ॥
सप्तद्वीपेश्वरास्तेन सप्त पुत्राः कृताः परे ।
जम्बुद्वीपेश्वरं पुत्रं आग्नीध्रमकरोन्नृपः ॥ ४ ॥
प्लक्षद्वीपेश्वरस्तेनेध्मजिह्वश्च कृतः सुतः ।
शाल्मले वै यज्ञबाहुं राजा तमभिषिक्तवान् ॥ ५ ॥
हिरण्यरेतसं चक्रे कुशद्वीपेश्वरं सुतम् ।
क्रौञ्चद्वीपेश्वरं चैव घृतपृष्ठं चकार ह ॥ ६ ॥
मेधातिथिं पतिं चक्रे शाकद्वीपस्य शाश्वतम् ।
पुष्करेशं स राजा तु वीतिहोत्रं चकार ह ॥ ७ ॥
ततः प्रियव्रतो राजा वनं प्राप्तः प्रतापवान् ।
नारदाद्योगमास्थाय गाणपत्यो बभूव ह ॥ ८ ॥
अन्ते गणेशरूपश्च सञ्जातो योगसेवया ।
प्रियव्रतसमो राजा न भूतो न भविष्यति ॥ ९ ॥
पुष्करे वीतिहोत्रस्य द्वौ पुत्रौ सम्बभूवतुः ।
रमणो धातकिर्नाम महावीर्यौ सुधर्मिणौ ॥ १० ॥
रमणस्य स्मृतं वर्षं तन्नाम्ना च महात्मनः ।
धातकेश्चापि खण्डोऽयं बुधैर्धातकिरुच्यते ॥ ११ ॥
एकोद्रिर्मानसाख्यश्च तन्मध्ये वलयाकृतिः ।
योजनानां सहस्त्राणि दशोत्सेधः सन्नान्ततः ॥ १२ ॥
दशसाहस्रवर्षाणि जीवनं तत्र विद्यते ।
तत्र ब्रह्मा स्वयं साक्षाद् द्वीपे तिष्ठति पुष्करे ॥ १३ ॥
तं सुरा मानवाद्याश्च पूजयन्ति निरन्तरम् ।
स्वादूदकेन वै दक्ष वृतो द्वीपः समन्ततः ॥ १४ ॥
योजनानां चतुःषष्टिलक्षं सिन्धुश्व सोऽद्भुतः ।
तत्रान्ते पर्वतो रम्यो लोकालोकाह्वयः स्मृतः ॥ १५ ॥
एकत्र लोकसंवास एकतो लोकवर्जितः ।
लोकालोकाचलादत्र प्रकाशश्चन्द्रसूर्ययोः ॥ १६ ॥
तस्मात्परत्र भो दक्ष अन्धकारः समन्ततः ।
लोकालोकाचलस्तेन कथितो मुनिभिः पुरा ॥ १७ ॥
पुष्करे बहवो नद्यो मानसाचलसम्भवाः ।
स्वादूदकाः पुण्यरूपा निर्मलाः सर्वभावतः ॥ १८ ॥
तासां जलस्य पानेन रोगा नश्यन्ति दुःखदाः ।
क्लमस्वेदादिकं सर्वं विद्यते न कदाचन ॥ १९ ॥
[[२५]]
शाकद्वीपेश्वरस्याथ सप्तपुत्रास्तथाऽभवन् ।
पवमानस्ततः पूर्वौ पुरोजवमनोजवौ ॥ २० ॥
धूम्रानीकश्चित्ररेफो बहुरूपो जगद्धरः ।
सप्तखण्डाश्च तद्द्वीपे पर्वताः सप्त मुख्यकाः ॥ २१ ॥
पुरोजवस्य तन्नाम्ना वर्षं प्रथममुच्यते ।
मनोजवस्य तन्नाम्ना खण्डमन्यत्प्रकथ्यते ॥ २२ ॥
पवमानस्य खण्डं वै पावमानात्मकं तथा ।
धौम्रानीकं चतुर्थं वै पञ्चमं चैत्ररेफकम् ॥ २३ ॥
बहुरूपस्य तन्नाम्ना वैश्वधारं च सप्तमम् ।
पालयामासुरव्यग्राः स्वं स्वं खण्डं प्रजापते ॥ २४ ॥
दशसाहस्रवर्षाणि तत्र वै जीवनं स्मृतम् ।
नराणां दोषहीनानां सदा यौवनशालिनाम् ॥ २५ ॥
दधिमण्डोदकाख्येन संवृतो द्वीप उत्तमः ।
तावन्मानेन युक्तेन योजनानां प्रजापते ॥ २६ ॥
विस्तारो योजनानां च द्वात्रिंशल्लक्षसम्मितः ।
द्वीपस्य च नरास्तत्र यजन्ते वायुमीश्वरम् ॥ २७ ॥
क्रौञ्चद्वीपस्य विस्तारो लक्षषोडशकं मुने ।
योजनानां समाख्यातः खण्डास्तत्र च सप्त वै ॥ २८ ॥
पर्वताः सप्त तत्रैव नद्यः सप्त प्रकीर्तिताः ।
अन्याः क्षुद्रस्वरूपाश्च नद्यः सर्वत्र संस्थिताः ॥ २९ ॥
घृतपृष्ठसुतास्तत्र सप्त खण्डेश्वराः स्मृताः ।
स्वस्वनाम्ना समाख्याताः खण्डास्तेषां प्रजापते ॥ ३० ॥
आमोमधुरुहः सप्त घृतपृष्ठः सुधात्मकः ।
भ्राजिष्ठो लोहितो वर्णवनस्पतिरिति स्मृताः ॥ ३१ ॥
एकादशसहस्रं तु वर्षाणां जीवनं नृणाम् ।
यजन्त्यापोमयं तत्र सदा नारायणं जनाः ॥ ३२ ॥
क्षीरोदेन समन्ताच्च संवृतो द्वीप आदरात् ।
तावद्विस्तारभूतश्च श्वेतद्वीपोऽपि स स्मृतः ॥ ३३ ॥
हिरण्यरेतसः सप्त कुशद्वीपपतेः सुताः ।
वसुश्च वसुदानश्च दृढरुचिस्तृतीयकः ॥ ३४ ॥
सत्यव्रतो नाभिगुप्तो विविक्तो नाम देवकः ।
स्वस्वनाम्ना च तेषां वै खण्डाः सप्त प्रजापते ॥ ३५ ॥
तत्रैव पर्वताः सप्त मर्यादागिरयः स्मृताः ।
नद्यः सप्त महावेगाः सुजला दुःखहारकाः ॥ ३६ ॥
दशसाहस्रवर्षाणि जीवनं तत्र विद्यते ।
योजनानां कुशद्वीपश्चाष्टलक्षप्रमाणकः ॥ ३७ ॥
घृतोदेनावृतः सम्यक् तावदायामरूपिणा ।
सर्वतस्तत्र देवेशं हव्यवाहं यजन्ति ते ॥ ३८ ॥
शाल्मलद्वीपनाथस्य यज्ञबाहोः सुताः स्मृताः ।
सुरोचनः सौमनस्यो रमणो देववर्षकः ॥ ३९ ॥
आप्यायनः पारिभद्रो विज्ञातः सप्तमः स्मृतः ।
तत्तन्नाम्ना च विख्याताः खण्डास्तेषां प्रजापते ॥ ४० ॥
नद्यः सप्त महावेगाः पर्वताः सप्त तत्र वै ।
योजनानां चतुर्लक्षं विस्तारस्तस्य सर्वतः ॥ ४१ ॥
सुरोदेनावृतः सोऽपि तावदायामरूपिणा ।
नराणां जीवनं तत्राष्टसहस्रसमाः किल ॥ ४२ ॥
प्लक्षद्वीपेश्वरस्याथेध्मजिह्वस्य सुतास्तथा ।
शिवो यवयसश्चैव क्षान्तक्षेमसुभद्रकाः ॥ ४३ ॥
अमृतोऽभयसञ्ज्ञश्च सप्तैते परिकीर्तिताः ।
स्वस्वनामाङ्किताः खण्डास्तेषां तत्र प्रकीर्तिताः ॥ ४४ ॥
[[२६]]
गिरयः सप्त तत्रैव नद्यः सप्त महाजलाः ।
नराणां जीवनं तत्र पञ्चवर्षसहस्रकम् ॥ ४५ ॥
द्विलक्षयोजनान्येव विस्तारस्तस्य सर्वतः ।
इक्षूणां च रसोदेन तावता परिसंवृतः ॥ ४६ ॥
लक्षद्वीपे यजन्ते वै सूर्यं धर्मपरायणाः ।
वृष्टिसंस्राविणं देवं तेजोरूपेण संस्थितम् ॥ ४७ ॥
प्लक्षद्वीपादिषु ज्ञेयं शाकद्वीपान्तिमेषु वै ।
वर्णाश्रमविभागेन स्वधर्मे संस्थिता जनाः ॥ ४८ ॥
पुष्करे सर्वधर्मज्ञा एकमार्गं समाश्रिताः ।
एकवर्णाश्रमास्तत्र समशीलाः प्रजापते ॥ ४९ ॥
न तेषु युगमानं च युगधर्मः स्वभावतः ।
सदा समानः कालश्च स्वर्धमस्तादृशः स्मृतः ॥ ५० ॥
न लोभो न च मात्सर्यं परस्परहिते रताः ।
नरास्ते पुण्यशीला वै स्वदाररततोषिणः ॥ ५१ ॥
कर्मणां फलभोक्तारो तेषु द्वीपेषु शौनक ।
बभूवुर्भाविकाः सर्वे देववत् क्रीडने रताः ॥ ५२ ॥
स्वस्वद्वीपस्थितं देवमभजंस्ते ततः सुखम् ।
सम्प्रापुस्ते जनाः सर्वे सालोक्यादिचतुष्टयम् ॥ ५३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरित्रे द्वीपवर्णनं नाम दशमोऽध्यायः ॥