॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
दुर्वासाः शङ्करस्यांशस्तताप परमं तपः ।
नेति ब्रह्मणि सञ्जातो ब्रह्मभूतो महामुनिः ॥ १ ॥
तमतिक्रोधसंयुक्तमशान्तं शान्तिलालसम् ।
संवीक्ष्य दत्तवज्ज्ञानं ददावत्रिर्महामुनिः ॥ २ ॥
मयूरेशक्षेत्रके स गणेशध्यानमास्थितः ।
स्वभक्त्या गणराजेन शान्तियोगयुतः कृतः ॥ ३ ॥
तदारभ्य महायोगी दुर्वासाः शान्तिधारकः ।
क्रोधहीनस्वभावः स सञ्जातो ब्रह्मवित्तमः ॥ ४ ॥
एतदत्रिसुतानां ते चरितं कथितं मया ।
यथा दक्षाय भो विप्र मुद्गलेन प्रकाशितम् ॥ ५ ॥
अधुना कथयिष्यामि स्वायम्भुवजसन्ततेः ।
चरितं सर्वपापघ्नं कथितं मुद्गलेन यत् ॥ ६ ॥
शौनक उवाच ।
कथं मुद्गलविप्रेण कथितं तस्य धीमतः ।
चरित्रं वद सर्वं मे यथा दक्षेण संश्रुतम् ॥ ७ ॥
सूत उवाच ।
शापमोहितदक्षस्तु श्रुत्वात्रेयसमुद्भवम् ।
चरितं योगरूपं स मुद्गलं पुनरब्रवीत् ॥ ८ ॥
दक्ष उवाच ।
धन्योऽत्रिर्यस्य पुत्रा वै गाणपत्या महौजसः ।
योगिनो योगदातारः श्रुतं तेषां चरित्रकम् ॥ ९ ॥
अधुना वद मे ब्रह्मन् सृष्टिमार्गं पुरातनम् ।
स्वायम्भुवमनोः पुत्रौ चक्रतुः किं महौजसौ ॥ १० ॥
सूत उवाच ।
दक्षस्य वचनं श्रुत्वा हर्षयुक्तेन चेतसा ।
जगाद तं महायोगी मुद्गलः परमार्थवित् ॥ ११ ॥
मुद्गल उवाच ।
स्वायम्भुवमनोः पुत्रौ सञ्जातो पूर्णधार्मिको ।
प्रियव्रतोत्तानपादौ नाम्ना ख्यातौ प्रजापती ॥ १२ ॥
जगाम साधनरतो वनं ज्येष्ठः प्रियव्रतः ।
देहादि नश्वरं मत्वाऽभूत्स खिन्नो मनुस्ततः ॥ १३ ॥
जगाम नारदस्तत्र सहसा तं मनुर्जगौ ।
पुत्रं प्रियव्रतं विप्र बोधयस्व विधानतः ॥ १४ ॥
तथेति नारदस्तत्र ययौ तस्य महाश्रमम् ।
तं दृष्ट्वोत्थाय राजर्षिः प्रणनाम कृताञ्जलिः ॥ १५ ॥
स्वकीयाज्ञावशं पुत्रं मानसे वीक्ष्य संस्थितम् ।
तं जगाद महातेजा नारदो राजसत्तमम् ॥ १६ ॥
[[२३]]
नारद उवाच ।
शृणु पुत्र महाभाग प्रियव्रत महामते ।
देहादि नश्वरं सर्वं त्वया ज्ञातं महाद्भुतम् ॥ १७ ॥
तथापि नरदेहोऽयमृणत्रयसमन्वितः ।
नरदेहकृतं कर्म तन्मूलं सकलं जगत् ॥ १८ ॥
सर्वेषामन्नरूपोऽयं नरदेहो न संशयः ।
तस्य पोषणमत्यन्तं कर्तव्यं देहधारिणा ॥ १९ ॥
स्वधर्मपालनेनैव वर्णाश्रमविधानतः ।
देहिना कृतपुण्येनान्नेन विश्वं प्रपोषितम् ॥ २० ॥
यज्ञादिभिर्ऋणं दैवं श्राद्धाद्यैश्चैव पैतृकम् ।
पुत्रोत्पादनमार्गेण मानुष्यं नाशमेष्यति ॥ २१ ॥
अधुना ऋणयुक्तस्त्वं वनं कस्मात्समागतः ।
कुरु राज्यं महाभाग स्वधर्मनिरतो मुदा ॥ २२ ॥
पुत्रेषु राज्यमात्मीयं स्थापयित्वा च शाश्वतम् ।
पश्चात्त्वं वनमाविश्य योगाभ्यासरतो भव ॥ २३ ॥
मुद्गल उवाच ।
नारदस्य वचः श्रुत्वा हर्षितो राजसत्तमः ।
उवाच तं मनोः पुत्रः प्राञ्जलिः श्रद्धयान्वितः ॥ २४ ॥
प्रियव्रत उवाच ।
स्वामिन्विज्ञप्तुमिच्छामि वद मे त्वं महामते ।
केनोपायेन योगीन्द्र ब्रह्मभूतो भवेन्नरः ॥ २५ ॥
नारद उवाच ।
शृणु पुत्र प्रवक्ष्यामि ब्रह्मभूयपदप्रदम् ।
मार्गं संसाध्य शान्तिं च लभते मानवः स्वयम् ॥ २६ ॥
गणेशं योगरूपं तं ज्ञात्वैव ब्रह्मनायकम् ।
ब्रह्मभूतो भवेज्जन्तुः साधनेन महामते ॥ २७ ॥
गणशब्दः समूहस्य वाचकः परिकीर्तितः ।
समूहा योगरूपाश्च बाह्यान्तरविभेदतः ॥ २८ ॥
अन्नानां सकलानां च समूहेन्नमयं सुत ।
कथितं ब्रह्म वेदेषु एवं नानागणाः स्मृताः ॥ २९ ॥
तेषां पतिं गणेशानं तं ज्ञात्वा योगिनः पुरा ।
शान्तिं प्राप्ता विशेषेण शान्तियोगमयं परम् ॥ ३० ॥
अस्माकं कुलदेवत्वं सम्प्राप्तोऽसौ गजाननः ।
तमाराधय यत्नेन ततः क्षेमं भविष्यति ॥ ३१ ॥
गुणेशो गणराज सम्पूज्य वै भक्तिभावतः ।
बभूव ब्रह्मभूतश्च भक्त्यास्माकं पितामहः ॥ ३२ ॥
तस्य पुत्राः समाख्याता ब्रह्मविष्णुमहेश्वराः ।
सूर्यः शक्तिश्च पञ्चैते तं समाराध्य भोगिनः ॥ ३३ ॥
ततस्ते शान्तिमत्यन्तं प्राप्ता विश्वेश्वराः सुत ।
ब्रह्मणश्च वयं पुत्रा भजामस्तं गणाधिपम् ॥ ३४ ॥
ततो योगीन्द्रमुख्याश्च वयं जाताः प्रियव्रत ।
सर्वज्ञानसमायुक्ता बन्धहीना विशेषतः ॥ ३५ ॥
तथा त्वमपि राजेन्द्र गणेशं भज भावतः ।
तवातः सुलभं सर्वं भविष्यति सदानघ ॥ ३६ ॥
तत एकाक्षरं मन्त्रं ददौ तस्मै महामुनिः ।
गणेशाराधनं सर्वं बोधयामास यत्नतः ॥ ३७ ॥
एतस्मिन्नन्तरे तत्र ब्रह्मणा सह सङ्गतः ।
स्वायम्भुवो मनुः सुज्ञस्तौ दृष्ट्वा प्रणतौ सुतौ ॥ ३८ ॥
ब्रह्मणा बोधितोऽत्यन्तं पुनः पौत्रः प्रियव्रतः ।
मनुना सहराजर्षिर्ययौ स्वनगरे तदा ॥ ३९ ॥
पुत्रौ स्वायम्भुवो राज्ये समास्थाप्य वनं ययौ ।
योगेनाराधयामास गणेशं भक्तिसंयुतः ॥ ४० ॥
क्रमेण पञ्चभूमीनां चित्तस्य परतो गतः ।
त्यक्त्वा चित्तं महायोगी ब्रह्मभूतो बभूव ह ॥ ४१ ॥
शान्तियोगं समाश्रित्य ब्रह्मलोकं जगाम ह ।
तत्रैव संस्थितोऽभूत्स गणेशभजने रतः ॥ ४२ ॥
[[१०]]
प्रियव्रतः स्वयं राजा पालयामास मेदिनीम् ।
धर्मेण नीतिदानेन त्यागेन यश आर्जयत् ॥ ४३ ॥
स्वस्वधर्मरताः सर्वे जना वर्णाश्रमान्विताः ।
मुदिताः सत्यशीलाच स्थिते राज्ये प्रिय व्रते ॥ ४४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते प्रियव्रतराज्यप्राप्तिवर्णनं नाम नवमोऽध्यायः ॥